वणिज्या
vaṇijyāस्त्री · fem.In 14 kośas: 14 synonym verses, 6 as a meaning of another word.
सत्यानृतं तु वाणिज्यं वणिज्या वाणिजो वणिक् ।क्रयविक्रयिकपण्याजीवापणिकनैगमाः ॥ ८६७ ॥वैदेहः सार्थवाहश्च क्रायकः क्रयिकः क्रयी ।क्रेयदे तु विपूर्वास्ते मूल्ये वस्नार्घवक्रयाः ॥ ८६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderस्त्रीfem.
वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
स्मृतं वणिज्यं वाणिज्यं वणिज्या च समं त्रयम् ।युद्धार्थे द्वे प्रयुज्येते दौर्मद्यं च करीरकम् ॥ ७६१ ॥
अनुष्टुप्
genderस्त्रीfem.
अपि मूलधनं चाथ तत्र लाभोऽधिकं धनात् ।वाणिज्यं च वणिज्या स्यान्मूल्यं वस्नोप्यवक्रयः ॥ ४८० ॥
अनुष्टुप्
genderस्त्रीfem.
ऋतं द्वे अमृतं तु स्यादयाचितमथो मृतम् ।याचितं स्याद्वणिज्या तु न ना वाणि[125b]ज्यमन्तिमे ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
महोदयं कांस्यमृगव्यचव्य-वणिज्यवीर्याणि तमिस्र-शस्त्रे ।त्वक्क्षीरकादम्बर-मन्दिराणिमसूरनासीरयुतानि तद्वत् ॥ ८३ ॥
उपजातिः
genderस्त्रीक्लीf. n.
वाणिज्यवृत्तौ वाणिज्यं वणिज्या वणिजा तथा ।मूल्यद्रव्ये तु वस्नः स्यादवक्रय इति द्वयम् ॥ ५१४ ॥
अनुष्टुप्
genderस्त्रीfem.
सत्यानृतं वणिज्या च वाणिज्यमिति ज्ञायताम् ॥ १४४८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
वाणिज्यं तु वणिज्या स्याद् वाणिज्या वणिगित्यपि ॥
genderस्त्रीfem.
वणिज्या वणिज्यं क्रयविक्रयिके तु वाणिजः ।वणिक् प्रापणिकः प्रोक्त आङ्पराः पणिकस्तथा ॥ ३१७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नीवी परिपणमेषां मूलधनेऽथाधिकं फलं लाभः ।स्त्रियां वणिज्या वाणिज्यं व्यवहारो ग्लहः पणः ॥ १५०२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
स्त्रीक्लीबयोरुडुर्दामा छर्द्दिर्ज्योतिः सदोर्च्चिषः ।सुखं लक्षं वणिज्यञ्च वडिशक्रोडपाटलम् ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
ऋतं तदुभयं स्त्री तु कृषिः क्ली प्रमृतानृते ।सत्यानृतं तु वाणिज्यं वणिज्या वणिजा स्त्रियौ ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
अपुंसि चालनी दाम वणिज्याश्मन्तिका स्थली ।शरव्यार्च्चिर्गुडा पत्री स्यात्कुथे वर्णतर्णिका ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
वणिज्या as a meaning in nānārtha verses
- धरणिकोश नैगमनैगमः स्याद्वणिज्यायां वणिङ्नागरयोरपि । विद्रुमस्तु समुद्रोत्थे प्रवाले रत्नवृक्षके ॥ Dharaṇikośa 24.2.16
- कोषकल्पतरु वणिज्क्लीबे करणविशेषे स्त्रियां तु दिष्टा वणिज्यायाम् । सामजमाहुर्द्विरदे सामभवे त्वेष भेद्याभः ॥ ३६ ॥ Koṣakalpataru 6.7.36
- नानार्थार्णवसंक्षेप वणिज्क्रयविक्रयिके त्रि स्याद् वणिज्यायां पुनः स्त्रियाम् । व(र्ष्मे?र्ष्म) न स्त्री परिच्छेदे शरीरश्रेष्ठयोरपि ॥ १२०८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1208
- नानार्थार्णवसंक्षेप व्यवहारव्यवहारो वाक्प्रयोगे सम्बन्धे द्यूतदण्डयोः । शासने वित्तसंवादे विवादेऽसिवणिज्ययोः ॥ १०६ ॥ Nānārthārṇavasaṃkṣepa 6.106
- शब्दरत्नाकर व्यवहारव्यवहारो वाक्प्रयोगे विवादे द्यूतदण्डयोः । शासने वित्तसंवादे संबन्धेऽसिवणिज्ययोः ॥ २२२५ ॥ Śabdaratnākara 4.1.2225
- वैजयन्ती व्यवहारव्यवहारो वाक्प्रयोगे संबन्धे द्यूतदण्डयोः । शासने वित्तसंवादे विवादेऽसिवणिज्ययोः ॥ ४३ ॥ Vaijayantī 8.1.43