कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शृङ्गार

śṛṅgāraपुं · masc.

In 19 kośas: 36 synonym verses, 6 as a nānārtha head word, 18 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.229 · p. 14
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.223 · p. 16
शृङ्गारहास्यकरुणारौद्रवीरभयानकाः ॥ २९४ ॥बीभत्साद्भुतशान्ताश्च रसा भावाः पुनस्त्रिधा ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर तिर्यक्काण्डः Abhidhānacintāmaśiloñcha 4.93 · p. 4
शृङ्गारमपि सिन्दूरे कुरुविन्दे तु हिङ्गुलुः ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.17
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.92 · p. 11
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.126 · p. 77
नृत्तं गीतं वाद्यमिति नाट्यत्तौर्यत्रिकं त्रिकम् ।शृङ्गारवीरबीभत्सहास्याद्भुतभयानकाः ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर एकादशोपदेशः Bālaprabodhikā 11.193 · p. 83
सुवर्णं कनकं सर्वजीवनं लोकसाधनम् ।शृङ्गारं लोकसामान्यं राजार्हं लोभमूलकम् ॥ १९३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.406 · p. 65
अगुरुर्वसुकः केश्यः शृङ्गारो विश्वरूपकः ।धूपार्हो वल्लरोऽपि स्यान्मिश्रवर्णोऽथ पीतकः ॥ ४०६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.565 · p. 195
सौभाग्यमपि शृङ्गारमथ हिङ्गुलमस्त्रियाम् ।सुरङ्गं कर्बुरं रक्तं हिङ्गुलं चूर्णपारदम् ॥ ५६५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.90 · p. 427
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।रौद्रबीभत्सवात्सल्यशान्ता नाट्ये रसा दश ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.91 · p. 427
एते ज्ञेया अथ पुनः शृङ्गारोऽस्त्र्युज्ज्वलः शुचिः ।कैशिकः श्यामपर्यायः स च ज्ञेयश्चतुर्विधः ॥ ९१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.152 · p. 478
स्यात्पद्मरागायुगरुद्योगशृङ्गारयोस्ततः ।टङ्गस्य च निदाघस्य कूर्चक्रकचयोरनु ॥ १५२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.176 · p. 480
संसारतीरनीहारसूत्राणां तुवरस्य च ।सहस्रवक्त्रनेत्राणां पत्रशृङ्गारयोस्तथा ॥ १७६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.120 · p. 88
शृङ्गार-हास्य-करुणा भयानको रौद्र-वीर-बीभत्साः ।शान्ता[57a]द्भुताविति रसा दशमो वात्सल्यनामापि ॥ १२० ॥
आर्या
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.121 · p. 88
शृङ्गारोऽस्त्री रसज्यायाञ्शुचिरुज्ज्वल इत्यपि ।समौ संयोग-संभोगौ यूनोः पूर्णे मनोरथे ॥ १२१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.60 · p. 114
genderपुंक्लीm. n.
