रौद्र
raudraपुं · masc.In 16 kośas: 30 synonym verses, 5 as a nānārtha head word, 6 as a meaning of another word.
genderपुंmasc.
शृङ्गारहास्यकरुणारौद्रवीरभयानकाः ॥ २९४ ॥बीभत्साद्भुतशान्ताश्च रसा भावाः पुनस्त्रिधा ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् ॥ १९ ॥दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ।भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥ २० ॥
अनुष्टुप्
genderविadj.
तिग्मं तीक्ष्णं खरं तीव्रं चण्डमुष्णं पटु स्मृतम् ।आतपः कथ्यते रौद्रं निदाघो घर्म उच्यते ॥ ४० ॥
अनुष्टुप्
genderक्लीneut.
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
रौद्रश्च करुणश्चाष्टौ रसाः शान्तोऽपि च क्वचित् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
ऐंदवं चन्द्रशशिभमिंदुं चंद्रभमुच्यते ।आर्द्री शिवं शिवर्क्षं च शिवभं रौद्रमीश्वरम् ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
आद्यो रौद्रोऽथ द्वितीयोऽहिः सितोऽथाज इत्यपि ।मैत्रोऽथारभटश्चापि पितरः सारटोऽप्यथ ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
पूर्वाह्णश्चापराह्णश्च रात्रेस्तावन्त एव हि ।आद्यो रौद्राऽथ गन्धर्वोऽजैकपादथ भास्करः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
हिमागमस्तु हेमन्तः प्रालेयो रौद्रहेमनौ ।अस्त्रियां शिशिरः सैषो वसन्तः पिकबान्धवः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।रौद्रबीभत्सवात्सल्यशान्ता नाट्ये रसा दश ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
शैवं पाशुपतं रौद्रं तद्भवादौ विशेष्यवत् ।शतं रुद्रा देवन्तीति तस्य तच्छतरुद्रियम् ॥ ७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
genderविadj.
स्याच्छारदः शारदिक आतपो यः शरद्भवः ।तिग्मं तीक्ष्णं रौद्र-तीव्रे चण्डमुष्णद्रवाङ्कः [?] ॥ ४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
रौद्राभ्युदयिकौ श्वेतसर्पौ मित्राह्वमैत्रकौ ।पितृचारभटौ भानुवसू तौयाह्वविश्वकौ ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
हेमन्तः प्रसलो हेमा रौद्रोऽथैतद्भवे त्रिषु ।स्याद्धैमनं च हैमन्तमुप्तेऽप्येवं द्विरूपता ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
शृङ्गार-हास्य-करुणा भयानको रौद्र-वीर-बीभत्साः ।शान्ता[57a]द्भुताविति रसा दशमो वात्सल्यनामापि ॥ १२० ॥
आर्या
genderपुंmasc.
भयानकः प्रतिभयो दारुणश्च भयावहः ।आभीरश्चाथ रौद्रः स्यादुग्रस्तद्वत्स्वमी त्रिषु ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्जकार्तिकिकौ मासौ द्वावृतुः परिकीर्तितः ।रौद्रः प्रशलहेमन्तौ शैषस्तु शिशिरोऽपि च ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
भयं दरः साध्वसं भीराशङ्कातङ्कभीतयः ।भीषणं दारुणं रौद्रं भीष्मं प्रतिभयं तथा ॥ २१२ ॥
अनुष्टुप्
genderविadj.
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।बीभत्साद्भुतशान्ताश्चेत्येते नव रसाः स्मृताः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
हिमागमस्तु हेमन्तो रौद्रश्च प्रसलस्तथा ।शैषस्तु शिशिरश्चैव वसन्तस्तु बलाङ्गकः ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
अथ शृङ्गारहास्यौ च करुणः रौद्र वीरकौ ॥ ४३१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शृङ्गारवीरबीभत्साः रौद्रहास्यभयानकाः ।अद्भुतः करुणः शान्तो नाट्ये नवरसा अमी ॥
अनुष्टुप्
genderपुंmasc.
