All kośas › Trikāṇḍaśeṣa
त्रिकाण्डशेष Trikāṇḍaśeṣa
1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)
प्रथमः काण्डः · नाट्यवर्गः
इति शब्दादिवर्गः ॥ ६ ॥
सर्ववेशी लयारम्भः स्यात्तालावचरो नटः ।लयपुत्री नटी नर्तूः खड्गधारादिनर्त्तके ॥ १ ॥
1.6.1 · p. 21
अनुष्टुप्
प्लवकः केलकश्चाऽथ भण्डश्चाटुपटुः समौ ।गायनो गाथकः स्त्रीणां हल्लीषं सहनर्तनम् ॥ २ ॥
1.6.2 · p. 22
अनुष्टुप्
वात्सल्यशान्तौ तु रसौ शृङ्गारः कौशिकः स्मृतः ।सम्भोगो विप्रयोगश्च तद्भेदौ वर्णिका मसी ॥ ३ ॥
1.6.3 · p. 22
अनुष्टुप्
मसिर्ना ध्यामलं तु स्याद्धयामोऽवज्ञा तु पांसनम् ।डमरुस्तु चमत्कारः प्रौढिस्तु कियदेतिका ॥ ४ ॥
1.6.4 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्वेदः प्रश्रवणं सिप्रो द्वयोर्व्रीडो नटार्थिका ।भामः क्रोधे निःसमस्तु शोके वीर्यं शुटीरता ॥ ५ ॥
1.6.5 · p. 22
अनुष्टुप्
छले मिषं च वैदग्धी भङ्गिश्चेभनिमीलिका ।उत्कण्ठा रुहरुहिका हव्यासस्त्वतिचिन्तिया ॥ ६ ॥
1.6.6 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रु (wrong syllable)
स्याच्चिन्ता चिन्तयाऽथोऽद्वाहनं रणरणं च तत् ।सोत्कण्ठा स्मृतिराध्यानं हेवाकोऽध्यवसायिता ॥ ७ ॥
1.6.7 · p. 22
अनुष्टुप्
परिहासः केलिमुखः केलिर्देवननर्मणी ।आटोपारोपटङ्कारा भवेदारभटी स्त्रियाम् ॥ ८ ॥
1.6.8 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
रोमोद्गमस्तु पुलकस्त्वपुष्पं च त्वगंकुरः ।स्वदोषगूहनं भ्रक्षो रागसंगौ तु गृध्रता ॥ ९ ॥
1.6.9 · p. 23
अनुष्टुप्
कामचारः स यच्चिते पापमाधाय शंसनम् ।कौकृत्यं विप्रतीसारो विबाधा तु विहेठनम् ॥ १० ॥
1.6.10 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 च्चि (wrong syllable)
दुःखलोको भवश्चैव संसारः कष्टचारकः ।निर्वाणमन्तको मोक्षः शीतिभावः शमोऽमृतम् ॥ ११ ॥
1.6.11 · p. 23
अनुष्टुप्