कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नैगम

naigamaपुं · masc.

In 13 kośas: 11 synonym verses, 8 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.868 · p. 35
सत्यानृतं तु वाणिज्यं वणिज्या वाणिजो वणिक् ।क्रयविक्रयिकपण्याजीवापणिकनैगमाः ॥ ८६७ ॥वैदेहः सार्थवाहश्च क्रायकः क्रयिकः क्रयी ।क्रेयदे तु विपूर्वास्ते मूल्ये वस्नार्घवक्रयाः ॥ ८६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.78
वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ।पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.571 · p. 64
पण्याजीवा वणिजः प्रापणिका नैगमाश्च वैदेहाः ।द्वैगुणिको वार्धुषिको वृद्ध्याजीवः कुसीदिकः प्रोक्तः ॥ ५७१ ॥
गीतिः
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.479 · p. 186
स्यान्नागरो नैगमोऽपि वाणिजोऽपि वणिक् पणिः ।नीवी परिपणं चापि भाण्डं नीविरपि स्त्रियाम् ॥ ४७९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.66 · p. 288
सर्जूः स्त्री वाणिजवणिक्तुलाधारश्च नीवरः ।क्रयिको नैगमः सार्थवाहो विक्रयिकश्च सः ॥पण्याजीवो ह्यापणिकः क्रयविक्रयिकोऽपि सः ।वैदेहिको वस्निकश्च क्रायिकः क्रयिकः क्रयी ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.218 · p. 36
पण्याजीवः सार्थवाहो नैगमो वणिजो वणिक् ।वैदेहिकः प्रापणिकः क्रयविक्रयिकोऽपि च ॥ २१८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.512 · p. 91
पण्याजीवश्चापणिको नैगमो वाणिजोऽपि च ।क्रयविक्रयिकः कर्ता चाथ विक्रयकारिणि ॥ ५१२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति विड्वर्गः Śāradīyākhyanāmamālā 3.3.44 · p. 38
वैदेहिकश्चापणिको नैगमो वाणिजो वणिक् ।पण्याजीवः सार्थवाहः क्रयविक्रयिकः क्रयी ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.152 · p. 147
ग्राम्याश्चः शङ्कुकर्णः स्याद् बालेयो वनरूषितः (?) ।वणिग्वैदेहकः सार्थवाह-नैगमवाणिजाः ।वाणिजको वाणिजिको वाणिज्यकार इत्यपि ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1504 · p. 182
पण्याजीवः सार्थवाहो वैदेहो वाणिजो वणिक् ।नैगमश्च प्रापणिकः क्रयविक्रयिकोऽपि सः ॥ १५०४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 प्रा (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.72 · p. 129
पण्याजीवः सार्थवाहो नैगमो वाणिजो वणिक् ।वैदेहकः प्रापणिकः क्रयविक्रयिकोऽपि च ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.140
वणिक्पथः पुरं वेदो निगमो नागरो वणिक् ।नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ॥ १४० ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.815 · p. 94
स्नेहेऽप्यपह्नवः प्रोक्तो द्वेषेऽप्यनुशयः स्मृतः ।सुरतेऽपि व्यवायः स्यान्नैगमश्च ऋतावपि ॥ ८१५ ॥
अनुष्टुप्
meaningsऋतु
धरणिकोश Dharaṇikośa · धरणिदास मार्धश्लोकः Dharaṇikośa 24.2.16 · p. 144
नैगमः स्याद्वणिज्यायां वणिङ्नागरयोरपि ।विद्रुमस्तु समुद्रोत्थे प्रवाले रत्नवृक्षके ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.85 · p. 284
यमे प्रतिज्ञासु च यन्त्रणायांवेदे पुरे स्यान्निगमः कटे च ।वणिक्पथे वाणिजके तथोक्तो-ऽथो[33b]नैगमो वाणिजनागरार्थः ॥ ८५ ॥
उपजातिःmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1048 · p. 139
मनःशिलायां च प्रोक्ता नेपाली बहुवेदिना ।नैगमस्तूपनिषदि पुमानुक्तो दृतावपि ॥ १०४८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1049 · p. 139
वणिङ्नागरयोस्तु स्याद् भेद्यलिङ्गं तथैव च ।भवेन्निगमसम्बन्धिमात्रे क्लीबं तु नैषधम् ॥ १०४९ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.38 · p. 255
नैगमो नागरे पुंसि वणिज्युपनिषद्यपि ।प्रथमस्तु भवेदाद्ये प्रधानेऽप्यभिधेयवत् ॥प्रतिमाऽनुकृतौ कुम्भिदन्तवन्धेऽपि च स्त्रियाम् ।पञ्चमो रागभेदे स्यात्स्वरभेदे भवेत्पुमान् ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.37 · p. 242
नरेन्द्रो विषवैद्ये च नैगमस्तु श्रुतावपि ।निकारस्तु तिरस्कारे धान्यस्योत्क्षेपणेऽपि च ॥ ३७ ॥
अनुष्टुप्