कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्रयविक्रयिक

krayavikrayikaपुं · masc.

In 11 kośas: 10 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.868 · p. 35
सत्यानृतं तु वाणिज्यं वणिज्या वाणिजो वणिक् ।क्रयविक्रयिकपण्याजीवापणिकनैगमाः ॥ ८६७ ॥वैदेहः सार्थवाहश्च क्रायकः क्रयिकः क्रयी ।क्रेयदे तु विपूर्वास्ते मूल्ये वस्नार्घवक्रयाः ॥ ८६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.78
वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ।पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.66 · p. 288
सर्जूः स्त्री वाणिजवणिक्तुलाधारश्च नीवरः ।क्रयिको नैगमः सार्थवाहो विक्रयिकश्च सः ॥पण्याजीवो ह्यापणिकः क्रयविक्रयिकोऽपि सः ।वैदेहिको वस्निकश्च क्रायिकः क्रयिकः क्रयी ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.218 · p. 36
पण्याजीवः सार्थवाहो नैगमो वणिजो वणिक् ।वैदेहिकः प्रापणिकः क्रयविक्रयिकोऽपि च ॥ २१८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.512 · p. 91
पण्याजीवश्चापणिको नैगमो वाणिजोऽपि च ।क्रयविक्रयिकः कर्ता चाथ विक्रयकारिणि ॥ ५१२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति विड्वर्गः Śāradīyākhyanāmamālā 3.3.44 · p. 38
वैदेहिकश्चापणिको नैगमो वाणिजो वणिक् ।पण्याजीवः सार्थवाहः क्रयविक्रयिकः क्रयी ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1449 · p. 230
वाणिजः सार्थवाहश्च वणिक् क्रयविक्रयिकः ।पण्याजीव आपणिको वैदेहश्च प्रापणिकः ॥ १४४९ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.153 · p. 148
क्रयविक्रयिकः पण्याजीव आपणिकोऽपि च ।स्वाध्यायी पत्तनवणिक् द्वयं नगरवाणिजे ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1504 · p. 182
पण्याजीवः सार्थवाहो वैदेहो वाणिजो वणिक् ।नैगमश्च प्रापणिकः क्रयविक्रयिकोऽपि सः ॥ १५०४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 प्रा (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.72 · p. 129
पण्याजीवः सार्थवाहो नैगमो वाणिजो वणिक् ।वैदेहकः प्रापणिकः क्रयविक्रयिकोऽपि च ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.

क्रयविक्रयिक as a meaning in nānārtha verses