कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सस्य

sasyaक्ली · neut.

In 17 kośas: 23 synonym verses, 3 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.26 · p. 44
फलं तु सस्यं तच्छुष्कं वानमामं शलाटु च ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.88 · p. 45
धान्यं तु सस्यं सीत्यं च व्रीहिः स्तम्बकरिश्च तत् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.27
वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.574 · p. 65
क्षेत्राजीवः कृषिकः कृषीवलः कर्षकः कुटुम्बी च ।सीत्यं सस्यं प्रोक्तं वप्रं क्षेत्रं च केदारम् ॥ ५७४ ॥
आर्या
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.204 · p. 84
गुच्छो गुलिच्छस्तवको मञ्जामञ्जनिवल्लरी ।प्रसवोऽपि फलं सस्यं फलं वृन्तन्तु बन्धनम् ॥ २०४ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.258 · p. 89
व्रीहिस्तु रेणुको बीजो धान्यं सस्यं तु वैटिकः ।व्रीहिः स्तम्बकरिः प्रोक्तः शालेयाः श्वेततण्डुलाः ॥ २५८ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 50 · p. 5
पुष्पे मणिचकं सूनं फले सस्यं तु पिप्पलम् ।धान्ये स्यादक्षतं सित्यं व्रीहिर्वरिरितीर्यते ॥ ५० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.40 · p. 138
मकरन्दो मरन्दश्च तद्रसो मधुरस्त्रियाम् ।आरण्याः स्युः सुमनसो या अरण्येसमुद्भवाः ॥फलं परीरं किंपाकं शस्यं सस्यमथ त्रिषु ।व्युष्टं पर्युषितं शुष्कं त्ववानं वानमित्यपि ॥गौणं धारु(?)स्तु पुंस्त्वे स्यादथापक्वं शलाटु तत् ॥ ४० ॥
अनुष्टुप्
genderक्लीneut.
एते शब्दाः पुंसि स्युर्भवेयुरित्यर्थः । शीकरोऽम्बुकणः । तुषारो हिमसन्ततिः । तुषी धान्यबुषः कडङ्गरश्च । बुद्बुदो जलकङ्करः । फेनो जलस्य । समुद्रस्य ओसो अवश्यायः । तण्डुलो धान्यविशेषः । अपूपः पिष्टकस्य । एते शब्दाः स्त्रियामुदिताः कथिताः । इयमालिः पङ्क्तिः । मुक्ता रत्नम् । आजिर्युद्धम् । दर्विर्विभक्तसाधनी । सिकता वालुका ।अजिनाजिरशैवालनलमृणालतुहिनोडुपाज्यसस्यानि । द्वारास्पदकाष्ठानि च नपुंसकान्येव पटलं च ॥ ४७ ॥
metre not recognised
genderक्लीneut.
एते शब्दा नपुंसके भवन्ति । इदमजिनं मृगत्वक् । इदमजिरमङ्गणम् । शैवालं जलसम्भवम् । नलं सुवर्णभाजनम् । मृणालं पद्ममूलम् । तुहिनं तुषारः । उडुपं प्लवः । आज्यं घृतम् । सस्यं व्रीहिः । द्वारं[र] गृहस्य । आस्पदं राज्ञाम् । काष्ठमिन्धनं पटलगृहस्य तिमिरं वा । एवकारोऽवधारणे ।त्रिष्वप्यक्षेष्विन्द्रियसञ्ज्ञका एतान्नपुंसके विद्धि ।शेषाः पुंसि प्रोक्ताः श्रीपिष्टा[ष्ठा]द्याश्च निर्यासाः ॥ ४८ ॥
metre not recognised
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र धान्यकाण्डः Nighaṇṭuśeṣa 6.386 · p. 208
अथ धान्ये सस्यं सीत्यं व्रीहिस्तम्बकरी अपि ।आशौ स्यात्पाटलो व्रीहिर्गर्भपाकिनि षष्टिकः ॥ ३८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.207 · p. 34
व्रीहिस्तु रेणुको बीजो धान्यं सस्यं [ तु ] रीरिका ।व्रीहयस्तम्बकरयः शालेयाः श्वेततण्डुलाः ॥ २०७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.41 · p. 56
मुद्रितं मीलितं सङ्कुचितं निद्राणमिष्यते ।फलं सस्यं तत्र शुष्के वानशब्दो विभाव्यते ॥ ४१ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.86 · p. 62
शेपालं तु शेवालं शैवालं जलनीलिका ।सस्यसीत्ये समे धान्यं व्रीहिस्तम्बकरी समे ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 शे (syllables merged)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1985 · p. 327
फलं सस्यं तथा शस्यं वानं शुष्कं फलं भवेत् ।शलाटु कथ्यतेऽपक्वं फलं तद्ग्रन्थिरुच्यते ॥ १९८५ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2106 · p. 348
धान्यं सस्यं तथा सीत्यं व्रीहिः स्तम्बकरिः पुनः ॥ २१०६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.28 · p. 59
अथ शस्यञ्च सस्यञ्च वृक्षादीनां फले द्वयम् ।तथा वोंट इति ख्याते वृन्तं प्रसवबन्धनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.39 · p. 140
ताम्रवृन्तः कुलत्थश्च सस्यमस्त्री तिलः पुमान् ।तिलपिञ्जस्तिलपेजो द्वावेतौ निष्फले तिले ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.139 · p. 229
शस्यं तालव्य-दन्त्यादि वानावाने तु शुष्कके ।ग्रन्थौ पकः षण्ढं सन्तं पसश्च बीजकोशिका ॥ १३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderक्लीneut.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.452 · p. 60
पुंसि च्छदश्छदनपत्रपलाशपर्ण-बर्हं दलं रजसि पुष्पभवे परागः ।निर्यासलग्नखपुरास्तु समाः प्रसून-बन्धस्तु वृन्तमथ सस्यफले समाने ॥ ४५२ ॥
वसन्ततिलका
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1427 · p. 173
आढकी तुवरी सैव सौराष्ट्री करवीरिका ।सर्वं व्रीह्यादिकं सम्यं कणिशं सस्यमञ्जरी ॥ १४२७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.20 · p. 46
गुच्छो गुलुच्छः स्तबको मञ्ज्यां मंजरिवल्लरी ।प्रसवः पिप्पलं सस्यं फलं वृन्तं तु बन्धनम् ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.31 · p. 125
न स्त्री मेथिः खले पाली खलधानं पुनः खलः ।व्रीहिर्वरेणुको वीज्यो धान्यं सस्यं लवेटिका ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास यपादः Dharaṇikośa 25.1.7 · p. 148
इभ्य आढ्ये हस्तिनीभ्या सस्यं वृक्षफले गुणे ।अर्थ्यो विपश्चिते न्याये अन्यावसदृशेतरौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.38 · p. 292
गोप्यस्तु दासीतनयेऽन्यवत्तुरक्षोचिते, सव्यमुशन्ति वामे ।तथा प्रतीपेऽथ फले गुणे चसस्यं च रूप्यं रजतेऽन्त्यलिङ्गे ॥ ३८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.68 · p. 39
शूरस्य भावक्रिययोरथ सस्यमिति ध्वनिः ।वृक्षादीनां फले धान्ये धान्यस्तम्बे गुणे त्वमुम् ॥ ६८ ॥
अनुष्टुप्

सस्य as a meaning in nānārtha verses