All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · सरभादिप्रकाण्डः (1/2)
अथ प्रसह्यास्तत्रादौ सरभस्तु महामृगः ।उत्पादको महास्कन्धः सिंहशत्रुर्महामनाः ॥ १ ॥
1.12.1 · p. 317
अनुष्टुप्
लण्डिलश्चोर्ध्वनयनो रामोष्टापद इत्यपि ।महाशृङ्गी मनस्वी च मृगेन्द्रश्चतुरूर्ध्वपात् ॥ २ ॥
1.12.2 · p. 317
अनुष्टुप्
वनपर्वतयोरर्थान्निवासार्थोऽष्टपादपि ।उष्ट्राकृतिश्चाथ सिंहः पञ्चास्यः केसरी हरी ॥ ३ ॥
1.12.3 · p. 318
अनुष्टुप्
हर्यक्षः केशरी मानी नखी मृगपतिर्हरिः ।कण्ठीरवः पञ्चशिखः शैलाटो भीमविक्रमः ॥ ४ ॥
1.12.4 · p. 318
अनुष्टुप्
पलंकषो महानादः पारीन्द्रो नखरायुधः ।अगौकाश्च नगौकाश्च केसरी करिमाचलः ॥ ५ ॥
1.12.5 · p. 318
अनुष्टुप्
गन्धोष्णीषो व्यादितास्यो वनराजो गणेश्वरः ।हस्तिपर्यायशत्र्वर्थो नभःक्रान्तः सकृत्प्रजः ॥ ६ ॥
1.12.6 · p. 318
अनुष्टुप्
रक्तजिह्वो महावीरो दशमीस्थः सुगन्धिकः ।तथैव श्वेतपिङ्गश्च श्वापदो गर्जितासहः ॥ ७ ॥
1.12.7 · p. 318
अनुष्टुप्
द्विपः पञ्चशिखश्चाथ नादेऽप्यस्य मरुत्प्लवः ।टक्कारोऽपि च चुत्कार स्त्रियां क्ष्वेडाऽथ भीरुकः ॥ ८ ॥
1.12.8 · p. 318
अनुष्टुप्
व्याघ्रः पञ्चनखो व्याडः शार्दूलोऽपि गुहाशयः ।तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी द्वीपिल इत्यपि ॥ ९ ॥
1.12.9 · p. 318
अनुष्टुप्
चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः ।व्याघ्र्यां चित्रेण संजातः कलव्याघ्रोऽथ भल्लुकः ॥ १० ॥
1.12.10 · p. 318
अनुष्टुप्
दुर्घोषो भल्लुको भल्लो भालुकः पृष्ठदृष्टिकः ।द्राघिष्ठायुर्दीर्घकेशो भाल्लूको भल्लकोऽपि च ॥ ११ ॥
1.12.11 · p. 318
अनुष्टुप्
भल्लो भाल्लश्च भालूक ऋक्षोऽप्यथ मृगादनः ।तरुक्षुश्च तरक्षः स्याद्घोरदर्शन इत्यपि ॥ १२ ॥
1.12.12 · p. 319
अनुष्टुप्
शृगालो वञ्चकः क्रोष्टा सृगालो मृगधूर्त्तकः ।गोमायुर्भूरिमायः स्यात्फेरवो घोरवासनः ॥ १३ ॥
1.12.13 · p. 319
अनुष्टुप्
पारूरवः पेरवोऽपि पेरुः फेरुश्च जम्बुकः ।जम्बूको वनमत्तः स्याल्लोपाशो वनकुक्कुरः ॥ १४ ॥
1.12.14 · p. 319
अनुष्टुप्
शालावृकः शिवालुः स्यात्फेरण्डो व्याघ्रनामकः ।स्त्रियां शिवा दीप्तजिह्वा फेरवा घोरवाशिनी ॥ १५ ॥
