All kośas › Śabdasāranighaṇṭu
शब्दसारनिघण्टु Śabdasāranighaṇṭu
21 verses · 96 words tagged · 5 marked doubtful (dashed)
Part 1
शब्दसारनिघण्टुः
स्वर्गे सुखं च वेगः स्यात्सीता तु सुरदीर्घिका ।अर्कः सुरेश्वरश्चापि सुधायां कञ्जमित्यपि ॥ १ ॥
1 · p. 43
अनुष्टुप्
अग्नौ शुचिश्च रेतश्च जूणिर्विधुरितीर्यते ।यमस्तु कङ्को दण्डी च कोणश्चेति निगद्यते ॥ २ ॥
2 · p. 43
अनुष्टुप्
तस्य दूतस्तु चण्डः स्यात् सुखावरुणपट्टणे ।वायुर्मर्को विधूतः स्यात् सोमज्येष्ठौ धनाधिपे ॥ ३ ॥
3 · p. 43
अनुष्टुप्
शिवो भृगुः शुचिश्चेति कङ्कटीक इतीर्यते ।सुग्रीवो मन्मथे तु स्यात्सूर्ये राकः प्रकीर्तितः ॥ ४ ॥
4 · p. 43
अनुष्टुप्
अगः शुचिश्च चन्द्रे तु खगो मृग इतीर्यते ।राजा वृष्णिस्तथाऽऽकाशे नाकशब्दः प्रकीर्तितः ॥ ५ ॥
5 · p. 44
अनुष्टुप्
शौण्डिकामेघपङ्क्तौ स्याद्गुरौ कच इतीर्यते ।श्यामा वसुन्धरायां स्यात् पर्वते नाकुरित्यपि ॥ ६ ॥
6 · p. 44
अनुष्टुप्
साधौ धुर्धर इत्युक्ते स्फटिके त्वच्छमव्ययम् ।आजिः समस्थलेऽपि स्यात् कच्छः स्यात्तटवाचके ॥ ७ ॥
7 · p. 44
अनुष्टुप्
स्तम्बे गुच्छ इति प्रोक्तो वेणी नद्यां प्रकीर्तिता ।अब्धिस्तटाके कथितस्त्रिका स्याद्दीर्घिका मता ॥ ८ ॥
8 · p. 44
अनुष्टुप्
जले व्योम च पद्मे तु शुण्डा च परिकीर्तिता ।समुद्रे नद इत्युक्तो नीलवर्णे शितिः स्मृतः ॥ ९ ॥
9 · p. 45
अनुष्टुप्
कर्को दर्पणभेदे स्यात् स्वर्णे वर्ण इतीर्यते ।शर्करायां तु वलयं शकलं खण्डमित्यपि ॥ १० ॥
10 · p. 45
अनुष्टुप्
सिता कर्पूरके सोमः कस्तूर्यां मार्ग इत्यपि ।शताङ्गे तु त्रिका प्रोक्ता जग्धः स्वल्पान्नवाचके ॥ ११ ॥
11 · p. 45
अनुष्टुप्
क्ष्वेडा तु सिंहनादे स्याद्वने तु गडुरित्यपि ।शिग्रुर्मोच इति प्रोक्तो मोचा स्याच्छाल्मली द्रुमे ॥ १२ ॥
12 · p. 45
अनुष्टुप्
शाखा तु लङ्का कथिता पर्णे शङ्कुरितीर्यते ।वार्ताके वङ्ग इत्युक्तो दूर्वा नाडः प्रकीर्तितः ॥ १३ ॥
13 · p. 46
अनुष्टुप्
भीमसेने गुणः प्रोक्तो राका नवरजस्वला ।शुण्डा वारवधूः प्रोक्ता नृपे स्याल्लोकबान्धवः ॥ १४ ॥
14 · p. 46
अनुष्टुप्
वैदेहिरिति सीतायां रजन्यां रजनिः स्मृतः ।आणिर्मुक्तामणौ तु स्यात्पविर्वज्रायुधे स्मृतः ॥ १५ ॥
15 · p. 46
अनुष्टुप्
शलभः क्षुद्रपक्षी स्यान्नयं लोचनवाचके ।वंशे पारम्परी प्रोक्ता शमीवृक्षे शमीरकः ॥ १६ ॥
16 · p. 47
अनुष्टुप्
मृगे तु कृष्णसारः स्यात्कोटीरे तु किलीटकम् ।रोमाञ्चे पुल इत्युक्तो गम्भीरः शूरवाचके ॥ १७ ॥
17 · p. 47
अनुष्टुप्
कूपारः सागरे तु स्याद्युवत्यां तलुनी तथा ।जोषा च वासुर्विष्णौ स्याद्वामश्चेति निगद्यते ॥ १८ ॥
18 · p. 47
अनुष्टुप्
मण्डूरेऽपि च सिङ्घाणं मणिचं पुष्पवाचके ।भेरुण्डो गण्डभेरुण्डे देवक्यां देवकी तथा ॥ १९ ॥
19 · p. 48
अनुष्टुप्
रक्षा राक्षा च लाक्षायां जले तु सलिलं मतम् ।दकं चाप्युत्पले च स्यात् कुमुद्वत्यनुमोदिनी ॥ २० ॥
20 · p. 48
अनुष्टुप्