कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वधिर

vadhiraवि · adj.

In 4 kośas: 4 synonym verses.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.609 · p. 68
अन्धो ह्यनेडमूकः स्यादेडो वधिर उच्यते ।जडः कडः स्मृतो मूकः कल्लमूकस्त्ववाक्श्रुतिः ॥ ६०९ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.114 · p. 33
बाहुकण्ठो दोर्गडुः स्यात्खर्वो ह्रस्वश्च वामनः ।विखर्वः खट्टनः खर्वशाखो वधिर एडकः ॥ ११४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.214 · p. 97
एडः स्याद्वधिरः कल्लः त्रितयं श्रवणापटौ ।कुब्जः न्युब्जस्तु गडुलो गडुरो गडुरित्यपि ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.13 · p. 202
केकरो वलिरोऽनेडमूकोऽन्धः काण एकदृक् ।एडस्तु वधिरः कण्व एडमूकस्त्ववाक्च्छ्रुतिः ॥ १३ ॥
अनुष्टुप्
genderविadj.