1.12.15 · p. 319
अनुष्टुप्
लोपाश्युल्कामुखी गण्डिः साल्पा खोल्का किखिः पुनः ।भोवाकी पूतिकेश्याह्वा नखिनो लग्नमैथुनाः ॥ १६ ॥
1.12.16 · p. 319
अनुष्टुप्
तेऽपि स्युः श्वापदाः सर्वे कोकस्त्वीहामृगो वृकः ।स्याद्गोवत्सहुडच्छागनाशनोऽपि जलाश्रयः ॥ १७ ॥
1.12.17 · p. 319
अनुष्टुप्
वनार्थभषणार्थोऽथ पुनः स्याद्दीप्तलोचनः ।स च स्यान्मूषकारातिर्मायावी रात्रिचार्यपि ॥ १८ ॥
1.12.18 · p. 319
अनुष्टुप्
जाहकः कुन्दमो ह्रीकुर्विडालो वृषदंशकः ।मार्जार ओतुस्तद्भेदा देशभेदादथापरः ॥ १९ ॥
1.12.19 · p. 319
अनुष्टुप्
वनेचरो लम्बमुखो वृक्षावासोऽथ लोमशः ।सुगन्धिमूत्रः पूतीकस्तपनो मारजातकः ॥ २० ॥
1.12.20 · p. 319
अनुष्टुप्
गन्धपर्यायमार्जारः खट्टाशोऽथ विलम्बिताः ।गज उक्तो गणोत्साहो वज्रचर्मा च गण्डकः ॥ २१ ॥
1.12.21 · p. 320
अनुष्टुप्
खड्गो वाध्रीणसः क्रोडी मालशृङ्गो वलीत्यपि ।खड्गी शूरोऽप्यथोष्ट्रोग्रे प्रोक्तो गौर्महिषोऽपि च ॥ २२ ॥
1.12.22 · p. 320
अनुष्टुप्
वनगौर्वलभद्रोऽपि स्यान्महागव इत्यपि ।तथैव स्याद्भिल्लगवी तस्य स्त्री चमरस्तु सः ॥ २३ ॥
1.12.23 · p. 320
अनुष्टुप्
व्यजनी वन्यगौर्वालधिप्रियोऽप्यथ तत्स्त्रियाम् ।गिरिप्रिया तु चमरी दीर्घबालाऽथ शूकरः ॥ २४ ॥
1.12.24 · p. 320
अनुष्टुप्
सूकरो रोमशो दंष्ट्री बहुसत्त्वः किरिः किटिः ।रदपोत्रायुधः कोलः शूरो बहुतरस्वरः ॥ २५ ॥
1.12.25 · p. 320
अनुष्टुप्
वली दन्तायुधः क्रोडः स्तब्धरोमा जलप्रियः ।वराहः सूरिको घृष्टिः सूचीरोमा बहुप्रजः ॥ २६ ॥
1.12.26 · p. 320
अनुष्टुप्
घोणान्तभेदनो घोणी कुमुखो वज्रवल्कलः ।लाङ्गलास्यो दीर्घरतो मुस्तान्नः स्थूलनासिकः ॥ २७ ॥
1.12.27 · p. 320
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
अदन्तो वक्रदंष्ट्रः स्यादाखनिर्ग्रामसूकरः ।ग्रामीणो विड्वराहोऽपि विष्ठालुर्दारुकश्च सः ॥ २८ ॥
1.12.28 · p. 320
अनुष्टुप्
अथ द्रुतास्तत्र हयः प्रोक्तः स्यादथ वेसरः ।सकृद्गर्भोऽश्वावरजः सन्तुष्टो मिश्रजः क्षमी ॥ २९ ॥
1.12.29 · p. 320
अनुष्टुप्
ध्वजोऽतिभारगो मिश्रशब्दोऽप्यथ महामृगाः ।वराहमहिषन्यङ्कुरुरुरोहितवारणाः ॥ ३० ॥
