क्रूर
krūraवि · adj.In 19 kośas: 38 synonym verses, 9 as a nānārtha head word, 44 as a meaning of another word.
क्रूरे नृशंसनिस्त्रिंशपापा धूर्तस्तु वञ्चकः ॥ ३७६ ॥व्यंसकः कुहको दाण्डाजिनिको मायिजालिकौ ।
अनुष्टुप्
genderविadj.
निष्ठुरः कक्खटः क्रूरः परुषः कर्कशः खरः ॥ १३८६ ॥दृढः कठोरः कठिनो जरठः कोमलः पुनः ।मृदुलो मृदुसोमालसुकुमारा अकर्कशः ॥ १३८७ ॥
अनुष्टुप्
genderविadj.
genderविadj.
खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् ।जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥
अनुष्टुप्
genderविadj.
कठोरः कठिनः क्रूरः कक्खटः कर्कशो दृढः ।उच्यते बहुलः स्थूलः पीनः पीवा च पीवरः ॥ ३४२ ॥
अनुष्टुप्
genderविadj.
तृणराजस्तलस्तालो महापत्रः फलेरुहः ।क्रमुको वाटिको घोण्टा गवाङ्गः क्रूर आसवः ॥ २५२ ॥
अनुष्टुप्
genderपुंmasc.
गैरेयकोद्रिः क्रमुकः कमुकः क्रूर आसवः ।घोण्टा तु पट्टिकाख्या स्यात्कुपुरं धुरिकेति च ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
मनोरमं च तत्प्रत्यग्दक्षिणालिन्दमुत्तमम् ।क्रूरं पूर्वोत्तरालिन्दं दक्षिणोदक् सुपक्षकम् ॥ ४१ ॥
अनुष्टुप्
genderक्लीneut.
कर्णेजपः सूचकः स्यान्नीचः कुरवदुर्जनौ ।पिशुनोऽथ नृशंसः स्यात्क्रूरो घातुक इत्यथ ॥ ८८ ॥
अनुष्टुप्
genderविadj.
क्रूरं करेरं जठरं जरठं दृढनिष्ठुरे ।मूर्त्तं निवातं निःसन्धि निर्भरं प्रौढमेधितम् ॥ १३५ ॥
अनुष्टुप्
genderविadj.
शिरीषपत्रा किणीही कालिन्दी विषपादिका ।महाश्वेताऽथ क्षवकः क्षतकः क्रूर इत्यपि ॥ २१९ ॥
अनुष्टुप्
genderपुंmasc.
गणेशचण्डीकुसुमो भूतमारी रविप्रियः ।क्रूरोऽथ पीतप्रसवो गन्धपुष्पोऽथ कृष्णके ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.
क्रूरोऽथ राजधत्तूरो राजस्वर्णो महाशिवः ।भ्रान्तो निःश्रेणिकापुष्पस्तत्फले मातुलात्मजः ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.
कामान्धस्तीव्रसन्तापः क्रव्यादस्तार्क्ष्यनायकः ।वेगी खगान्तकः क्रूर एतद्भेदा अनेकशः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
लोहपृष्ठस्तु कृकरः संदंशवदनः खरः ।रणालंकरणः क्रूरः कॄकरश्चामिषप्रियः ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
दंशो दुष्टमुखः क्रूरो रुरुत्वक्सम्भवः स च ।दंशी तज्जातिरल्पा सा क्षुद्रिका वनमक्षिका ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.
चामरक्रूरदूराणां स्यात्कलेवरवेरयोः ।खुरोलूखलपातालयौतवानां दिवस्य च ॥ १०३ ॥
अनुष्टुप्
genderक्लीneut.
क्रूरः खरः कठोरः कर्क्कशमस्त्री कठो जरठः ।कक्खट-खक्खट-परुषा निष्ठुर-कठिनौ च कर्करोऽप्यत्र ॥ १६६ ॥
उद्गीतिः
genderविadj.