एते शब्दाः नपुंसके भवन्ति । इदं भयं त्रासः । बीजमङ्कुरोत्पत्तिकारणम् । सिध्मं कुष्ठविशेषः । पदं स्थानम् । बर्हं मयूरपिच्छम् । शुक्रं रेतः । तक्रं[क्र] मथितम् । सुखं भोगः । दुःखं पीडा । शिखरं शृङ्गम् । असृक् रक्तम् । सदैवेति वचनाद्भयादीनां व्यभिचारः । अयं भयः ।पाषाणोपलशृङ्गारप्रस्थभृङ्गारमस्तकस्तबकाः ।रूपं मुक्त्वा शब्दरसस्पर्शगन्धादयश्चोक्ताः सदा पुंसि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
एते शब्दाः सदा पुंसि भवन्ति । यथा पाषाणः प्रस्तरः । उपलः शिला पाषाण एव । शृङ्गारो विदग्धता । प्रस्थः परिमाणम् । भृङ्गारः सुवर्णमयः कलशः । मस्तकः शिरः । स्तबकः पुष्पोत्करः । शब्दो ध्वनिः । रसो माधुर्यादिः । स्पर्शो मृदुकर्कशादिः । गन्धो नासिकाग्राह्यः कुसुमादेः । रूपं मुक्त्वा रूपं विहाय ।रूपं नपुंसके भवति । इदं रूपं चक्षुर्ग्राह्यम् ।शेखरयूपपुरोडाशकूपसूपलवशष्पाः ।धर्ममयवासोदशादाराः पुंसि बहुत्वं चैषाम् ॥ ५५ ॥
metre not recognised
genderपुंmasc.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.8 · p. 2
आयुधं च शतारं स्याद्वनं शृङ्गारनामकम् ।पत्नी त्वस्य च पौलोमी देवेन्द्री दिविजेश्वरा ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.36 · p. 5
तत्कौस्तुभे सुधासारः सुरागः सुन्दरः स्मृतः ।श्रीवत्से तस्य शृङ्गारः सेव्या तु वनमालिका ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.13 · p. 7
ब्रह्मसूषेशऋष्याङ्का शृङ्गारात्ममनोमुखा ।योनिरस्याहितौ प्रोक्तौ शम्बरः शूर्पकोऽपि च ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.152 · p. 230
समयकविये पारि[10]हार्यः कम्बलवाह्यकः ।संसारसीरशृङ्गारनेत्रवक्त्राणि गह्वरम् ॥ १५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
genderपुंक्लीm. n.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संगीतवर्गः Śāradīyākhyanāmamālā 2.3.111 · p. 30
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।बीभत्साद्भुतशान्ताश्चेत्येते नव रसाः स्मृताः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.431 · p. 54
अथ शृङ्गारहास्यौ च करुणः रौद्र वीरकौ ॥ ४३१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1836 · p. 299
सिन्दूरं चीनपिष्टं च नागरक्तं च नागजम् ।शृङ्गारभूषणं चैव शृङ्गारमपि मन्यते ॥ १८३६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.458 · p. 32
शृङ्गारवीरबीभत्साः रौद्रहास्यभयानकाः ।अद्भुतः करुणः शान्तो नाट्ये नवरसा अमी ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.81 · p. 176
स्त्रीपुंसयोर्यदन्योन्यं सम्भोगं प्रति कौतुकम् ।स शृङ्गार इति ख्यातः क्रीडारत्यादिकारकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.84 · p. 225
मनोगुप्तायां नेपाली नैपाली च मनः शिला ।शिला सिन्दूरे शृङ्गारे भवेच्छृङ्गारभूषणम् ॥ ८४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable); pāda 3, syllable 5 रे (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.710 · p. 91
शृङ्गारोऽलंक्रिया तोत्रं वैणुकं कदली ध्वजः ।आलानं बन्धनस्तम्भे कीलशङ्कुध्रुवाः समाः ॥ ७१० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.898 · p. 112