1.12.30 · p. 321
अनुष्टुप्
समरश्चमरः खड्गो महिषो हरिणस्तु सः ।चारुनेत्रस्ताम्रमृगः सारङ्गः प्रियकः पुनः ॥ ३१ ॥
1.12.31 · p. 321
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्ता (wrong syllable)
वातायुः कृष्णसारस्तु कलमः कृष्ण इत्यपि ।एणोऽप्यथ पुनर्न्यङ्कुर्वङ्कुणो मृगसंनिभः ॥ ३२ ॥
1.12.32 · p. 321
अनुष्टुप्
देहेन बहुशृङ्गाग्रो मेघान्ते त्यजति स्वयम् ।शृङ्गं रौति रुरुस्तेन सोम्भस्तटचरः सदा ॥ ३३ ॥
1.12.33 · p. 321
अनुष्टुप्
तेनासौ शम्बरादन्योऽथो रामः पुरुषप्रभः ।विकटोग्रबद्धशृङ्गो महाशृङ्गो वनप्रियः ॥ ३४ ॥
1.12.34 · p. 321
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग्र (wrong syllable)
भारशृङ्गोऽपि बिन्द्वङ्गः शम्बरोऽथ महाजवः ।वातप्रमीर्वातमृगो जङ्घालो जाङ्घिकश्च सः ॥ ३५ ॥
1.12.35 · p. 321
अनुष्टुप्
कालपुच्छश्च सीत्कारश्छिंकारो जवनः पुनः ।अपि स्याद्वेगिहरिणः शिखिरूपोऽथ चित्रलः ॥ ३६ ॥
1.12.36 · p. 321
अनुष्टुप्
शृङ्गः शाखी च सारङ्गः कुकुवागथ रोहितः ।वर्णाभ्यां ताम्रकृष्णाभ्यां युक्तः स चतुरोऽप्यथ ॥ ३७ ॥
1.12.37 · p. 321
अनुष्टुप्
अधोनिःक्रान्तदशनः करालो भषणाकृतिः ।रोमभिर्विरलैः स्वल्पैर्युतः कस्तूरिकामृगः ॥ ३८ ॥
1.12.38 · p. 321
अनुष्टुप्
श्वदंष्ट्रस्तु चतुर्दंष्ट्रो दंष्ट्राकर्कटकोऽप्यथ ।रङ्कुः शबलपृष्ठः स्यात् ढुण्डिवारोऽथ यो मृगः ॥ ३९ ॥
1.12.39 · p. 322
अनुष्टुप्
गोतुल्यश्चाथ गवयः ककुत्सास्नाविवर्जितः ।गोमृगेन्द्रोऽप्यथो मत्स्यवर्णोऽसौ चमराकृतिः ॥ ४० ॥
1.12.40 · p. 322
अनुष्टुप्
वेगवान्सृमरोऽथ स्यादुरणो रूपकोप्यथ ।वरपोतः श्रेष्ठशावोऽप्यथ स्यात् कृतमालकः ॥ ४१ ॥
1.12.41 · p. 322
अनुष्टुप्
संघातचार्यथ तनुश्चारोः कः स्यात्स्त्रियां पुमान् ।स्वल्पा शशाभा गोधाह्वा मातृकापि पृथूदरा ॥ ४२ ॥
1.12.42 · p. 322
अनुष्टुप्
अन्यागोधाण्डजा ज्ञेया शशकस्तु विलेशयः ।लम्बकर्णः श्रुतगतिः शूलिको लोमकर्णकः ॥ ४३ ॥
1.12.43 · p. 322
अनुष्टुप्
रुरुचीनैणहरिणपृषताः शंवरः पुनः ।सृमरश्च चमूरुश्चेत्येते स्युरजिनाकराः ॥ ४४ ॥
1.12.44 · p. 322
अनुष्टुप्
