आतप
ātapaपुं · masc.In 14 kośas: 12 synonym verses, 25 as a meaning of another word.
प्रकाशस्तेज उद्योत आलोको वर्च आतपः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderपुंmasc.
स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः ।रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
तिग्मं तीक्ष्णं खरं तीव्रं चण्डमुष्णं पटु स्मृतम् ।आतपः कथ्यते रौद्रं निदाघो घर्म उच्यते ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
त्विषी रुची मरीची स्त्री द्युती स्यादातपोऽस्त्रियाम् ।धृष्णिर्भोमश्च भासश्च द्योतो भाभे च भास् द्वयोः ॥ १७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
उद्यो[द्द्यो]तः प्रद्योतः प्रकाश आलोक आतपो घर्मः ।भर्गस्तेजो द्योत्रं छाया स्यादातपाभावः ॥ ४६ ॥
metre not recognised
genderपुंmasc.
अभीशुः शुचिभाभानुवसूपधृतयो विभा ।प्रकाशो वर्च आलोकोद्योतावातपतेजसी ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
सन्तापः सञ्ज्वरस्तापो मण्डलं चक्रवालकम् ।विस्फुलिङ्गो वह्निकणो घर्मोष्मोष्मातपाहिमाः ॥ ३१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderपुंmasc.
प्रकाशश्तेज उद्योतः आलोकः छविरातपः ।अर्चिरंशुश्च भाः भानुः गभस्तिश्च विभा प्रभा ॥ ८५ ॥
अनुष्टुप्impossible sibilant cluster: प्रकाशश्तेज
genderपुंmasc.
अन्धकारोपशमे रश्मिकार्ये त्रयं भवेत् ।प्रकाश आतपो द्योतो रश्मिनामेति कुत्रचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
मण्डलं त्रिषु बिम्बोऽस्त्री प्रतापस्तीव्र आतपः ।करेणुर्द्युमयी संज्ञा त्रसरेणुः सुवर्चला ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.
त्रयी स्फुलिंगोऽपुञ्जो ना खड्गांगश्चाथ संज्वरः ।सन्तापः स्यात् प्रकाशस्तु द्योत आलोक आतपः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
आलोकस्तु प्रभा भा रुग्रुचिदीधितिदीप्तयः ।अथातपो रौद्रमिद्धं मृगतृष्णा मरीचिका ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
आतप as a meaning in nānārtha verses
- धरणिकोश उष्णघृणा कृपा जुगुप्सा च तृष्णा लिप्सापिपासयोः । कर्णौ श्रवणराधेयावुष्णौ ग्रीष्मातपौ स्मृतौ ॥ Dharaṇikośa 14.1.2
- धरणिकोश घर्मधर्मः स्वेदाम्भसि ग्रीष्मे उष्णे स्यादातपेऽपि च । गुल्मः स्याद्विटपे घट्टे रोगसैन्यविशेषयोः ॥ Dharaṇikośa 24.2.7
- धरणिकोश रौद्ररौद्रो यमे आतपे च रौद्रं नाट्ये रसान्तरम् । क्षेत्रं वपुषि केदारे सिद्धस्थानकलत्रयोः ॥ Dharaṇikośa 26.2.16
- धरणिकोश प्रकाशप्रकाशोऽतिप्रसिद्ध स्यादातपे च स्फुटेऽपि च । दुःस्पर्शाख्या खरस्पर्शं कण्टकारी दुरालभा ॥ Dharaṇikośa 29.2.13
- कोषकल्पतरु प्र-(पूर्वश्लोकोक्तो धातुः)प्रादातपे प्रहासे च स्फुटाविर्भावयोरपि । चकास्तिरभितोभूषे भासतिस्तु प्रतेः परः ॥ ६० ॥ Koṣakalpataru 3.5.60
- कोषकल्पतरु इद्धना देवयोनौ तपसा समृद्धे नित्ये प्रसिद्धे फलिते च सिद्धः । पुंस्यातपेऽथ त्रिषु दीप्त इद्धं समृद्धसंपन्नगतं च ऋद्धम् ॥ ५४ ॥ Koṣakalpataru 6.20.54
- कोषकल्पतरु घर्मखर्मं दुकूलेऽपि च पौरुषे च घर्मो निदाघे च तथातपे ना । स्वेदोदके चोष्णगतस्तु न स्त्री क्लीबे तु[32a]जिह्म तगरद्रुमे स्यात् ॥ ६८ ॥ Koṣakalpataru 6.25.68