आलूर्गलन्तिका तुल्ये शृङ्गारः कनकालुका ।पारी तु स्वल्पकलशी कलशे(शी?) कर्परः पुमान् ॥ ८९८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.954 · p. 119
हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखी प्रति ।शृङ्गारवीरकरुणा हास्यरौद्रभयानकाः ॥ ९५४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.964 · p. 121
सर्वस्वभूतः पञ्चेषोः शृङ्गारः शुचिरुज्वलः ।स्निग्धं निष्पन्दमन्दस्तिमितविहसितन्यञ्चिताकुञ्चितानिस्मेरानन्दिप्रसन्नस्थिरमसृणमहीत्यश्रुविष्फारितानि ।प्रेङ्खोलोल्लासिलोलप्रणयिविलुलितप्रेमगर्भत्रिभङ्गि-व्यासङ्गिस्फीतकान्तीन्यलसमदनकह्लादिरूक्षाञ्चितानि ॥ ९६४ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नाट्यवर्गः Trikāṇḍaśeṣa 1.6.3 · p. 22
वात्सल्यशान्तौ तु रसौ शृङ्गारः कौशिकः स्मृतः ।सम्भोगो विप्रयोगश्च तद्भेदौ वर्णिका मसी ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.86 · p. 111
पश्चाच्चरणशंकौ तु पड्बीशो घुटिकोऽपि च ।कदलिः करिणां केतुः शृंगारो गजमण्डनः ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.75 · p. 142
शृंगारहास्यबीभत्सवीराद्भुतभयानकाः ।रौद्रश्च करुणश्चाष्टौ रसाः शान्तोऽपि च क्वचित् ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.169 · p. 172
कामध्वजः कामोत्सवः शृङ्गारः कामविक्रिया ।परिरंभः परिष्वङ्ग आश्लेष उपगूहनम् ॥ १६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मो (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.53 · p. 325
अङ्गारस्तु महीसुते नरि न तु स्यादुल्मुके स स्त्रियांशृङ्गारः सुरतेऽस्त्रियां रसभिदि स्याद्धस्तिनां मण्डने ।क्लीबं नागजचूर्णदेवकुसुमे मार्जार ओतौ मतःखट्वाङ्गान्त[र]केऽथ विस्तृतिगतो विस्तार उक्तोऽपि च ॥ ५३ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1850 · p. 208
कटिसूत्रे भवेत् पुसां पादबन्धनवस्तुनि ।अपि स्याद्दन्तिनां ना तु शृङ्गारः स्याद्रसान्तरे ॥ १८५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पु (wrong syllable)
meaningsरस
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1851 · p. 208
नवानां नाट्यविख्यातरसानामुज्ज्वलाह्वये ।गजमण्डनभेदे च क्लीबं तु रभसोऽपठीत् ॥ १८५१ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1852 · p. 208
लम्पटे चापि सिन्दूरचूर्णे चाथ नपुंसकम् ।शृङ्गाटं यन्त्रभेदे च योधानां स्याच्चतुष्पथे ॥ १८५२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.107 · p. 274
शुषिरं मूषिके च्छिद्रवंश्यादिवाद्यभेदयोः ।शुविराप्योषधीभेदे भवेद्रन्ध्रान्विते त्रिषु ॥शृङ्गारः सुरते नाट्ये रसे ना गजभूषणे ।क्लीबं चूर्णे च सिन्दुरे लवङ्गेऽपि च कुत्रचित् ॥सम्बरो दैत्यभिच्छैलमृगभिन्मीनभित्सु च ।बुद्धभेदे पुमान् क्लीबं जले बौद्धव्रतेऽपि च ॥सङ्करोऽग्निचटत्कारे समार्जन्यवपुञ्जिते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 7 न्दु (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.377 · p. 223
गजभूषा च शृङ्गारः शुषिरं गर्तवाद्ययोः ।कुटजे वासवे शक्रो वरीशच्योः शतावरी ॥ ३७७ ॥
अनुष्टुप्

शृङ्गार as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् रसशृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः । Amarakośa 3.3.442
