कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वलजा

valajāस्त्री · fem.

In 6 kośas: 3 synonym verses, 5 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.25 · p. 22
सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका ।सरस्वती च वलजा रोचना हारिणीति च ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 202
वलजा चाथ सा चण्डी कोपना भामिनी च सा ।भाविनी मूढभावा सा मदिराक्षी मदोद्धता ।मत्ता छेका वाणिनीयं च धीरा सा गूढमानयुक् ।अधीरा व्यक्तकोपा स्याद्धीराधीरा[74a] तु मिश्रिता ॥ ९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.65 · p. 128
पीनकोशी शमी शिम्बा तीक्ष्णाग्रे शूकमस्त्रियाम् ।धान्यराशिस्तु वलजा वरण्डस्तृणसञ्चयः ॥ ६५ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.31
वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना ॥ ३१ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास जार्धश्लोकः Dharaṇikośa 7.2.13 · p. 34
वलजं गोपुरे क्षेत्रे सस्ये वलजमिष्यते ।वलजा च मही प्रोक्ता वलजा विधुदर्शना ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1585 · p. 185
त्रिस्तु वर्णयितर्येष वलजा तु स्त्रियामियम् ।अपूतधान्यराशौ स्याद् रूपवत्यां च योषिति ॥ १५८५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1586 · p. 185
अना तु पुरगेहादेर्द्वारे क्षेत्रेऽप्यथापरः ।सस्येऽप्याहाथ रभसः क्लीबं युद्धेऽप्यभाषत ॥ १५८६ ॥
अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.78 · p. 263
वयः स्थामलकीपथ्याब्राह्मीषु तरुणे त्रिषु ।वलजा वरनार्यां च क्षेत्रे द्वारि च सा न ना ॥ ७८ ॥
अनुष्टुप्