हास्य
hāsyaक्ली · neut.In 17 kośas: 27 synonym verses, 5 as a meaning of another word.
शृङ्गारहास्यकरुणारौद्रवीरभयानकाः ॥ २९४ ॥बीभत्साद्भुतशान्ताश्च रसा भावाः पुनस्त्रिधा ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
स्थायिसात्त्विकसंचारिप्रभेदैः स्याद्रतिः पुनः ॥ २९५ ॥रागोऽनुरागोऽनुरतिर्हासस्तु हसनं हसः ।घर्घरो हासिका हास्यं तत्रादृष्टरदे स्मितम् ॥ २९६ ॥वक्रोष्ठिकाथ हसितं किंचिद्दृष्टरदाङ्कुरे ।
अनुष्टुप्
genderक्लीneut.
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
genderक्लीneut.
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
नृत्तं गीतं वाद्यमिति नाट्यत्तौर्यत्रिकं त्रिकम् ।शृङ्गारवीरबीभत्सहास्याद्भुतभयानकाः ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
बीभत्समाने बीभत्सो विस्मये त्वद्भुतो रसः ।भयानको रसो भीते हास्यो हसितरि स्थितः ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
परिहासः परीहासो हासो हास्यं हसोऽपि च ।कौतुकं कुतुकं तुल्ये कौतूहलकुतूहले ॥ २६४ ॥
अनुष्टुप्
genderक्लीneut.
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।रौद्रबीभत्सवात्सल्यशान्ता नाट्ये रसा दश ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
हास्यं षणथ तद्भेदास्तत्रादृष्टरदे स्मितम् ।चक्रौष्ठिका तु ना हासः किञ्चिद्दृष्टरदाङ्कुरे ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
शृङ्गार-हास्य-करुणा भयानको रौद्र-वीर-बीभत्साः ।शान्ता[57a]द्भुताविति रसा दशमो वात्सल्यनामापि ॥ १२० ॥
आर्या
genderपुंmasc.
विप्रलम्भो विप्रयोगो वियोगो विरहस्तथा ।हासो हसो हासिका स्त्री हसनं हास्यघर्घरे ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
मा कारि शब्द इति यः प्राह माशब्दिकोऽपि सः ।पार्याप्तिकस्तु पर्याप्तिवादी प्राभूतिकस्तथा ॥नग्नो विवस्त्रो दिग्वासा हसनीयस्तु हास्यवत् ।स्यान्नासिकंधमो नासां धमन्स्यान्नासिकंधयः ॥नासां धयन्नेवमेव ज्ञेया नाडिंधमादयः ।अभ्रंलिहिस्त्वभ्रलेही भवेदभ्रंकषः पुनः ॥ ७४ ॥
अनुष्टुप्
genderविadj.
हासस्तु घर्घरो हास्यं हासिका हसनं हसः ।अदृष्टरदहास्यं तु स्मितं वक्रोष्ठिका पुनः ॥ २१५ ॥
अनुष्टुप्
genderक्लीneut.
लज्जा व्रीडा त्रपा ह्रीश्च मन्दाक्षं स्यादपत्रपा ।हासस्तु हासिका हास्यं हसनं हसितं स्मितम् ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।बीभत्साद्भुतशान्ताश्चेत्येते नव रसाः स्मृताः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
अथ शृङ्गारहास्यौ च करुणः रौद्र वीरकौ ॥ ४३१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
हसो हासश्च हास्यञ्च हासिका घर्घरस्तथा ।तत्रादृष्टरदे वक्रोष्ठिका स्मितं च कथ्यते ॥ ४३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्मि (wrong syllable)
genderक्लीneut.
शृङ्गारवीरबीभत्साः रौद्रहास्यभयानकाः ।अद्भुतः करुणः शान्तो नाट्ये नवरसा अमी ॥
अनुष्टुप्
genderपुंmasc.
त्रिषु बीभत्सं विकृतं वैकृत्यं वैकृतं तथा ।रौद्रमुग्रमपि ख्यातं हासो हास्यं तथा हसः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सं (wrong syllable)
genderक्लीneut.
घर्घरे हासिका हास्यं हासश्च हसनं हसः ।त्रिकवर्गद्वितीयाप्ता स्मिते वक्रोष्ठिका मता ॥ ११६ ॥
अनुष्टुप्
genderक्लीneut.
हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखी प्रति ।शृङ्गारवीरकरुणा हास्यरौद्रभयानकाः ॥ ९५४ ॥
अनुष्टुप्
genderपुंmasc.
दयानुकम्पा करुणा तत्रानुक्रोश इत्यपि ।हासो हसश्च हास्यं च तत्प्रभेदाः स्युरुत्तरे ॥ ९६७ ॥
अनुष्टुप्
genderक्लीneut.
तत्र हासो हसो हास्यं घर्घरं हासिका स्त्रियाम् ॥ ६२ ॥
genderक्लीneut.
मन्दाक्षं ह्नीस्त्रपा लज्जा व्रीला सापत्रपान्यतः ।हासिका तु हसो हासो हसनं हास्यघर्घरे ॥ १९४ ॥
अनुष्टुप्
genderक्लीneut.
शृंगारहास्यबीभत्सवीराद्भुतभयानकाः ।रौद्रश्च करुणश्चाष्टौ रसाः शान्तोऽपि च क्वचित् ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
बीभत्समाने बीभत्सो विस्मेतर्यद्भुतो रसः ।भयानको रसो भीते हास्यो हसितरि स्थितः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
हास्य as a meaning in nānārtha verses
- धरणिकोश आच्छुरितआच्छुरितं स्मृतं हास्ये स्वशब्दनखवादने । वसन्तदूतशब्दाः स्युश्चूतातिमुक्तपाटलाः ॥ Dharaṇikośa 15.2.85
- धरणिकोश प्रहासप्रहासः स्यान्नटबटौ हास्यतीर्थविशेषयोः । कुल्मासश्च यवे प्रोक्तः काञ्चिके यवपिष्टके ? ॥ Dharaṇikośa 31.2.16
- कोषकल्पतरु हीहीहा दुःखे शुचि ही तु विस्मयविषादार्थेऽथ हाहा तथा हू हूं खेद विषादयोरथ मतो हू विस्मयामन्त्रणे । हं हो विस्मयदुःखयोः सह पुनः साकल्यसादृश्ययोः संबन्धर्द्धिसमानकाल उदितं ही ही तु हास्येऽद्भुते ॥ २८ ॥ Koṣakalpataru 5.1.28
- नानार्थार्णवसंक्षेप हसनहोमे वह्नौ तु ना स्त्री तु हवनी स्रुचि नप् पुनः । हास्ये स्याद्धसनं स्री तु हसनी परिकीर्तिता ॥ २०२८ ॥ Nānārthārṇavasaṃkṣepa 4.2028
- शब्दरत्नावली हीहीआहो प्रश्ने विचारे च उताह प्रश्नचिन्तयोः । सह साकल्य-सामर्थ्य-विद्यमान-समृद्धिषु ॥ सम्बन्धे यौगपद्ये च साहाय्ये च निगद्यते । हीही हास्ये विस्मये च हेहै सम्बोधनाख्ययोः ॥ Śabdaratnāvalī 8.1.66