कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जड

jaḍaवि · adj.

In 21 kośas: 37 synonym verses, 7 as a nānārtha head word, 18 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.18 · p. 18
दानशीलः स वदान्यो वदन्योऽप्यथ बालिशः ॥ ३५१ ॥मूढो मन्दो यथाजातो बालो मातृमुखो जडः ।मूर्खोऽमेधो विवर्णाज्ञौ वैधेयो मातृशासितः ॥ ३५२ ॥देवानांप्रियजाल्मौ च दीर्घसूत्रश्चिरक्रियः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1385 · p. 53
शीते तुषारः शिशिरः सुशीमः शीतलो जडः ।हिमोऽथोष्णे तिग्मस्तीक्ष्णस्तीव्रश्चण्डः खरः पटुः ॥ १३८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)
genderविadj.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.91 · p. 4
मूके जडकडौ मूर्खे त्वनेडो नामवर्जितः ॥ ९१ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.19
शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः ।तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥ १९ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.38
जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.336 · p. 40
वैधेयो बालिशो बालो जडो जाल्मो यथोद्गतः ।मूढो मन्दो विवर्णश्च मूर्खः स्यान्मातृशासितः ॥ ३३६ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.387 · p. 45
उत्क उत्कण्ठितः प्रोक्तो विक्लवो विह्वलः स्मृतः ।अलसः शीतको मन्दो जडो जिह्मश्च मन्थरः ॥ ३८७ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.609 · p. 68
अन्धो ह्यनेडमूकः स्यादेडो वधिर उच्यते ।जडः कडः स्मृतो मूकः कल्लमूकस्त्ववाक्श्रुतिः ॥ ६०९ ॥
अनुष्टुप्
genderविadj.
बालप्रबोधिका Bālaprabodhikā · नत्कीर नवमोपदेशः Bālaprabodhikā 9.163 · p. 81
जलन्तु सलिलं नीरं क्षीरं वारि शम्बरम् ।शरं सारं जडं कुम्भमम्भश्चापश्च कथ्यते ॥ १६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
पारावारो विनिर्दिष्टः पारापारश्च सागरे ।जलं जडं स्यादुदकं दकमत्राप्युदीरितम् ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.120 · p. 33
अज्ञो जडो मातृमुखो यथाजातोऽपि बालिशः ।जाल्मो विपर्णो देवानां पर्यायेभ्यः प्रियार्थकः ॥ १२० ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.8 · p. 341
शीतं गुणे तद्वदर्थं सुषीमः शिशिरो जडः ।तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥ ८ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.14 · p. 345
इरा जडं जीवनीयं चलोदे संवरं कुशम् ।शिवं शवं शरं क्लीबे वा स्त्रियां स्यादुडूरुडुः ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.71 · p. 34
तुषारं च जडं क्लीबे गुणे तद्वति भेद्यवत् ।अस्ति यत्र[23a] हिमं तत्र हिमं हिम्यं भवेत्त्रिषु ॥ ७१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.16 · p. 2
मन्दो लिगुरमेधाश्च मुहिरो वठरो जडः ।बालो मातृमुखो मातृशासितो मुग्ध-हस्तकौ ॥ १६ ॥
अनुष्टुप्
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 166 · p. 80
मुग्धो मूढो जडो नेडो मूको मूर्खश्च कद्वदः ।स देवानां प्रियोऽप्राज्ञो मन्दः धीनामवर्जितः ॥ १६६ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.277 · p. 86
क्रियेन्द्रियं पाणिमुख्यं स्पर्शनादि मतीन्द्रियम् ।------------ [48] सुशीमः शिशिरो जडः ॥ २७७ ॥
metre not recognised
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.17 · p. 103
वदन्यो दानशीले स्याद्वदान्योऽपि च दृश्यते ।मूर्खो बालो जडोऽमेधो विवर्णो मातृशासितः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.120 · p. 17
हिमानी हिमराशौ स्यात्तद्गुणे सुष(षि?)मो जडः ।भं नक्षत्रं तारकं च तारका धिष्ण्यमुन्नतम् ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.586 · p. 101
नीचे विवर्णो जाल्मश्च प्राकृतः पामरो जडः ।पृथग्जनो निहीनश्चापशदः क्षुल्लकेतरौ ॥ ५८६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण समुद्राधिकारश्चतुर्थस्सर्गः Śabdacandrikā 4.4 · p. 40
जीवनं सर्वभद्रं च पाथः काण्डं कुशं विषम् ।भूसारं सारसाधारं सारं नीरं जलं जडम् ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.72 · p. 9
