कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वात्सल्य

vātsalyaपुं · masc.

In 4 kośas: 4 synonym verses.

कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.90 · p. 427
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।रौद्रबीभत्सवात्सल्यशान्ता नाट्ये रसा दश ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.120 · p. 88
शृङ्गार-हास्य-करुणा भयानको रौद्र-वीर-बीभत्साः ।शान्ता[57a]द्भुताविति रसा दशमो वात्सल्यनामापि ॥ १२० ॥
आर्या
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.460 · p. 32
वात्सल्यसहिताः कैश्चिदुक्ता दशरसा अपि ।नामान्येतानि शृङ्गारे कैशिकः शुचिरुज्ज्वलः ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नाट्यवर्गः Trikāṇḍaśeṣa 1.6.3 · p. 22
वात्सल्यशान्तौ तु रसौ शृङ्गारः कौशिकः स्मृतः ।सम्भोगो विप्रयोगश्च तद्भेदौ वर्णिका मसी ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.