तृणराजे तलस्तालो महापत्रः फलेरुहः ।क्रमुको वाटिको घण्टो गुवाङ्गुः क्रूर आसवः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
मन्दोष्णश्च कवोष्णश्च कदुष्णः कोष्ण इत्यपि ।कर्कशः पुरुषः क्रूरः कक्खटो निष्ठुरः पुनः ॥ २७९ ॥
अनुष्टुप्
genderविadj.
ऋजूदारावपि प्रोक्तौ निकृतानृजुशठाः समाः ।क्रूरे नृशंसनिस्त्रिंशपापा धूर्तस्तु वञ्जके ॥ ४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 निकृ (syllable split)
genderपुंmasc.
प्रान्तरं शृङ्गबेरं च मण्डूराररचामरम् ।कटीरक्रूरदूराणि स्फारवैरे च चत्वरम् ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
राकः क्रूरो विविंशश्च कठिनश्च ग्रहेश्वरः ।संज्ञा छाया च तत्पत्नी तत्पुरी भास्वती नभा ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
दुर्जने हिंसकः पापः क्रूरो व्यंसकपोलिकौ ।नृशंसः पिशुनो दुष्टो धूर्तो वञ्चक इत्यपि ॥ ६६६ ॥
अनुष्टुप्
genderविadj.
तरलं कम्पनं कम्पं(म्प्रं?) पारिप्लवपरिप्लवे ।कठिने तु दृढं क्रूरं जरठं(ठरं?) प्रौढमेधितम् ॥ ६९९ ॥
अनुष्टुप्
genderविadj.
कर्णेजपश्च पिशुनो द्विजिह्वो दुर्जनः खलः ।पापो धूर्तः शठः क्रूरः क्षुद्रो नीचोऽधमोऽनृजुः ॥ ७४ ॥
अनुष्टुप्
genderविadj.
कक्खटः खक्खटः क्रूरः कर्कशो निष्ठुरो दृढः ॥ २५१९ ॥
अनुष्टुप्
genderविadj.
क्रूरः पापो नृशंसस्तु घातुकः द्रोहशीलके ।स्यात् प्रतारणशीले तु धूर्तो वञ्चुकवञ्चकौ ॥
अनुष्टुप्
genderविadj.
शूरस्तु वीरविक्रान्तौ जितकाशी जिताहवः ।घातकनृशंसहिंस्रव्यापादकशरारुघातुकक्रूराः ॥ १३७३ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कर्कशे तु घनक्रूरकठोरदृढनिष्ठुराः ।जरठः कठिनो नूत्नो नूतनोऽभिनवो नवः ॥ १६२७ ॥
अनुष्टुप्
genderविadj.
वृद्ध्याजीवो द्वैगुणिको भक्तं क्रूरमिमे समे ।शामिताम्लकदुग्धार्द्रा पक्वा खण्डे घृतोत्तरे ॥ १८४२ ॥
अनुष्टुप्
genderक्लीneut.
अं क्रूरो घण्टिका दण्डो बिन्दुकः समगुह्यकः ।चञ्चुः परिजयोनिश्च सौख्य-दुःख-प्रवर्तकाः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
क्रमुके वाटिका घोण्टा गुवाकः क्रूर आसवः ।कषायो रागवान् पूगः फले पर्कटमस्य तत् ॥ २१७ ॥
अनुष्टुप्
genderपुंmasc.
विस्रमस्थिकरं स्नेहवरं गौतममित्यपि ।अथास्थि कीकसं विड्डं कललं क्रूरमाढिकम् ॥ १०८ ॥
अनुष्टुप्
genderक्लीneut.
कठोरनिष्ठुरक्रूरदृढदारुणकक्खटाः ।खरश्च सुकुमारे तु कोमलो मृदुलो मृदुः ॥ ५ ॥
अनुष्टुप्
genderविadj.
तुषारः शिशिरः स्फीतः सेभ्यः सीमो हिमोऽपि च ।उष्णं ज्वलः खरः क्रूरो बालस्तिग्मः कृशश्चुपः ॥ ७ ॥
अनुष्टुप्
genderविadj.
