कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

राक

rākaपुं · masc.

In 5 kośas: 3 synonym verses, 2 as a nānārtha head word.

गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 70 · p. 7
ब्राह्मणस्तनयाचार्यः परमन्युरितीर्यते ।राजा वसुन्धराकान्तः राकस्तु नरनिर्जरः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.113 · p. 16
राकः क्रूरो विविंशश्च कठिनश्च ग्रहेश्वरः ।संज्ञा छाया च तत्पत्नी तत्पुरी भास्वती नभा ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
शिवो भृगुः शुचिश्चेति कङ्कटीक इतीर्यते ।सुग्रीवो मन्मथे तु स्यात्सूर्ये राकः प्रकीर्तितः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1099 · p. 137
चारुप्रधानयोश्चापि रामा तु स्त्र्यन्तरे स्त्रियाम् ।राकशब्दस्तु पुल्लिँङ्गो ज्ञेय आतपसूर्ययोः ॥ १०९९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.51 · p. 218
रागोऽनुरागे लाक्षादौ त्विषि राकस्तु पृष्णि च ।रंगौ तु स्थानरागौ च भूप्रदेशे मृगे लिगुः ॥ ५१ ॥
अनुष्टुप्