प्लवप्लवंगप्लवगप्लवंगमनगाटनाः ।स्याद्वृक्षशाखापर्णानां पर्यायेभ्यो मृगार्थकः ॥ ४५ ॥
1.12.45 · p. 322
अनुष्टुप्
उत्तालो वानरः कीशो मर्कटोऽपि बलीमुखः ।हरिः किखिः कपिः शोणो दधिर्वनगृहार्थकः ॥ ४६ ॥
1.12.46 · p. 322
अनुष्टुप्
मर्कः कुषाकुः पिङ्गाक्षः पिङ्गो ममर इत्यपि ।मन्दुराभूषणोऽपि स्यात्तद्भेदाः स्वल्पपुच्छकः ॥ ४७ ॥
1.12.47 · p. 322
अनुष्टुप्
स च स्याद्रक्तगौरास्यः श्वेतः कृष्णमुखोपरः ।गोलाङ्गूलः श्यामपादकरः श्वेतोऽपि सर्वतः ॥ ४८ ॥
1.12.48 · p. 323
अनुष्टुप्
सर्वतः कृष्णवर्णोऽपि पिशङ्गो नीलकर्वुरौ ।गुदस्थलं कपीनां यत्तत्कप्यासमितीरितम् ॥ ४९ ॥
1.12.49 · p. 323
अनुष्टुप्
इति भेदा वानराणामथ पर्णमृगा अमी ।मुद्गादा मूषकाः पूतिघसाः पादपशायकाः ॥ ५० ॥
1.12.50 · p. 323
अनुष्टुप्
प्रघसा वानराद्यास्तेऽप्यथापि स्युर्विलेशयाः ।स्याच्छल्यकः शल्यमृगो वज्रशल्की विलेशयः ॥ ५१ ॥
1.12.51 · p. 323
अनुष्टुप्
स्त्रियां श्वाविच्छली चाथतल्लोम्नि शलली त्रिषु ।शलं क्लीबेऽथ चमरपुच्छो जवितकौङ्कडौ ॥ ५२ ॥
1.12.52 · p. 323
अनुष्टुप्
कोकोवाचो धूम्रकः स्याल्लोमशोऽपि विलेशयः ।नकुलः सूचिवदनः सर्पादी लोहिताननः ॥ ५३ ॥
1.12.53 · p. 323
अनुष्टुप्
वभ्रुर्वन्ये पुनर्ग्राम्ये चिक्कः स्यादथ मूषकः ।वृषो दृशोऽप्याखनिको मूषो मूषीकका द्वयोः ॥ ५४ ॥
1.12.54 · p. 323
अनुष्टुप्
विलकारी धान्यभक्ष आखुर्मूडदरो नखी ।बहुप्रजोऽपि खनक उन्दुरुर्मूषिका द्वयोः ॥ ५५ ॥
1.12.55 · p. 323
अनुष्टुप्
निलेशयो वज्रदन्तो गर्ताटवृषकाण्डकाः ।आख आखानिकोऽखः स्यात् क्रमुः कर्चश्च भिंबकः ॥ ५६ ॥
1.12.56 · p. 323
अनुष्टुप्
महामूषस्तु मूषी स्यान्महाङ्गो भित्तिपातनः ।विघ्नेशाश्वः शस्यमारी भूकलो गिरिसम्भवः ॥ ५७ ॥
1.12.57 · p. 324
अनुष्टुप्
अनेकवर्णो वनजो गिरिका बालमूषिका ।स्यात्स्वल्पा लम्बतुण्डा तु शुण्डिनी शुण्डिमूषिका ॥ ५८ ॥
1.12.58 · p. 324
अनुष्टुप्
सुगन्धिमूषिका छुच्छूर्गन्धाढ्या प्रतिमूषिका ।छुच्छुन्दरी राजपुत्री पुच्छलोमा तु वृत्तिकः ॥ ५९ ॥
1.12.59 · p. 324
अनुष्टुप्
वृक्षोन्दरस्त्रिरेखः स्यान्निहाका तु द्विजिह्विका ।दारुमुख्याह्वया गोधा गोधिकाऽण्डसमुद्भवा ॥ ६० ॥
