All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
लान्ताः · लश्लोकः
॥ लश्लोकः ॥
फलं सस्ये शराद्यग्रे फलके व्युष्टिदानयोः ।लाभे हेतुसमुत्थे च प्रियङ्गस्तु फली स्मृता ॥
27.3.1 · p. 198
अनुष्टुप्
बलं शक्तिश्च सैन्यं च रूपे स्थौल्ये बलोऽसुरे ।काके हलिनि शक्ते च बला वाट्यालके स्मृता ॥
27.3.2 · p. 198
अनुष्टुप्
तलश्चपेटस्ताल[94]श्च स्वरूपानूर्ध्वयोस्तलम् ।ज्याघातो ध्रियते येन प्रकोष्ठे तत्तलं स्मृतम् ॥
27.3.3 · p. 199
अनुष्टुप्
नलो नले राज्ञि कपिप्रभेदे कमले नलम् ।नली सुगन्धिभेदे च नलः स्यात्पितृदेवता ॥
27.3.4 · p. 199
अनुष्टुप्
शिला द्वाराधःस्थदारु शिलमुञ्छः शिला दृषत् ।[शिला मनः?]शिलायां स्याच्छिली गण्डूपदी मता ॥
27.3.7 · p. 199
अनुष्टुप्
तुला पलशते माने भाण्डसादृश्ययोरपि ।गृहाणां दारुबन्धार्थं पीठिकायां तुलां विदुः ॥
27.3.8 · p. 199
अनुष्टुप्
पालिः कर्णलतायां स्यात्प्रदेशांशाङ्कपङ्क्तिषु ।… ॥
27.3.9 · p. 200
अनुष्टुप्metre not read in every line
वेला काले च सीमायां सिन्धोस्तीरविकारयोः ।अक्लिष्टमरणे राग ईश्वरस्य च भोजने ॥
27.3.10 · p. 200
अनुष्टुप्
शूलं प्रहरणे योगे शूलो व्याधिसुतीक्ष्णयोः ।शूलौ मृत्युध्वजौ चायःकीलः शूलास्तु दारिकाः ॥
27.3.11 · p. 200
अनुष्टुप्
तालः करतले गीते क्रियामाने द्रुमान्तरे ।मध्यमाङ्गुष्ठकोन्माने तालं तु हरितालके ॥
27.3.12 · p. 200
अनुष्टुप्
कालो यमे महाकाले मृत्यौ समयकृष्णयोः ।काली दुर्गा यामिनी च काली स्यान्नववारिदे ॥
27.3.13 · p. 200
अनुष्टुप्
गोला मनःशिला प्रोक्ता गोला गोदावरी स्मृता ।गोलः स्याद्गुडके राज्ञो विधवायाः सुते तथा ॥
27.3.14 · p. 200
अनुष्टुप्
कोलः स्यादुडुपः पोत्री कोलः शस्त्रान्तरं स्मृतम् ।कोला तु पिप्पली च[95]व्यं कोलं च बदरीफलम् ॥
27.3.15 · p. 200
अनुष्टुप्
चिल्लं स्यादक्षिणि क्लिन्ने चिल्लं क्लिन्नाक्षदेहिनि ।चिल्लः पक्षिविशेषे च चिल्ली च गौणवास्तुकः ॥
27.3.16 · p. 201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
चुल्लं चिल्लमिति प्रोक्तं क्लिन्नाक्षे क्लिन्नचक्षुषि ।उद्धाने कथिता चुल्ली चितायामपि सा स्मृता ॥
27.3.17 · p. 201
अनुष्टुप्
चपलः पारदः प्रोक्तश्चपलश्चेष्टितः स्मृतः ।चपलं क्षणिकं शीघ्रं चपला पिप्पली तडित् ॥
27.3.18 · p. 201
अनुष्टुप्
तरलो भास्वरे लोले हारमध्यमणावपि ।तरलो मद्यशून्ये [स्याद् ?] यवागूस्तरला मता ॥
27.3.19 · p. 201
अनुष्टुप्
बहुला कृत्तिका गौस्तु एलाश्च बहुला मता ।बहुलः कृष्णपक्षोऽग्निर्बहुलो बहुलं शिति ॥
27.3.20 · p. 201
अनुष्टुप्
मुसलं स्यादयोग्रं तु मुसली गृहगोधिका ।मुसली तालमूली स्यान्मुसली चाखुपर्णिका ॥
27.3.21 · p. 201
अनुष्टुप्
सुतलप्रतलौ चेति पातालभुवनद्वये ।स्यातामट्टालिकाबन्धे तताङ्गुलितले क्रमात् ॥
27.3.22 · p. 202
अनुष्टुप्
कपिलो मुनिभेदः स्यात्कपिलौ पिङ्गकुक्करौ ।पुण्डरीकगजस्याख्या कपिला शिंशपा च गौः ॥
27.3.23 · p. 202
अनुष्टुप्
पिप्पलं सलिले ज्ञेयं तरुजातिश्च पिप्पलः ।वस्त्रच्छेदप्रभेदे च पिप्पली च कणा स्मृता ॥
27.3.24 · p. 202
अनुष्टुप्
पिङ्गलो वानरे पिङ्गे भानोश्च पारिपार्श्वके ।पिङ्गला कुमुदाख्यस्य दिङ्नागस्य च हस्तिनी ॥
27.3.25 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
मण्डलं निवहे बिम्बे देशे द्वादशराजके ।मण्डलः कुक्कुरे प्रोक्तः कुष्ठभेदे च मण्डलम् ॥
27.3.26 · p. 202
अनुष्टुप्
कन्दली कदली चेति मृगवृक्षविशेष[96]योः ।कन्दलः कलहे युद्धे कपाले च कलध्वनौ ॥
27.3.27 · p. 202
अनुष्टुप्
पाटलं पाटला चेति पुष्पे वृक्षे च पाटला ।पाटलः श्वेतरक्तः स्यादाशुव्रीहौ च पाटलः ॥
27.3.28 · p. 203
अनुष्टुप्
काहली तरुणी प्रोक्ता काहलं भृशशुष्कयोः ।काहला तुरगोत्साहे वाद्यभाण्डे प्रकीर्तिता ॥
27.3.29 · p. 203
अनुष्टुप्