क्रूरो नृशंसोऽप्यदये धूर्ते व्यंसकवञ्चकौ ।कौक्कुटो मायिको मायी मायावी प्रातिहारिकः ॥ २४ ॥
अनुष्टुप्
genderविadj.
अपि दुस्स्थक्रूरदीननीचदुर्गतदुर्विधाः ।मार्गणः स्याद्याचनको याचकोऽर्थी वनीपकः ॥ ६० ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्या (wrong syllable)
genderविadj.
उष्णे च कठिने च स्यात् पूगवृक्षे स्त्रियां तु सा ।बदरीकण्टकार्योः क्ली त्वस्थ्नि कूर्मस्तु कच्छपे ॥ २६० ॥
अनुष्टुप्
doubtful
ऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि ।ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥करो रश्मौ च करके शुण्डप्रत्यायपाणिषु ।कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् ।कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी ।क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि ।कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति ।क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च ।चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे ।खुरः शफे कोलदले तथा छेदनवस्तुनि ॥क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च ।खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
क्रूर as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् क्षुद्रक्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥ १७७ ॥ त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे । अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे ॥ १७८ ॥ Amarakośa 3.3.178
- हलायुधकोशः (अभिधानरत्नमाला) क्षुद्रकरणं कायेऽपि स्यादुष्णीषो मूर्धवेष्टनेऽप्युक्तः । मात्रा परिच्छदेऽपि क्षुद्रः क्रूरे श्रुतौ निगमः ॥ ७९६ ॥ Abhidhānaratnamālā (Halāyudha) 5.796
- धरणिकोश रेपरेपः स्यादधमे क्रूरे छुपः स्पर्शे क्षुपे तथा । कृपा दया कृपो व्यासो वपा विवरमेदसोः ॥ Dharaṇikośa 20.1.2
- धरणिकोश क्षुद्रक्षुद्रः स्यादधमे क्रूरे क्षुद्रोऽपि कृपणस्तथा । क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥ Dharaṇikośa 26.3.7
- धरणिकोश खलखलं भूस्थानबन्धेषु पामरक्रूरयोः खलः । मलं पापे च किट्टे च वर्चस्के कृपणे मलाः ॥ Dharaṇikośa 27.2.1
- धरणिकोश निस्त्रिंशस्पशौ प्रणिधिसंग्रामावाशू च व्रीहिसत्वरौ । निस्त्रिंशौ क्रूरखड्गौ तु बालिशो मूर्खशावकौ ॥ Dharaṇikośa 29.1.2
