All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
तृतीयः काण्डः · वैश्याध्यायः
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे क्षत्रियाध्यायो विंशः ॥
वैश्याध्यायः
अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः ।आजीवो जीविका वृत्तिर्वार्ता वर्तनजीवने ॥ १३९४ ॥
3.4.1394 · p. 169
अनुष्टुप्
वृत्तयः स्त्री कृषिः पाशुपाल्यं वाणिज्यमित्यमूः ।उञ्छो धान्यश आदानं कणिशोपार्जनं शिलम् ॥ १३९५ ॥
3.4.1395 · p. 169
अनुष्टुप्
ऋतं तदुभयं लब्धममृतं स्यादयाचनात् ।मृतं तु याचितं कृष्यामनृतप्रमृते उभे ॥ १३९६ ॥
3.4.1396 · p. 169
अनुष्टुप्
सत्यानृतं तु वाणिज्यं श्ववृत्तिः परसेवनम् ।याचितं याच्ञया लब्धं निमयादापमित्यकम् ॥ १३९७ ॥
3.4.1397 · p. 169
अनुष्टुप्
परिवर्तेन निर्वृत्तं वस्तु स्यादापमित्यकम् ।पाशुपाल्यं जीववृत्तिः स्यादृणं पर्युदञ्चनम् ॥ १३९८ ॥
3.4.1398 · p. 169
अनुष्टुप्
तदवृद्धिकमुद्धारः कसीदं तु सवृद्धिकम् ।कुसीदिको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः ॥ १३९९ ॥
3.4.1399 · p. 170
अनुष्टुप्
कूटसाक्षी मृषासाक्षी प्रतिभूलग्नकौ समौ ।अर्थिनो वचनं भाषा तत्प्रत्यर्थिन उत्तरम् ॥ १४०० ॥
3.4.1400 · p. 170
अनुष्टुप्
लेख्यो लेखः प्रत्ययस्तु दिव्यं दैविकमित्यपि ।अभियोक्ता शिरोवर्ती शिरःस्थश्चाथ दर्शितः ॥ १४०१ ॥
3.4.1401 · p. 170
अनुष्टुप्
अभियुक्तोऽभिशस्तः स्यादाप्तः प्रत्ययितस्त्रिषु ।स्युः क्षेत्राजीवकृषकौ कर्षकश्च कृषीवले ॥ १४०२ ॥
3.4.1402 · p. 170
अनुष्टुप्
वप्रोऽस्त्री पुंसि केदारः क्षेत्रमस्य कदम्बके ।कैदारककैदारिककैदार्यक्षैत्रकैदारम् ॥ १४०३ ॥
3.4.1403 · p. 170
अनुष्टुप्metre not read in every line
सीत्यं हल्यं कृष्टं बीजाकृतकमुप्तकृष्टं स्यात् ।द्विगुणाकृतं द्विहल्यं द्वितीयाकृतं द्विसीत्यमेवं स्यात् ॥ १४०४ ॥
3.4.1404 · p. 170
metre not recognised
त्रिगुणाकृतादि सर्वं शम्बाकृतमपि च तत्तदर्थं स्यात् ।द्रौणिको द्रोणवापः स्यात् खारीवापस्तु खारिकः ॥ १४०५ ॥
3.4.1405 · p. 170
अनुष्टुप्metre not read in every line
प्रस्थाढकादिवापाः स्युः प्रास्थिकाढकिकादयः ।मौद्गीनकौद्रवीणे भवने क्षेत्रे हि मुद्गकोद्रवयोः ॥ १४०६ ॥
3.4.1406 · p. 170
अनुष्टुप्
