कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मूक

mūkaवि · adj.

In 15 kośas: 18 synonym verses, 4 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.13 · p. 18
लोहलोऽस्फुटवाङ्मूकोऽवागसौम्यस्वरोऽस्वरः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र द्वित्रिचतुष्पञ्चेन्द्रियाः Abhidhānacintāmaṇipariśiṣṭa 4.6.194 · p. 7
गृध्रे तु पुरुषव्याघ्रः कामायुः कूणितेक्षणः ॥ १९२ ॥सुदर्शनः शकुन्याजौ शुके तु प्रियदर्शनः ।श्रीमान्मेधातिथिर्वाग्गमी मत्स्ये तु जलपिप्पिकः ॥ १९३ ॥मूको जलाशयः शेवः सहस्रदंष्ट्रस्त्वेतनः ।जलवालो वदालोऽथ पाठीने मृदुपाठकः ॥ १९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.13
अवाचि मूकोऽथ मनोजवसः पितृसन्निभः ॥ १३ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.609 · p. 68
अन्धो ह्यनेडमूकः स्यादेडो वधिर उच्यते ।जडः कडः स्मृतो मूकः कल्लमूकस्त्ववाक्श्रुतिः ॥ ६०९ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.75 · p. 222
एडो मूकः कडोऽवाचि स्यादसौम्यस्वरेऽस्वरः ।रवणः शब्दनो नान्दीवादी नान्दीकरः समौ ॥ ७५ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.73 · p. 351
पृथुरोमा झषो मीन आत्माश्यनिमिषोऽण्डजः ।कण्टकी शम्बरो मूको वल्कवान् शकली द्वयोः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.43 · p. 213
वण्डश्च शिपिविष्टोऽथ मूको वाचा विवर्जितः ।सुप्रजःप्रमुखाः सर्वे विना पर्पं विशेष्यगाः ॥ ४३ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.13 · p. 2
वशंवदो वशोक्तिः स्याच्छंवदस्तु शुभब्रुवः ।प्रियंवदस्तु शक्लः स्यात्कुवादः कुचरः कुगीः ।रवणः शब्दनस्तुल्यौ मूको वाचा विवर्जितः ॥ १३ ॥
अनुष्टुप्
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 166 · p. 80
मुग्धो मूढो जडो नेडो मूको मूर्खश्च कद्वदः ।स देवानां प्रियोऽप्राज्ञो मन्दः धीनामवर्जितः ॥ १६६ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.15 · p. 103
लोहलोऽव्यक्तवाचि स्यान्मूकोऽवागस्वरः समः ।विदुरो वेदिता विन्दुर्वन्दारुः स्तुतिकर्तरि ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.515 · p. 65
कुचरोऽपि भवेन्नाम लोहजोऽस्फुटवाक् तथा ।काहलश्चाधमूकोऽवाक् जडो गडो जडस्तथा ॥ ५१५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2439 · p. 394
मत्स्यो मीनो मूको मत्सः शम्बरः शंवरस्तिमिः ।आत्माशी शकली शल्की विसारः स्वकुलक्षयः ॥ २४३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मू (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.16 · p. 159
मनोजवः पितृनिभः स्यान्मूकोऽवाचि कथ्यते ।कूकुदोऽलङ्कृतां कन्यां सत्कृत्य यो ददाति सः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्य (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.745 · p. 95
खलीनोऽस्त्री समानौ तु वेसराश्वतरौ समौ ।वडवायां समुत्पन्नौ मूकः कुण्डश्च वेसरात् ॥ ७४५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1107 · p. 137
मूकस्तु यमनो वाचि सिरालस्तु सिरान्वितः ।स्याच्छ्मश्रुलः श्मश्रुवति ह्रीणो ह्रीतश्च लज्जितः ॥ ११०७ ॥
अनुष्टुप्
genderविadj.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वारिवर्गः Trikāṇḍaśeṣa 1.9.8 · p. 26
पलवः पञ्जराखेटः कण्टकी तु जलेशयः ।आत्माशी शम्बरो मूकोऽनिमिषो वल्कवानपि ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.108 · p. 113
अह्नाश्वगम्यमाश्वीनं त्रिष्वेतेऽश्वतरः पुनः ।स्थाद्वेसरो वेगसरो मूकरुण्डौ तु वेसरात् ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.14 · p. 202
अनेडमूकस्तु जडो जलो मूकः कलोऽप्यवाक् ।पंगुः श्रोणे खंजकोलौ खोडेऽथ कुकरे कुणिः ॥ १४ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास कपादः Dharaṇikośa 1.1.4 · p. 2
मूकोऽप्यवाङ्मतो दैत्य एके मुख्यान्यकेवलाः ।लङ्का रक्षःपुरी शाखा शङ्का त्रासवितर्कयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.15 · p. 137
न स्त्री तु कन्दा[248a]दिदशप्रकारेधाको वृषे पुंसि तथाश्रये च ।मूकस्तु दीनावचसोस्त्रिलिङ्ग्यांभूकं तु रन्ध्रे समये तु पुंसि ।बको बकोटे बकपुष्पके चधनाधिनाथे च निशाचरे च ।शूकोऽपि धान्याद्यतितीक्ष्णकाग्रेशुद्धे कृपायामपि न स्त्रियां स्यात् ॥ १५ ॥
इन्द्रवज्राtwo metres in one verse
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1017 · p. 130
मूकस्तु त्रिष्ववाचि स्यात् क्लीबमाविलवारिणि ।अश्वायां वेसराज्जाते चतुष्पादन्तरे द्वयोः ॥ १०१७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1018 · p. 130
दैत्यभेदे तु पुल्लिँङ्गो यो वराहत्वमागतः ।किरातार्जुनयोर्मध्ये स्पर्धाहेतुतया तयोः ॥ १०१८ ॥
अनुष्टुप्
doubtful

मूक as a meaning in nānārtha verses