- कोषकल्पतरु अभीकधूमेन्द्रवोस्त्वजीवो ना स त्रिषूपहते मतः । कुण्डीकुलविभेदे तु चुलुकी शिशुमारके । अभीकः कवौ कामुकः क्रूरवाची विशेष्यायतोऽनीकमस्त्री रणेऽपि । अलीकालिके नाकभालानृतेषु स्मृते चाप्रियेऽथ व्यलीकं न योषित् ॥ ७९ ॥ Koṣakalpataru 6.1.79
- कोषकल्पतरु कटुक्लीबे दूषणके विशेष्यवदसौ स्यान्मत्सरिक्रू[270b]रयो- श्छत्रायां लवणे पटोलदलके दक्षे तु भेद्ये पटुः ॥ ८ ॥ Koṣakalpataru 6.10.8
- कोषकल्पतरु प्रचण्डशूरक्रूरसुदुर्वहेषु नरि तु स्यादश्वमारे सिते पश्वङ्गेऽप्युदरे पिचण्डमथ न स्त्री स्यात्तरण्डस्तथा । वृद्धेऽन्तर्बडिशे च दारुणि तथा स्याद्भेलकेऽथान्तरा- वेद्यां वक्त्रगदे वरण्ड उदितो धीमद्भिरेष व्रजे ॥ ८३ ॥ Koṣakalpataru 6.12.83
- कोषकल्पतरु पिशुनस्याद्दर्शनं लोचनबुद्धिधर्मे स्वप्नोपलब्ध्योर्मुकुरे च शास्त्रे । कश्मीरजे स्यात्पिशुनं त्रये तु क्रूरे खले पुंसि तु मर्कटास्ये ॥ २५ ॥ Koṣakalpataru 6.21.25
- कोषकल्पतरु वक्रक्रूरेऽन्यवत्स्यात्कुटिलेऽप्यथाग्र- मालम्बने स्यान्निकरेऽधिके च । प्रान्ते पुरस्तादुपरि प्रधाने- ऽप्याद्ये तथा[48a]र्द्धे च पलप्रमाणे ॥ ४३ ॥ Koṣakalpataru 6.27.43
- कोषकल्पतरु क्षुद्रक्षुद्रोऽधमः क्रूरदरिद्रवाची त्रयेऽल्पके स्त्री तु नटीबृहत्योः । पुराङ्गनायां मधुमक्षिकायां व्यङ्गासु हिंस्रास्वपि लोणिकासु ॥ ४७ ॥ Koṣakalpataru 6.27.47
- कोषकल्पतरु व्यालक्रूरे गजे श्वापदवाचकश्च व्यालोऽथ नालं त्रिषु पद्मदण्डे । काण्डे पुमाञ्शाककदम्बके स्त्री पुमांस्तथा स्याज्जलनिर्गमेऽपि ॥ ६२ ॥ Koṣakalpataru 6.28.62
- कोषकल्पतरु कर्कशस्यात्कर्कशोऽस्त्री कठिने दयोने क्रूरे दृढे च त्रिषु पुंसि चेक्षौ । कम्पिल्लके कासकमर्दकेऽथ गिरीश उक्तो धिषणे शिवे च ॥ २३ ॥ Koṣakalpataru 6.30.23
- कोषकल्पतरु रक्ताक्षआरक्षं गजमौलेर्मर्मणि तद्वच्च रक्षणीयेऽपि । पारापते चकोरे महि[86b]षे क्रूरे च रक्ताक्षः ॥ ६३ ॥ Koṣakalpataru 6.30.63
- कोषकल्पतरु बीभत्सक्रूरेऽन्यवत्स्याद्विकृतेऽथ विद्वान् प्राज्ञे बुधे चात्मविदि त्रिलिङ्गः । भूयांस्तु भूयिष्ठगतो विशेष्य- लिङ्गोऽव्ययं स्यात्पुनरर्थकेऽसौ ॥ ९७ ॥ Koṣakalpataru 6.31.97
- कोषकल्पतरु रेपस्ज्यायांस्तु वृद्धे च तथा प्रशस्ये घृते हविः स्याच्चरमे च होम्ये । रेपस्त्ववद्ये कृपणेऽधमे च क्रूरेऽन्यवत्स्यादथ पुंसि वेधाः ॥ ९८ ॥ Koṣakalpataru 6.31.98
- नानार्थार्णवसंक्षेप खलनीचे क्रूरे दुर्जने च पुंश्चल्यां तु स्त्रियां खला । फलग्रहणदेशे तु क्षेत्रस्य क्ली नरि त्वमुम् ॥ ३११ ॥ Nānārthārṇavasaṃkṣepa 2.5.311