1.12.60 · p. 324
अनुष्टुप्
त्रिविधा सा स्थूलमध्यसूक्ष्माङ्गा स्यात्तदङ्गजे ।कृष्णसर्पात्समुत्पन्ने तत्रैव च चतुष्पदे ॥ ६१ ॥
1.12.61 · p. 324
अनुष्टुप्
गौधेरोऽपि च गौधारो येन दष्टो न जीवति ।तृणाञ्चनः क्रकचपात् कृकलासो हलाहलः ॥ ६२ ॥
1.12.62 · p. 324
अनुष्टुप्
वृतिस्थः सरटश्चित्रकोलश्चापि द्रुमाश्रयः ।अपि स्यात्कण्टकगृहः प्रतिसूर्यः शयानकः ॥ ६३ ॥
1.12.63 · p. 324
अनुष्टुप्
दुरारोहो मरुभवे संडाको वनसम्भवे ।सुकंपनोऽतिनीलोऽथाञ्जनिकाऽप्यञ्जनाधिका ॥ ६४ ॥
1.12.64 · p. 324
अनुष्टुप्
हालिनी तत्र स्थूलायां ब्राह्मणी रक्तपुच्छिका ।जाहको गात्रसंकोची सर्पारिः कामरूप्यपि ॥ ६५ ॥
1.12.65 · p. 324
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्र (wrong syllable)
सूचीरोमा पीलुवासो बहुरूपश्च मण्डली ।विरूपी चार्थपल्ली तु मुशली गृहगोधिका ॥ ६६ ॥
1.12.66 · p. 325
अनुष्टुप्
माणिक्या भित्तिका ज्येष्ठा गृहोली च विसंवरा ।द्वयोः कुड्याच्च मत्स्यार्था गृहगोधा गृहान्तिका ॥ ६७ ॥
1.12.67 · p. 325
अनुष्टुप्
मुशली मुषली चाथ तन्तुवायस्तु वायकः ।ऊर्णनाभश्चोर्णनाभिर्लूता मर्कटकः कृमिः ॥ ६८ ॥
1.12.68 · p. 325
अनुष्टुप्
अष्टापदो मर्कटी च जाली तज्जालके पुमान् ।आशाबन्धस्तद्विभेदास्तेषां भेदाश्च भूरिशः ॥ ६९ ॥
1.12.69 · p. 325
अनुष्टुप्
विषस्वेदा मर्कटी स्यादजीलाका हलाहलः ।वक्रकीटास्तत्प्रभेदा बहवोप्यथ वृश्चिकः ॥ ७० ॥
1.12.70 · p. 325
अनुष्टुप्
द्रोणोऽलिर्ब्रश्चनः शूककीट आलिरली पुमान् ।आली द्रुणोऽथ तत्पुच्छकण्टकेऽलमनव्ययम् ॥ ७१ ॥
1.12.71 · p. 325
अनुष्टुप्
कारस्कराटिका कर्णजलौका शतपाद्यपि ।कर्णाज्जलौकः शतपाद्भीरुः शतपदी स्त्रियाम् ॥ ७२ ॥
1.12.72 · p. 325
अनुष्टुप्
नीलङ्गुरपि नीलाङ्गुश्चित्राङ्गी कृमिवत्कृमिः ।वम्र्युपाज्जिह्विका दीका दिका गेही च सीमिका ॥ ७३ ॥
1.12.73 · p. 325
अनुष्टुप्
कम्बलाशिन्यपि चटिरुपपाद्युपदी दिविः ।वल्मीककारिकोद्गेही देवप्राप्तवरा च सा ॥ ७४ ॥
1.12.74 · p. 325
अनुष्टुप्
पिपीलिका तु हीनाङ्गी बलिष्ठा सिङ्घिनी च सा ।अपि योजनगन्धज्ञा तद्भेदाः स्युरनेकशः ॥ ७५ ॥