यवयवकषष्टिकानां भवने यव्यं यवक्यषष्ठिक्ये ।क्षेत्रे तु तिलमाषोमाभङ्गाणुभवने क्रमात् ॥ १४०७ ॥
3.4.1407 · p. 170
अनुष्टुप्metre not read in every line
तैलीनतिल्यमाषीणमाष्यौमीनोम्यवत्परम् ।क्रमाद्व्रैहेयशालेये व्रीहिशालिसमुद्भवे ॥ १४०८ ॥
3.4.1408 · p. 170
अनुष्टुप्
शाकाच्छाकटशाकीनौ क्षेत्राजीवादयस्त्रिषु ।लोष्टवः पुंसि लोष्टानि कोटिशो लोष्टभञ्जनः ॥ १४०९ ॥
3.4.1409 · p. 171
अनुष्टुप्
सीरगोदारणहललाङ्गलेष्वादिमं द्वयोः ।युगकीले स्त्रियां शम्या सीता तु हलपद्धतिः ॥ १४१० ॥
3.4.1410 · p. 171
अनुष्टुप्
फालो निरीषः कृषकः फलं स्यात् कूटमस्त्रियाम् ।अभ्रिः स्त्री पुंसि कुद्दालो गोदारोऽथ प्रतोदनम् ॥ १४११ ॥
3.4.1411 · p. 171
अनुष्टुप्
प्राजनं तोत्रमाबन्धो योत्रयोक्त्रे नपुंसके ।अथ दात्रं लवित्रं स्त्री शङ्कुलास्य तु वर्तकः ॥ १४१२ ॥
3.4.1412 · p. 171
अनुष्टुप्
मुष्टिः स्यात् कटकं बन्धः खनित्रमवदारणम् ।व्रीहयः स्तम्बकरयः शालयः सिततण्डुलाः ॥ १४१३ ॥
3.4.1413 · p. 171
अनुष्टुप्
रोहितो रक्तशालिः स्यात् श्वेतशालिस्तु सूकरः ।कलापकास्तु कलमा हायनास्तु महाबुसाः ॥ १४१४ ॥
3.4.1414 · p. 171
अनुष्टुप्
बालकः कृष्णशालिः स्यात् प्रवरः शालिषष्टिकः ।कलमसुगन्धिकहायनपारावतगौरलोहितपतंगाः ॥ १४१५ ॥
3.4.1415 · p. 171
अनुष्टुप्metre not read in every line
जतमुखतूर्णकशारामुखसकरषष्टिकप्रवराः ।इत्येते शालिभेदाः स्युर्नीवारो मुनिसेवितः ॥ १४१६ ॥
3.4.1416 · p. 171
अनुष्टुप्metre not read in every line
शितशूको दीर्घशुको यवो यज्ञिय इत्यपि ।यवे तु हरिते तोक्म आशुव्रीहिस्तु पाटलः ॥ १४१७ ॥
3.4.1417 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
व्रीहिभेदे त्वणुर्भङ्गा मातुलानी उभे समे ।कुल्माषो यावकस्तत्र चणको हरिमन्थकः ॥ १४१८ ॥
3.4.1418 · p. 171
अनुष्टुप्
यवको यववर्णी स्याच्छ्यामाकश्यामकौ समौ ।चिक्कणस्त्वतसीकङ्गुप्रियङ्गूमाक्षुमाः समाः ॥ १४१९ ॥
3.4.1419 · p. 172
अनुष्टुप्
श्वेतकङ्गुस्तु मसुटी पीतकङ्गुस्तु मागधी ।उदारः काककङ्गुः स्त्री कोरदूषस्तु कोद्रवः ॥ १४२० ॥
3.4.1420 · p. 172
अनुष्टुप्
वरको बालनालोऽथ मङ्गल्यकमसूरकौ ।सतीनको हरेणुः स्यात् कलायः खण्डिकश्च सः ॥ १४२१ ॥
3.4.1421 · p. 172
अनुष्टुप्
माषस्तु मलदो नन्दी वृष्यो बीजवरो बली ।तिलपुष्पं वज्रपुष्पं जर्तिलोऽरण्यजस्तिलः ॥ १४२२ ॥