- नानार्थार्णवसंक्षेप पापपापस्तु कुत्सिते क्रूरे त्रिषु क्लीबं तु दुष्कृते । विभीतकफले चाथ विभीतकतरौ पुमान् ॥ ७५२ ॥ Nānārthārṇavasaṃkṣepa 2.5.752
- नानार्थार्णवसंक्षेप भीमशम्भौ च भीमसेने च त्रि तु क्रूरे भयानके । भीष्मः शान्तनवे पुंसि भेद्यलिङ्गं भयानके ॥ ९०९ ॥ Nānārthārṇavasaṃkṣepa 2.5.909
- नानार्थार्णवसंक्षेप धमननडसंज्ञे स्थावरे स्यात् तथा स्यान्नासिकापुटे । रभसस्तु त्रिषु क्रूरे भस्त्राध्मापक एव च ॥ ९७३ ॥ Nānārthārṇavasaṃkṣepa 4.973
- नानार्थार्णवसंक्षेप निस्त्रिंशक्रूरे स्यानिष्कला तु स्त्री विगतार्तवयोषिति । अथ त्रिर्नष्टबीजे च कलाहीनेऽप्यथ त्रिषु ॥ १०३७ ॥ Nānārthārṇavasaṃkṣepa 4.1037
- नानार्थार्णवसंक्षेप बीभत्सबीभत्सः कथितः पार्थे नाट्यस्थे च रसान्तरे । तद्वदर्थे पुनस्त्रि स्यात् क्रूरे चाथ स्त्रियामियम् ॥ १२५८ ॥ Nānārthārṇavasaṃkṣepa 4.1258
- परमानन्दीयनाममाला क्षुद्रक्षुद्रस्तु निर्धने क्रूरे निकृष्टे स्वल्पतुच्छयोः । क्षेत्रं पत्न्यां भगे देहे केदारे भरतादिके ॥ ३८२ ॥ Paramānandīyanāmamālā 5.29.382
- शब्दरत्नावली अभीकअभीको निर्भये क्रूरे कामुके चोत्सुके त्रिषु । अलीकमप्रियासत्यस्वल्पेषु त्रिषु कुत्रचित् ॥ Śabdaratnāvalī 7.1.27
- शब्दरत्नावली मलिनमुखत्रिषु स्यात् मलिनमुखः क्रूरगोपुच्छवह्निषु । अथ शितमयुखस्तु घनसारमृगाङ्कयोः ॥ Śabdaratnāvalī 7.2.19
- शब्दरत्नावली धमनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नावली पिशुनपृक्कायां पिशुना स्त्री स्यात्क्रूरसूचकयोस्त्रिषु । पीतनं हरिताले च पीतदारुणि कुङ्कुमे ॥ Śabdaratnāvalī 7.20.60
- शब्दरत्नावली रेपग्रन्थावृत्तौ नाटकादौ श्लोके चा कोरकेऽपि च । रेपः क्रूरे निन्दिते च रोपो बाणे च रोपणे ॥ Śabdaratnāvalī 7.21.11
- शब्दरत्नावली जाल्मचमूः सेनामात्रकेतु सेनाभेदेऽपि च स्त्रियाम् । जाल्मः क्रूरे पामरेऽसमीक्ष्यकारिण्यपि त्रिषु ॥ जिह्मः स्यात्कुटिले मन्दे क्लीबं तगरभूरुहे । तोक्मं कर्णमले ना तु हरिते च हरिद्यवे ॥ Śabdaratnāvalī 7.25.10
- शब्दरत्नावली वक्रदेशभेदे पुमानेव पिङ्गलेऽपि च वाच्यवत् । वक्रः शनौ पुटे क्लीबं कुटिलक्रूरयोस्त्रिषु ॥ वारी मतङ्गवन्धन्यां कलस्यामपि च स्त्रियाम् । वारिर्वाणीभ-वन्धन्योः स्त्रियां क्लीबेऽम्बुवालयौः ॥ Śabdaratnāvalī 7.27.36