- कोषकल्पतरु झिल्लिअंशे प्रदेशे श्रवणाग्रगे च प्रस्थे च यूकाविषये च पङ्क्तौ । सश्मश्रुकायामपि योषिति स्यात् झिल्लिः स्त्रियामातपकान्तिवर्त्योः ॥ ९० ॥ Koṣakalpataru 6.28.90
- कोषकल्पतरु प्रकाशस्यात्काकजङ्घातिबलातिमोदौ- षधे तथा शाकिनिकाविशेषे । व्यक्तौ विकाशो विजने प्रकाशः स्फुटप्रहासातपगः प्रसिद्धौ ॥ १७ ॥ Koṣakalpataru 6.30.17
- नानार्थार्णवसंक्षेप घर्मभारवाहकभेदे च वृद्धनाभौ च गोण्डवाक् । घर्मः स्वेदजले ग्रीष्म उष्णे दिवस आतपे ॥ ४९ ॥ Nānārthārṇavasaṃkṣepa 2.2.49
- नानार्थार्णवसंक्षेप इद्धइभ्य आढ्ये त्रिषु स्त्री तु हस्तिवातिङ्गनेऽथ तत् । इद्धं स्यादातपे क्ली त्रिर्दीपिते स्त्री त्विडा गवि ॥ ८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.86
- नानार्थार्णवसंक्षेप तपतक्षा दीपे ज्वरे सूर्य आतपे क्ली तु पुत्रयोः । तपस्तु नपि कृच्छ्रादौ धर्मसन्तापयोरपि ॥ ५१७ ॥ Nānārthārṇavasaṃkṣepa 2.5.517
- नानार्थार्णवसंक्षेप राकचारुप्रधानयोश्चापि रामा तु स्त्र्यन्तरे स्त्रियाम् । राकशब्दस्तु पुल्लिँङ्गो ज्ञेय आतपसूर्ययोः ॥ १०९९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1099
- नानार्थार्णवसंक्षेप रौद्रइति ङ्यन्तमथाप्यन्ये रोदसी इति मन्वते । सहोक्तौ भूदिवोरेव रौद्रं तु क्लीबमातपे ॥ ११२६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1126
- नानार्थार्णवसंक्षेप करभकलङ्कस्त्वपवादे च चिह्ने च कलहः पुनः । युद्धे द्वन्द्वे च करभः पुनः कीर्तित आतपे ॥ ६५ ॥ Nānārthārṇavasaṃkṣepa 3.2.65
- शब्दरत्नावली इन्धइन्धं स्यादातपे दीप्ते निर्मलेऽपि च वाच्यवत् । ऋद्धं सम्पन्नधान्ये स्यात्सुसमृद्धेऽभिधेयवत् । ऋद्धिः समृद्धै गौर्याञ्च वृद्धिनामौषधिभिदि ॥ Śabdaratnāvalī 7.19.4
- शब्दरत्नावली घर्मवस्त्रवेश्मामलक्येलावनीस्तम्बेषु च स्त्रियाम् । घर्मो ग्रीष्मातपोष्णेषु स्वेदाम्भसि भवेत्पुमान् ॥ Śabdaratnāvalī 7.25.9
- शब्दरत्नावली झलाकदम्बभूरुहे क्लीबं जाली पटलिकौषधौ । झला स्त्रियां दुहितरि स्यादूर्म्य्यातयोरपि ॥ Śabdaratnāvalī 7.28.15
- शब्दरत्नावली प्रकाशप्रकाशोऽतिप्रसिद्धे स्यात्प्रहासातपयोः स्फुटे । प्रदेशी देशभेदे स्यात्तर्जन्यङ्गुष्ठसम्मिते ॥ Śabdaratnāvalī 7.30.20
- शब्दरत्नाकर प्रतापप्रदरा बाणरुग्भङ्गाः प्रतापौ पौरुषातपौ । प्रत्ययः ख्यातिविश्वासशपथज्ञानहेतुषु ॥ २१२६ ॥ Śabdaratnākara 4.1.2126
- त्रिकाण्डशेष उष्णउन्मूलनेऽप्युद्धरणमुष्णं दक्षेऽपि नाऽऽतपे । साधने गीतनृत्यप्रभेदे कायस्थकर्मणि ॥ १२२ ॥ Trikāṇḍaśeṣa 3.3.122
- त्रिकाण्डशेष घर्मगुल्मः स्तम्बे घट्टभेदे घर्मः स्वेदातपोष्मसु । जिह्मः स्थात्कुटिले मन्दे तलिमं तल्पकुट्टिमें ॥ २९६ ॥ Trikāṇḍaśeṣa 3.3.296
- त्रिकाण्डशेष झलाझलाऽऽतपोर्मिर्दुहिता तलं मूलचपेटयोः । तालो गीतक्रियामाने हरिताले द्रुमान्तरे ॥ ३९४ ॥ Trikāṇḍaśeṣa 3.3.394
- वैजयन्ती प्रतापपदाजिर्युधि मार्गे च रक्षोवृक्षौ पलाशिनौ । प्रतिघौ रुट्प्रतीघातौ प्रतापौ पौरुषातपौ ॥ ५४ ॥ Vaijayantī 7.1.54
- वैजयन्ती घर्मनिदाघ ऊष्मणि ग्रीष्मे स्वेदे घर्मस्तु तेषु च । आतपे च दिने चाथ वरुणे यादसांपतिः ॥ ५७ ॥ Vaijayantī 8.1.57