वाद्यभाण्ड
vādyabhāṇḍaIn 4 kośas: 0 synonym verses, 11 as a meaning of another word.
वाद्यभाण्ड as a meaning in nānārtha verses
- धरणिकोश गोमुखविशिखा खनित्री रथ्या विशिखो बाण उच्यते । गोमुखं वाद्यभाण्डे स्यात्तथा गोमयलेपने ॥ Dharaṇikośa 2.2.5
- धरणिकोश गुञ्जागुञ्जा तु वाद्यभाण्डं स्यात्काकचिञ्च्यां कलध्वनौ । गञ्जो रीढा भाण्डागारे गञ्जा खन्यां सुरागृहे ॥ Dharaṇikośa 7.2.4
- धरणिकोश झर्झरघर्घरः पेचके प्रोक्तश्चलद्वारि नदान्तरे । झर्झरः स्यात्कलियुगे वाद्यभाण्डे च झर्झरः ॥ Dharaṇikośa 26.2.39
- धरणिकोश दर्दुरदर्दुरो वाद्यभाण्डे स्यान्मण्डुके पर्वतान्तरे । गोपुरं द्वारि पूर्द्वारि कैवर्तीमुस्तकेऽपि च ॥ Dharaṇikośa 26.2.42
- धरणिकोश काहलकाहली तरुणी प्रोक्ता काहलं भृशशुष्कयोः । काहला तुरगोत्साहे वाद्यभाण्डे प्रकीर्तिता ॥ Dharaṇikośa 27.3.29
- धरणिकोश वंशवंशः संघे कुले वेणौ वाद्यभाण्डे विशेषतः । नासाविवरदेशे च पृष्ठमध्यास्थि च स्मृतम् ॥ Dharaṇikośa 29.3.5
- कोषकल्पतरु गोमुखतार्क्ष्यात्मजे स्यात्सुमुखोऽहिभेदे विज्ञे च वाचाटफणीन्द्रयोस्तु । स्याद्दुर्मुखो मर्कटकेऽथ वाद्य- भाण्डे ऽनृजौ धाम्न्यनुलेपने च ॥ ८२ ॥ Koṣakalpataru 6.2.82
- शब्दरत्नावली गोमुखगोमुखं वाद्यभाण्डे च लेपने कुटिले गृहे । पुमान् महेश्वरगणान्तरि(?) मातलिपुत्रयोः ॥ Śabdaratnāvalī 7.2.9
- शब्दरत्नावली पुष्करपुष्करं हस्तिहस्ताग्रे वाद्यभाण्डे मुखे जले । व्योम्नि खङ्गफले काण्डे पद्मे तीर्थोषधीभिदोः ॥ Śabdaratnāvalī 7.27.89
- त्रिकाण्डशेष गोमुखइन्दुलेखा गुडूच्यां च पूः सुखं स्वर्न्नभश्च खम् । गोमुखं लेपने वाद्यभाण्डे सर्पेऽपि दुर्मुखः ॥ ४९ ॥ Trikāṇḍaśeṣa 3.3.49
- त्रिकाण्डशेष करटसमये च क्रियाकारे किलिञ्जशरयोः कटः । कोटिः सङ्ख्याऽपि करटो वाद्यभाण्डविप्रयोः ॥ ९३ ॥ Trikāṇḍaśeṣa 3.3.93