1.12.75 · p. 326
अनुष्टुप्
कृष्णादिवर्णभेदाच्च गतिभेदादथापराः ।घृतेड्यः पिङ्गकपिशास्ताः शुभाशुभसूचकाः ॥ ७६ ॥
1.12.76 · p. 326
अनुष्टुप्
उदङ्घाः कपिजङ्घाकास्ताः स्युस्तैलपिपालिकाः ।शिथिल्यो घृतमल्ल्यस्तु वृक्षपत्रपुटाश्रयाः ॥ ७७ ॥
1.12.77 · p. 326
अनुष्टुप्
पिशङ्गरक्तकृष्णाङ्ग्यस्ताः सर्वा मधुरप्रियाः ।महाङ्गास्तेऽपि पुंसि स्युर्मत्कुणो मञ्चकाश्रयः ॥ ७८ ॥
1.12.78 · p. 326
अनुष्टुप्
उद्दंशकश्चोत्कुणः स्याद्रक्ताङ्गो रक्तपाऽप्यपि ।उकात्कुणश्चाथ पुनश्चञ्चुलश्चञ्चलः प्लवः ॥ ७९ ॥
1.12.79 · p. 326
अनुष्टुप्
अथ पत्ररथः पक्षी द्विजो नीडोद्भवः खगः ।पत्री पतत्री विहगो विहङ्गः पत्रवाहनः ॥ ८० ॥
1.12.80 · p. 326
अनुष्टुप्
वृक्षपर्यायसद्मार्थो नभसोर्थाद्गमार्थकः ।पतङ्गः पित्सन् शकुनिः शकुनो विर्विहङ्गमः ॥ ८१ ॥
1.12.81 · p. 326
अनुष्टुप्
पुगः शकुन्तः कण्ठाग्निरण्डजो रसनारदः ।लोमकी कीकसमुखो नाडीचरण इत्यपि ॥ ८२ ॥
1.12.82 · p. 326
अनुष्टुप्
विकिरो विष्किरः पत्रिर्नगौकाश्च नगौकसा ।शरडश्च सरण्डापि पतगश्च वयो द्वयोः ॥ ८३ ॥
1.12.83 · p. 326
अनुष्टुप्
स्यात् पत्राङ्गी पिपतिषन् नभसंगम इत्यपि ।पतत् वाजी विहायाः स्याच्छकुन्तिस्ते चतुर्विधाः ॥ ८४ ॥
1.12.84 · p. 327
अनुष्टुप्
तत्रादौ प्रतुदा गृध्रस्तार्क्ष्यश्चिल्लो विजृम्भणः ।आतायी शबली दूरदर्शी स्याद्भुजगान्तकः ॥ ८५ ॥
1.12.85 · p. 327
अनुष्टुप्
शाल्मलीस्थो वज्रतुण्डो गरुत्मान् खगराट् पुनः ।सुमुखः शोभनास्यः स्यान्मणितुण्डस्तरक्षकः ॥ ८६ ॥
1.12.86 · p. 327
अनुष्टुप्
अपि संघातचारी स्यात् मेरुतुण्डो महाखगः ।श्येनस्तरस्वी दाक्षाय्यो दूरदर्शी शशादनः ॥ ८७ ॥
1.12.87 · p. 327
अनुष्टुप्
कामान्धस्तीव्रसन्तापः क्रव्यादस्तार्क्ष्यनायकः ।वेगी खगान्तकः क्रूर एतद्भेदा अनेकशः ॥ ८८ ॥
1.12.88 · p. 327
अनुष्टुप्
क्षेमङ्करीप्रभृतयः पुनर्गोष्ठचरादयः ।पक्षिशक्रश्च भासश्च गुह्यो विसर इत्यपि ॥ ८९ ॥
1.12.89 · p. 327
अनुष्टुप्
शालियाजा वडाश्चैव लङ्गवः प्राञ्जिका अणिः ।रङ्गणाश्चैव संवाणा गृध्रा अपि च वेसराः ॥ ९० ॥
1.12.90 · p. 327
अनुष्टुप्
