कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुम्भी

kumbhīस्त्री · fem.

In 14 kośas: 16 synonym verses, 5 as a nānārtha head word, 11 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1019 · p. 40
स्थाल्युखा पिठरं कुण्डं चरुः कुम्भी घटः पुनः ।कुटः कुम्भः करीरश्च कलशः कलसो निपः ॥ १०१९ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.40
श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.314 · p. 37
अङ्गारशकटीं प्राहुर्हसन्तीं च हसन्तिकाम् ।उखा स्थाली चरुः कुम्भी पिठरं कुण्डमुच्यते ॥ ३१४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.397 · p. 176
एरण्डफलपत्रापि विशल्या तरुणीत्यपि ।उदुम्बरदला कुम्भी साथ केशरुहापरा ॥ ३९७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.160 · p. 266
सोमवल्को रञ्जनकः स्त्री कुम्भी लघुकाश्मरी ।भद्रावती महाकुम्भी श्रीपर्णी कुमुदा च सा ॥ १६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.89 · p. 142
महावल्कः स्त्रियां कुम्भी महाकुम्भी प्रचेतसा ।म[[25a]हाकषायोग्रगन्धा भद्रा भद्रवती तथा ॥ ८९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.64 · p. 276
वार्द्धनी कारकोऽस्त्री स करङ्को नालिकेरजः ।* * * * * * * * कुम्भी कुम्भीरुखा कुला ।चरुर्ना पिठरस्त्रय्यां कलशः कलसस्त्रिषु ।घटः कुम्भः करीरो ना न स्त्री कुट-निपावुभौ ।घटः कुम्भश्च मिथुने करीरोऽस्त्री कुटो निपः ॥ ६४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.148 · p. 81
कट्फले तु सोमवल्कः कैडर्यो गोपभद्रिका ।कुम्भी कुमुदिका भद्रा श्रीपर्णी भद्रवत्यपि ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1752 · p. 285
उखा चरुरुषा स्थाली कुम्भी कुण्डं च पिठरम् ॥ १७५२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.81 · p. 63
झावुकः पिचुलो झावुर्झावूरपि निगद्यते ।काफलः कट्फलः कुम्भी कैटर्यः परुषोऽपि च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.66 · p. 142
द्वयोर्घटः कुटनिवापस्त्री तु कलशस्त्रिषु ।कलसश्च द्वयोः कुम्भः कुम्भी च कलसी घटी ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.32 · p. 310
स्यात्तद्धितेऽपवादोऽयं त्रिलिङ्गत्वे स्त्रियामिह ।क्वचिदल्पविवक्षायां मृणाल्यादिरपि स्त्रियाम् ॥मृणाल्यल्पं मृणालन्तु प्रणाली मुषली घटी ।ह्रस्वो वंशस्तु वंशी स्यात्कुम्भीपाठी पटी नटी ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.37 · p. 310
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.60 · p. 223
उखः स्थालं स्थालिः स्थाली कुण्डकुण्डी च कुण्डिवत् ।कुण्डी कुम्भिः कुम्भी घटे घटी कुटोऽस्त्रियां कुडः ॥ ६० ॥
metre not recognised
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.58 · p. 49
श्रीपर्णी कुमुदा गृष्टिर्गम्भारी भद्रपर्णिका ।कैडर्ये कट्फलः कुम्भी श्रीपर्णी कुमुदेति च ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.57 · p. 190
तौ द्वौ खारी परे त्वेनां विदुः कुंभीं परे पुनः ।खारीं कंसयुगेनान्ये मानीं वाहं परे विदुः ॥ ५७ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
धरणिकोश Dharaṇikośa · धरणिदास भश्लोकः Dharaṇikośa 23.3.1 · p. 139
कुम्भौ समाध्यन्तरराशिभेदौकुम्भो घटे वारणगण्डपिण्डे ।कुम्भं स्मृतं गुग्गुलकेऽथ कुम्भीस्यात्कट्फले पाटलिवारिपर्ण्योः ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.219 · p. 61
स्त्रियां तु कुम्भी खार्यां स्यात् स्थालीभेदे च सज्जनः ।दधिमन्थनगर्गर्यां ब्रूते स्माथ द्रुमान्तरे ॥ २१९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.220 · p. 61
कट्फलाख्ये वारिपर्णीसंज्ञतोयतृणान्तरे ।त्रिवृत्संज्ञलताजातौ पुनः कुम्भेति दृश्यते ॥ २२० ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र भद्विः Śivakoṣa 19.1.323 · p. 30
कुम्भं त्रिवृद्गुग्गुलयोर्भद्रास्थालीहठे स्त्रियाम् ।रम्भा तु मृत्युपुष्पायां स्याद्रम्भः षट्पदालये ॥ ३२३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भान्ताः Śabdaratnāvalī 7.24.4 · p. 251
वारस्त्री कामुके मत्ते घटे क्लीबन्तु गुग्गुलौ ।कुम्भी स्त्रियामुखापृश्नी पाटला कट्फलेषु च ॥
अनुष्टुप्