शोचिर्दीप्तिर्महो वर्चो रोचिर्भा रुग्रुचिर्वसुः ।शिशिरः शीतलः शीतस्तुषारश्च हिमो जडः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.117 · p. 31
मूर्खो मन्दो जडो मूढो बालोऽज्ञो जाल्मबालिशौ ।शठः कुण्ठश्च वठरो निर्बुद्धिश्च निरक्षरः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.515 · p. 65
कुचरोऽपि भवेन्नाम लोहजोऽस्फुटवाक् तथा ।काहलश्चाधमूकोऽवाक् जडो गडो जडस्तथा ॥ ५१५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.522 · p. 66
देवानांप्रियजाल्मौ वै जडोऽनेडश्च कथ्यते ।मन्दः क्रियासु कुष्ठः स्याद् दीर्घसूत्री चिरक्रियः ॥ ५२२ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.48 · p. 408
सूशीमः शिशिरश्चैव जडोऽपि कथ्यते पुनः ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.206 · p. 15
जड इत्येष पर्यायः शीतलस्य निगद्यते ।अथ ध्रुवो ग्रहाधार औत्तानपादिरित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.49 · p. 162
देशकः शासिता शास्ता त्रयं शासनकर्तरि ।अथ सर्वत्रकर्तव्यं सम्मूटेऽज्ञो जडो जलः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.11 · p. 189
लोहलोऽपि जड-कडौ, ज्ञायके विदुरस्थथा ।विन्दुरस्त्रिक-तुर्यवर्गमध्यौ कटुर-कद्वरौ ॥ ११ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.13 · p. 189
दानशीलेऽप्यमू, मूर्खे, बालिशो बाडिशो जडः ।जलो मुहेर-मुहिरावायोऽयः पूर्वशूलिकः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.93 · p. 225
सन्तं सारं दुमलं च द्रुमलं भुवनं वनम् ।जलं जडं च सलिरं सरिलं सलिरं तथा ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.181 · p. 24
हिमानी हिमसंघाते शिशिरः शीतलो जडः ।हिमः शीतस्तुषारश्च षडमी तद्वदर्थकाः ॥ १८१ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1100 · p. 136
अन्धोऽचक्षुरतीसारी यः स एवातिसारकी ।न्युब्जो भुग्नः कुब्जो गडुलः कुकरः कुणिर्जडः स्तब्धः ॥ ११०० ॥
अनुष्टुप्metre not read in every line
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव विशेष्यनिघ्नवर्गः Trikāṇḍaśeṣa 3.1.18 · p. 84
माशब्दिकः प्रतिषेद्धा जडमातृसुखौ समौ ।प्राणं पुराणं भिन्नं तु व्यवच्छिन्नं विशेषितम् ॥ १८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.72 · p. 71
जाहको गात्रसंकोची मण्डली नखरायुधः ।पशुस्तु मलुको मोकः कपः शुद्धजडश्चरिः ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.6 · p. 196
शीतले शीकरः शीतः सुषिकः सुषिमो जडः ।समीकः सोलिकः सोलः स्कन्दोलो मेकलस्तलः ॥ ६ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.14 · p. 202
अनेडमूकस्तु जडो जलो मूकः कलोऽप्यवाक् ।पंगुः श्रोणे खंजकोलौ खोडेऽथ कुकरे कुणिः ॥ १४ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास डपादः Dharaṇikośa 12.1.7 · p. 44
इडा चन्द्रकलाद्यं स्यागवि भूमौ च वाचि च ।जडो मूर्खे हिमग्रस्ते शूकशिम्बी जडा मता ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ डान्ताः Koṣakalpataru 6.12.69 · p. 188
जडोऽन्यवन्मूर्खहिमातुरेषुशूकस्य शिम्बी गदिता जडेति ।ग्रन्थौ तु पृष्ठस्य गडुश्च कुब्जेव्याडिस्तु हिंस्रेऽपि पशौ भुजंगे ॥ ६९ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.460 · p. 82
जटो जटावति त्रिस्तु जडोऽनालोच्यकारिणि ।शीतले स्तब्धनिर्बुद्ध्योः पङ्कगन्धिजले तु नप् ॥ ४६० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.461 · p. 82
पुंसि शीतगुणेऽथाहाजयस्तोये जलं नपि ।जले तु त्रिषु जप्रस्तु द्वयोः स्याद्विप्रभेकयोः ॥ ४६१ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास जकारादयः Paramānandīyanāmamālā 5.13.195 · p. 187
जडस्त्वज्ञे हिमग्रस्ते जनी वध्वां जगच्चरे ।जङ्गमेऽप्यथ जिष्णुः स्याज्जयशीले रवौ हरौ ॥ १९५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश डान्ताः Śabdaratnāvalī 7.13.15 · p. 205
जडो मूकहिमग्रस्तमूर्खेषु शिखिषु स्त्रियाम् ।ताडी पत्रद्रुमे ना तु ताडने मुष्टिशब्दयोः ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 6.4.6 · p. 228
चोद्यं चित्रे चोदनार्हे चारु चित्रवचस्यपि ।जडो जाल्मश्च निर्बुद्धौ स्तब्धेऽनालोच्यकारिणि ॥ ६ ॥
अनुष्टुप्

जड as a meaning in nānārtha verses