अचण्डिकाः कंविकाश्च द्रोणकाश्चावहावकाः ।पापर्द्धिरसिकैर्ज्ञेया गन्धमादनसम्भवाः ॥ ९१ ॥
1.12.91 · p. 327
अनुष्टुप्
नीलच्छदस्तु करणो लम्बपर्णो रणप्रियः ।रणमत्तः पिच्छबाणः स्थूलनीडो भयङ्करः ॥ ९२ ॥
1.12.92 · p. 327
अनुष्टुप्
लोहपृष्ठस्तु कृकरः संदंशवदनः खरः ।रणालंकरणः क्रूरः कॄकरश्चामिषप्रियः ॥ ९३ ॥
1.12.93 · p. 328
अनुष्टुप्
उपचक्रः श्वभ्रतनुः कृशचञ्चुर्मदान्वितः ।कङ्कोऽथ वायसोऽरिष्टः कांरवो गूढमैथुनः ॥ ९४ ॥
1.12.94 · p. 328
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्व (wrong syllable)
आत्मघोषो महालोलश्चिरायुर्मुखरः खरः ।नाडीजङ्घः काशिकारिः सत्यवाङ्नगरीवकः ॥ ९५ ॥
1.12.95 · p. 328
अनुष्टुप्
सकृत्प्रजोऽपकृष्टः स्याद्वलिपुष्टो निमित्तकृत् ।लुण्ठाको वलिभुक्काणः परमृत्युश्च शक्रजः ॥ ९६ ॥
1.12.96 · p. 328
अनुष्टुप्
ध्वाङ्क्षो रतजरः सूत्री करटः काकमौकुली ।चलाचलोऽपि धूर्तः स्याच्छ्रावकोऽथ पलप्रियः ॥ ९७ ॥
1.12.97 · p. 328
अनुष्टुप्
अरण्यवायसो द्रोणः काकोलो घनवागपि ।द्रोणकाको महाप्राणः स प्रोक्तः क्रूरवागपि ॥ ९८ ॥
1.12.98 · p. 328
अनुष्टुप्
उलूकः पेचको घूकस्तामसो घोरदर्शनः ।घर्घरः काशिकः पीयुर्दिवाभीतो निशाटनः ॥ ९९ ॥
1.12.99 · p. 328
अनुष्टुप्
नक्तंचरोऽपि काकारिर्दिवान्धः कुधिरित्यपि ।नखादी चाथ मांसेष्टा दिवास्वापी निशाचरी ॥ १०० ॥
1.12.100 · p. 328
अनुष्टुप्
दिवान्धा वक्त्रविष्ठा स्याद्वल्गुनी मातृवाहिनी ।अपादा पक्षनखराऽधोमुख्यर्धजरत्यपि ॥ १०१ ॥
1.12.101 · p. 328
अनुष्टुप्
स्वैरिणी चाथ सैवाल्पा जतुकी गृहमोचिका ।भाङ्कारी चर्मचटिका सैवोक्ता विषसृक्किका ॥ १०२ ॥
1.12.102 · p. 329
अनुष्टुप्
अपिच्छाथ मयूरस्तु चन्द्रकी गरलव्रतः ।गुरुमार्जारनीलेभ्यः कण्ठः केकी शिखाबलः ॥ १०३ ॥
1.12.103 · p. 329
अनुष्टुप्
भुजङ्गभोजी पत्राड्यः शुक्लापाङ्गः शिखण्ड्यपि ।चित्रपिच्छः कलापी च मेघमत्तः शिखी ध्वजी ॥ १०४ ॥
1.12.104 · p. 329
अनुष्टुप्
प्रचलाकी बर्हिणोऽपि बर्ही तिलशिखीति च ।मेघनादानुलासी स्याच्चित्रमेखल इत्यपि ॥ १०५ ॥
1.12.105 · p. 329
अनुष्टुप्
कलापो बर्हभारेस्य पिच्छबर्हे च न स्त्रियाम् ।शिखण्डी च शिखण्डो ना नेत्रं षण् चन्द्रिका स्त्रियाम् ॥ १०६ ॥