त्रिषु बीभत्सं विकृतं वैकृत्यं वैकृतं तथा ।रौद्रमुग्रमपि ख्यातं हासो हास्यं तथा हसः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सं (wrong syllable)
genderपुंmasc.
हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखी प्रति ।शृङ्गारवीरकरुणा हास्यरौद्रभयानकाः ॥ ९५४ ॥
अनुष्टुप्
genderपुंmasc.
रौद्रमुग्रं प्रतिभयं भीमं भीष्मं भयानकम् ।भीषणं दारुणं घोरं भैरवं च भयंकरम् ॥ ९७० ॥
अनुष्टुप्
genderविadj.
आलोकस्तु प्रभा भा रुग्रुचिदीधितिदीप्तयः ।अथातपो रौद्रमिद्धं मृगतृष्णा मरीचिका ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
शृंगारहास्यबीभत्सवीराद्भुतभयानकाः ।रौद्रश्च करुणश्चाष्टौ रसाः शान्तोऽपि च क्वचित् ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
भैरवं भीषणं घोरमाभीलं दारुणञ्च तत् ।करुणः सकृपो रौद्रस्तूग्रोऽमी विंशतिस्त्रिषु ॥ ७९ ॥
अनुष्टुप्
genderविadj.
स्त्रियां पुनः षण्मुखमातरि स्या-त्तीव्रं नितान्ते त्रिषु तीक्ष्णकट्वोः ।स्त्री गण्डदूर्वाकटुकासुरीषुतृप्रः पुरोडाशगतः पुमान्स्यात् ॥ ५४ ॥
उपजातिः
meaningsषण्मुखमातृ
doubtful
इति ङ्यन्तमथाप्यन्ये रोदसी इति मन्वते ।सहोक्तौ भूदिवोरेव रौद्रं तु क्लीबमातपे ॥ ११२६ ॥
अनुष्टुप्
meaningsआतप
रौद्र as a meaning in nānārtha verses
- कोषकल्पतरु रेपद्रूपं नाणकनाटकादिकसिताद्येषु स्वभावेऽपि च । ग्रन्थावर्तन-पद्ययोः पशुरवे मूर्तौ स्वभावे मृगे सौदर्येऽप्यथ रौद्रनिन्दितगते रेपो भवेद्वाच्यगम् ॥ १ ॥ Koṣakalpataru 6.22.1
- कोषकल्पतरु जाल्मध्यामं गन्धतृणे पुमान्[द]मनके धूम्रे पुनर्वाच्यवत् गुल्मो [थो]बलरक्षणे च जठरग्रन्थौ प्रकाण्डे बले । घट्टे स्त्र्यामलकीतडित्पटगृहे जाल्मस्तु रौद्रे जडे भेद्याभोऽप्यसमीक्ष्यकारिणि भवेद्ग्रामः स्वराणां ग्रहे ॥ ६३ ॥ Koṣakalpataru 6.25.63
- नानार्थार्णवसंक्षेप उग्रकालशेयेऽथ रौद्रे त्रि स्त्री तूस्रा गवि ना घृणौ । उखः पुंसि स्फिचि परे कर्णपार्श्वेऽप्यधीयते ॥ ९५ ॥ Nānārthārṇavasaṃkṣepa 2.5.95
- परमानन्दीयनाममाला आक्रन्दआक्रन्दः क्रन्दनध्वाने भृपे रौद्ररणेऽपि च । आषाढो मासमेदे स्याद्व्रतिदण्डे द्रुमान्तरे ॥ ३८ ॥ Paramānandīyanāmamālā 5.1.38
- परमानन्दीयनाममाला भीमभूभृद्वरे गिद्रे शेषे भूतिर्लक्ष्म्यां च भस्मनि । भीमो रौद्रे हरे भूपे भावाटः कामुके मुनौ ॥ ३३४ ॥ Paramānandīyanāmamālā 5.20.334
- तन्त्राभिधान वमेधा धियो जलान्तस्थः खड्गीशो हंस-वारिदौ । वरुणश्च शिवो रौद्रो मृतेशो वा-र्णकः स्मृतः ॥ ४५ ॥ Tantrābhidhāna 6.45