कुम्भी as a meaning in nānārtha verses

  • कोषकल्पतरु श्रीपर्णपद्मिन्यां गरुडस्य मातरि तथा स्त्रीलिङ्गभाक्संमतः श्रीपर्णं कमलेऽग्निमन्थहठयोः कुम्भ्यां स्त्रियां शाल्मलौ । गम्भार्यां[283a]रजते तु युग्मरहितं दुर्वर्णमुक्तं बुधैः पत्रोर्णं त्वरलौ तथाम्बरभिदि त्रय्यां त्वशुद्धे चिते ॥ ३७ ॥ Koṣakalpataru 6.15.37
  • कोषकल्पतरु कुमुदरक्ताम्भोरुहि ना तु दिग्गजभिदीभे दैत्यभेदे कपौ कुम्भ्यां काश्मरिकौषधौ च कुमुदाथो कैरवेऽन्त्ये कुमुद् । वाच्याभं कृपणेऽथ रक्षसि पुमान् क्रव्याच्च मांसाशिनि स्यादूर्जे नरि कौमुदो निगदितः स्त्री चन्द्रिकायामयम् ॥ ३८ ॥ Koṣakalpataru 6.19.38
  • परमानन्दीयनाममाला कुण्डजाराज्जीवत्पतेः पुत्रे कुण्डः कुम्भ्यां जलाश्रये । कला शिल्पे विधोर्भागे क्रीडानादरनर्मणोः ॥ १०० ॥ Paramānandīyanāmamālā 5.7.100
  • शिवकोष श्रीपर्णीकुम्भ्यां च शाल्मलौ क्लीबं पुण्डरीकाग्निमन्थयोः । सरणीकुन्दसारण्योः सुषेणा त्रिवृताभिदि ॥ १६४ ॥ Śivakoṣa 11.2.164
  • शिवकोष वासन्तीवासन्ती प्रहसन्यां माधव्यां बालपुष्पायाम् । कुम्भ्यामथ वासन्तः श्रीमदशोकाक्षमुद्गचूतेषु ॥ १९६ ॥ Śivakoṣa 12.2.196
  • शिवकोष वसन्तदूतीअपराजिता तु कटभीशणपर्णीसूक्ष्मपत्रासु । कथिता वसन्तदूतश्चूते स्त्री माधवीकुम्भ्योः ॥ २१२ ॥ Śivakoṣa 12.4.212
  • शिवकोष कुमुदक्षणदा तु हरिद्रायां क्षणदः सर्वतोमुखे । कुमुदं कैरवे पद्मे कुम्भीकट्फलयोः स्त्रियाम् ॥ २२३ ॥ Śivakoṣa 14.2.223
  • शिवकोष शिवाशिवा कुम्भ्यभयाधात्रीभूमिधात्रीशमीषु च । शिम्बिर्भूर्जे च बकुले स्वाद्वी श्रेणीरसालयोः ॥ ५०२ ॥ Śivakoṣa 24.1.502
  • शिवकोष माधवीपदवी सहदेवायां नागबलायां च माधवीकुम्भ्याम् । नेपाल्यामतिमुक्ते वीरायां क्षौद्रशर्करायां च ॥ ५०५ ॥ Śivakoṣa 24.2.505
  • शब्दरत्नावली श्रीपर्णीसिङ्घाणं नासिकालोहमले स्यात्काचपात्रके । श्रीपर्णी कुम्भिगम्भार्यो क्लीबे पद्माग्निमन्थयोः ॥ Śabdaratnāvalī 7.15.65
  • शब्दरत्नावली भूतिभूतिः स्यात्कुम्भिशृङ्गारभस्मसम्पत्त्रिषु स्त्रियाम् । अथ भूतं पृथिव्यादौ पिशाचादिषु जन्तुषु ॥ Śabdaratnāvalī 7.16.34