- शब्दरत्नावली इत्वरआशरो राक्षसे पुंसि तथा वैश्वानरेऽपि च । इत्वरी कुलटायां स्त्री पथिकक्रूरयोस्त्रिषु ॥ ईश्वरः शङ्करे कामे नाट्ये स्वामिनि वाच्यवत् । ईश्वरा चेश्वरी गौर्य्यां लक्ष्मीवाण्यादिशक्तिषु ॥ Śabdaratnāvalī 7.27.58
- शब्दरत्नावली उत्तरउदारो दातृमहतोरनुकूलेऽभिधेयवत् । उत्तरा स्त्री तु दिग्भेदे स्नुषायां फाल्गुणस्य च ॥ विराटतनये पुंसि क्रूरे दिव्युत्रये त्रिषु । प्रतिवाक्ये क्लीबलिङ्गमुत्तरन्तु निगद्यते ॥ एकाग्रं वाच्यलिङ्गं स्यादनाकुलैकतानयोः । औशीरमासने क्लीबं स्वापचामरदण्डयोः ॥ कृकरः पक्षिभेदे स्यात् क्रकचे पक्षिदीनयोः(?) । कदरः क्रकचव्याधिभिदोश्च खदिरे सिते ॥ कर्वुरो राक्षसे पापे जलहेम्नोर्नपुंसकम् ॥ Śabdaratnāvalī 7.27.59
- शब्दरत्नावली खलदेहे क्लीबं कष्टकार्या स्त्रियां कुलिरुदाहृता । खलं भूस्थानकल्लेषु वाच्यवत्क्रूरनीचयोः ॥ Śabdaratnāvalī 7.28.9
- शब्दरत्नावली कर्कशकर्कशो निर्दये क्रूरे काम्पिल्येऽमसृणेऽपि च । काशमर्दे साहसिके दृढे हिमकरे पुमान् ॥ Śabdaratnāvalī 7.30.14
- शब्दरत्नावली निस्त्रिंशदुष्पर्शी धन्वयासे ना कण्टकार्यामपि स्त्रियाम् । खरस्पर्शे तु न क्लीबं निस्त्रिंशः क्रूरखड्गयोः ॥ Śabdaratnāvalī 7.30.17
- शब्दरत्नावली बीभत्सुपुक्कसी कालिकानील्योर्बीभत्सुः क्रूरपार्थयोः । भूयोऽव्ययं पुनरर्थे भूयान् बहुतरे त्रिषु ॥ Śabdaratnāvalī 7.32.27
- शब्दरत्नावली रेफरेफाः क्रूरेऽधमे दुष्टे कृपणे च पुमानयम् । रोदश्च रोदसी चोभे द्यावाभूम्योर्दिविक्षितौ ॥ Śabdaratnāvalī 7.32.30
- शब्दरत्नाकर तीक्ष्णध्वान्ते पापे गुणेऽज्ञाने मोहे तीक्ष्णं तु शस्त्रके । त्रिषु क्रूरोष्णशातेषु तिग्मस्तीव्रोष्णयोस्त्रिषु ॥ १९३४ ॥ Śabdaratnākara 4.1.1934
- त्रिकाण्डशेष वक्रवरो जामातरि वृतौ कुङ्कुमे च नपुंसकम् । वक्रः शनैश्चरे क्रूरे पुटभेदे तथा नृजौ ॥ ३६५ ॥ Trikāṇḍaśeṣa 3.3.365
- त्रिकाण्डशेष बीभत्सरसे क्रूरे च विकृतौ बीभत्सस्त्रिषु नाऽर्ज्जुने । व्यासो मुनौ च विस्तारे बर्हिर्ना कुशशुष्मणोः ॥ ४५२ ॥ Trikāṇḍaśeṣa 3.3.452
- वैजयन्ती पापपुमांस्तु पृतनाकट्यां पापं म्यात् क्रूरपाप्मनोः । पुण्यं धर्मे जले हेम्नि पुष्पे क्ली सुंदरेऽर्थवत् ॥ ५० ॥ Vaijayantī 6.5.50
- वैजयन्ती बीभत्सबीभत्सौ क्रूरविकृतौ बहलौ सान्द्रपुष्कलौ । बन्धुरौ नम्रसुन्दरौ भंगुरौ वक्रनश्वरौ ॥ २१ ॥ Vaijayantī 7.4.21
- वैजयन्ती निस्त्रिंशनिधनोऽस्त्री कुले नाशे निस्त्रिंशः क्रूरखड्गयोः । नालीकमब्जे बाणे ना निशान्तं गृहशान्तयोः ॥ ५१ ॥ Vaijayantī 7.5.51