  • हलायुधकोशः (अभिधानरत्नमाला) रसशृङ्गारादिषु नवसु च लवणादिषु षट्सु पारदे रागे । निर्यासवीर्यगुणधातुविषघृतादौ रसः प्रोक्तः ॥ ८६१ ॥ Abhidhānaratnamālā (Halāyudha) 5.861
  • धरणिकोश शुचिशुचिरग्नौ सिते ग्रीष्मे शुद्धेऽनुपहतेऽपि च । उपधाशुद्धसचिवे शृङ्गाराषाढयोरपि ॥ Dharaṇikośa 5.3.1
  • धरणिकोश उज्ज्वलकोमलं मृदुले तोये निस्तलं वर्तुले चले । उज्ज्वलौ दीप्तशृङ्गारौ तमालौ खड्गपादपौ ॥ Dharaṇikośa 27.1.7
  • धरणिकोश पल्लवपल्लवः स्यात्किसलये षिङ्गाशृङ्गरयोरपि । सैन्धवो लवणेऽप्यश्वे सैन्धवः सिन्धुदेशजे ॥ Dharaṇikośa 28.2.13
  • धरणिकोश रसरसः शृङ्गारादौ द्रवगरलरागेष्वपि रसो रसस्तिक्तादौ च…तनुधात्वोरपि रसः । रसो वीर्ये सूते चपलजलस्वादेष्वपि रसा [106] रसा पाठाशल्लक्यवनिरपि धीरैर्निगदिता ॥ Dharaṇikośa 31.3.2
  • कोषकल्पतरु शुचिउरुबूके चञ्चुर्ना पक्ष्यङ्गे स्त्री शुचिस्तु रागे स्यात् । नाषाढे शृङ्गारे मन्त्रिणि शुद्धेऽनले ग्रीष्मे ॥ ४ ॥ Koṣakalpataru 6.5.4
  • कोषकल्पतरु उज्ज्वलशृङ्गारे नरि विशदे त्रिषूज्ज्वलः स्या- दुद्दीप्ते भवति विकासिनि स्मृतश्च । स्यात्कुञ्जे मिथुनविवर्जितं परस्मि- न्किर्मीरे जलहरिणे तु मञ्जुलो ना ॥ २३ ॥ Koṣakalpataru 6.28.23
  • कोषकल्पतरु पल्लवशृङ्गारलाक्षारसविस्तरेषु नवच्छदे स्याद्विटपे बले च । पलायने विद्रव एष बुद्धौ स्यात्पुंगवो ना वृषभेऽन्यवत्तु ॥ १७ ॥ Koṣakalpataru 6.29.17
  • कोषकल्पतरु रसतिक्तादिके बोलकपारदे च द्रवेषु शृङ्गारमुखेषु वीर्ये । स्त्री सल्लकीकङ्गुमहीवृकीषु जिह्वासु रास्नास्वपि कीर्तितोऽयम् ॥ Koṣakalpataru 6.31.3
  • कोषकल्पतरु रासेरसषष्ठीजागरगोष्ठ्यां शृङ्गारे स्यात्परीहासे । श्वःश्रेयसं तु भद्रे परमानन्दे च शर्मणि च ॥ १९ ॥ Koṣakalpataru 6.31.19
  • परमानन्दीयनाममाला पल्लवपल्लवो नवपत्रे स्याद्धूर्तशृङ्गारयोरपि । पुलकोऽथाश्रुसंताने रोमाञ्चे कृमिभिद्यपि ॥ ३०९ ॥ Paramānandīyanāmamālā 5.19.309
  • परमानन्दीयनाममाला शुचिशङ्खोऽसुरे निधौ कम्बौ शुचिर्ग्रीष्मेऽनले सिते । शृङ्गारे मासभेदे च शोणो रक्ते हये नदे ॥ ३५४ ॥ Paramānandīyanāmamālā 5.25.354
  • शब्दरत्नावली शुचिशुचिः ग्रीष्मसिताषाटज्यैष्ठशृङ्गारवह्निषु । शुद्धमन्त्रिणि शुद्धे वा तथानुपहते त्रिषु ॥ Śabdaratnāvalī 7.6.10
  • शब्दरत्नावली भूतिभूतिः स्यात्कुम्भिशृङ्गारभस्मसम्पत्त्रिषु स्त्रियाम् । अथ भूतं पृथिव्यादौ पिशाचादिषु जन्तुषु ॥ Śabdaratnāvalī 7.16.34
  • शब्दरत्नावली उज्ज्वलउपला शर्करायां स्त्री पुंसि पाषाणरत्नयोः । उज्ज्वलः पुंसि शृङ्गारे दीप्ते विकसिते त्रिषु ॥ Śabdaratnāvalī 7.28.44
  • शब्दरत्नावली पल्लवदीदिविः पुंसि गीर्वाणगुरौ भक्ते समुच्छिते । निष्पावः सूर्पपवने राजमाषे कडङ्गरे ॥ निह्नवः स्यादविश्वासे तथा गुप्तावलापयोः । पल्लवो विटपे षिङ्गे विस्तारे वलयेऽपि च ॥ शृङ्गोरेऽलक्तरागे च चापलेऽपि च न स्त्रियाम् । प्रभवो जन्महेतौ स्यात्स्थले चाद्योपलब्धये ॥ प्रसेवः स्यूतवीणाङ्गे प्रभावः शक्तितेजसोः ॥ Śabdaratnāvalī 7.29.30
  • शब्दरत्नावली रसरासे रसस्तु शृङ्गारे गोष्ठामुत्सवरासयोः । राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः ॥ Śabdaratnāvalī 7.32.52