कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

शान्ताः · शश्लोकः

॥ शश्लोकः ॥

वशः प्रभुत्व आयत्त इच्छायत्तत्वयोर्विदुः ।वशाश्चतस्रो वन्ध्या गौः सुता नारी करेणुका ॥
29.3.1 · p. 215
अनुष्टुप्
पशुर्मृगादौ छगले पशुः स्याद्यज्ञवाचकः ।पशुः संसारिणामात्मा पशु दृश्यार्थमव्ययम् ॥
29.3.2 · p. 215
अनुष्टुप्
शशः पुरुषभेदः स्याच्छशः स्याच्चन्द्रलाञ्छनम् ।शशो गन्धरसः प्रोक्तः शशकाख्यः पशुः शशः ॥
29.3.3 · p. 215
अनुष्टुप्
कुशा वल्गा कुशी फालः कुशो दर्भः कुशं जलम् ।कुशो रामसुते द्वीपे कुशो यज्ञाङ्गबन्धनम् ॥
29.3.4 · p. 215
अनुष्टुप्
वंशः संघे कुले वेणौ वाद्यभाण्डे विशेषतः ।नासाविवरदेशे च पृष्ठमध्यास्थि च स्मृतम् ॥
29.3.5 · p. 215
अनुष्टुप्
पाशः खगादिबन्धे स्यात्केशौधे केशपूर्वकः ।कर्णपूर्वः सुकर्णे च पाशी … ॥
29.3.6 · p. 215
अनुष्टुप्metre not read in every line
कर्कशः स्यात्साहसिके खरस्पर्शे च कर्कशः ।काम्पिल्यः कर्कशः प्रोक्तः कर्कशो निर्दयोऽपि च ॥
29.3.7 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सा (wrong syllable)
पलाशो निर्दये प्रोक्तः पलाशः किंशुकः शटी ।पलाशा राक्षसाः प्रोक्ताः पलाशं पत्रमुच्यते ॥
29.3.8 · p. 216
अनुष्टुप्