1.12.106 · p. 329
अनुष्टुप्
प्रचलाकः शिखा चूडा मेचकः पुंसि तद्ध्वनौ ।केकाथापस्वरः क्रौञ्चः क्रुङ् स्यात्पङ्क्तिचरः पुनः ॥ १०७ ॥
1.12.107 · p. 329
अनुष्टुप्
शरत्पक्षी वक्रचञ्चू रक्तको रात्रिजागरः ।शेवलादः पुण्डरीकनयनो लोहिता तु या ॥ १०८ ॥
1.12.108 · p. 329
अनुष्टुप्
रोहिणी स्याल्लोहिताङ्गाऽप्यथोत्क्रोशः स्त्रियां पुमान् ।कुररः खरशब्दः स्यान्नीलक्रौञ्चोऽतिजागरः ॥ १०९ ॥
1.12.109 · p. 329
अनुष्टुप्
दीर्घग्रीवश्च नीलाङ्गो वकस्तु शुक्लवायसः ।वकोटस्तापसः कङ्कस्तीर्थजङ्घो निशान्तकः ॥ ११० ॥
1.12.110 · p. 329
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
तीर्थसेवी मृषाध्यायी मीनघाती शिखी पुनः ।कङ्केरुर्निश्चलाङ्गः स्याद्वाकश्चन्द्रबिहङ्गमः ॥ १११ ॥
1.12.111 · p. 330
अनुष्टुप्
स्त्रीदत्तवलिभुक् चाथ वलाका विषकण्ठिका ।शरारिरारिराटिश्च शरार्यार्यातिरित्यपि ॥ ११२ ॥
1.12.112 · p. 330
अनुष्टुप्
शरालिश्च शराली च पुरुषत्वे स्त्रियामिमे ।वलाहका वकेरुः स्त्री मेघानन्दा जलाश्रया ॥ ११३ ॥
1.12.113 · p. 330
अनुष्टुप्
धर्मान्तकामुकी श्वेताऽथोत्क्रोशो मत्स्यनाशनः ।कोयष्टिष्टिट्टिभष्टिष्टिः कुररो जलकुक्कुटी ॥ ११४ ॥
1.12.114 · p. 330
अनुष्टुप्
कारण्डवः काकवक्त्रो दीर्घाङ्घ्रिः कृष्णवर्णका ।प्लवो महाप्रमाणः स्यात्प्रसेवकगजश्च सः ॥ ११५ ॥
1.12.115 · p. 330
अनुष्टुप्
मृणालकण्डः काकस्तु वलाकः स्यादथापरः ।आटीभेदे तु पत्राटी स्यान्नान्दीमुख इत्यपि ॥ ११६ ॥
1.12.116 · p. 330
अनुष्टुप्
कुलवारी लघुश्चित्रवर्णश्चित्राङ्गदोऽप्यथ ।मद्गुस्तु जलकाकः स्यादथान्या जलकुक्कुटी ॥ ११७ ॥
1.12.117 · p. 330
अनुष्टुप्
कृष्णवर्णाथ काचाक्षो मल्लिकाक्षः कपर्दिका ।आकाशे सुचिरं भ्रान्त्वा जले पतति लोष्टवत् ॥ ११८ ॥
1.12.118 · p. 330
अनुष्टुप्
शुक्लाक्षः शुक्लशवलोप्यारी त्वारामुखी पुनः ।चक्रः कोकश्चक्रवाको निट्पर्यायवियोग्यपि ॥ ११९ ॥
1.12.119 · p. 330
अनुष्टुप्
भूरिप्रेमा द्वन्द्वचारी रथाङ्गो राविषोऽपि च ।कामी सहायो गोनर्दः कान्तोऽथ मणितारकः ॥ १२० ॥
1.12.120 · p. 331
अनुष्टुप्