3.4.1422 · p. 172
अनुष्टुप्
द्वौ तु वन्ध्ये तिले स्यातां पिञ्जपेजौ तिलात् परौ ।मुद्गो बलाङ्गः पीतेऽस्मिन् वसुखण्डीरशारदाः ॥ १४२३ ॥
3.4.1423 · p. 172
अनुष्टुप्
चणको हरिमन्थश्च लसन्तस्तु लसन्तिका ।उभौ त्वरण्यजे मुद्गे मकुष्टकमयष्टकौ ॥ १४२४ ॥
3.4.1424 · p. 172
अनुष्टुप्
वंशवर्णः कृष्णवर्णः संवर्तो वातुलश्चणः ।समौ खल्वकनिष्पावौ गोधूमः सुमनो गुरुः ॥ १४२५ ॥
3.4.1425 · p. 172
अनुष्टुप्
कृष्णे प्रवरवासन्तौ हरिमन्थकशिम्बिकौ ।ताम्रवृन्तः कुलत्थः स्यात् कफशत्रुः कुलत्थिका ॥ १४२६ ॥
3.4.1426 · p. 172
अनुष्टुप्
आढकी तुवरी सैव सौराष्ट्री करवीरिका ।सर्वं व्रीह्यादिकं सम्यं कणिशं सस्यमञ्जरी ॥ १४२७ ॥
3.4.1427 · p. 173
अनुष्टुप्
सस्यशूकस्तु किंशारुः शूकोऽस्त्र्यग्रे सुतीक्ष्णके ।माषादयः शमीधान्ये शूकधान्ये यवादयः ॥ १४२८ ॥
3.4.1428 · p. 173
अनुष्टुप्
स्तम्बस्तु गुच्छो व्रीह्यादेः काण्डे नाली च नालकम् ।पलालो निष्फलः काण्डः स्त्री गवेधुर्गवेधुका ॥ १४२९ ॥
3.4.1429 · p. 173
अनुष्टुप्
खलधानं खलस्तस्मिन् पशुबन्धनदारु यत् ।समेधिर्ना शमी शिम्बा बुसं पुंसि कटंकरः ॥ १४३० ॥
3.4.1430 · p. 173
अनुष्टुप्
धान्यराशिस्तु खलजो वरण्डस्तृणसंचयः ।ऋद्धे त्वावसितं धान्ये पूतं स्याद्बहुलीकृतम् ॥ १४३१ ॥
3.4.1431 · p. 173
अनुष्टुप्
भिस्सा तु भक्तमन्धोऽन्नं दीदिविर्नोदनोऽस्त्रियाम् ।पायसं परमान्नं स्यात् मिः सटा दग्धिका समे ॥ १४३२ ॥
3.4.1432 · p. 173
अनुष्टुप्
सिक्थो ना भक्तपूलाके कृसरस्तु तिलोदनस् ।मासराचामनिस्रावा मण्ड ओदनसंभवे ॥ १४३३ ॥
3.4.1433 · p. 173
अनुष्टुप्
यवागूरुष्णिका श्राणा घना सा विरला त्वियम् ।विलेपी च विलेप्या च रसाग्रे मण्डमस्त्रियाम् ॥ १४३४ ॥
3.4.1434 · p. 173
अनुष्टुप्
स्थाली स्थालममत्रं स्यात् कंसोऽस्त्री पानभाजनम् ।दारुहस्तस्तु तण्डुः स्यात् खजाका कम्बिदर्विके ॥ १४३५ ॥
3.4.1435 · p. 173
अनुष्टुप्
पृथुकश्चिपिटस्तुल्यौ धाना भृष्टयवे स्त्रियाम् ।पुंसि भूम्नि च लाजाः स्युः पूपापूपौ तु पिष्टकः ॥ १४३६ ॥
3.4.1436 · p. 174
अनुष्टुप्
भक्ष्यकारः कान्दविक आपूपिक इमे त्रिषु ।समौ सूपश्च यूषश्च सूपकारास्तु वल्लवाः ॥ १४३७ ॥
3.4.1437 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
आरालिका आन्धसिका सूदा औदनिका गुणाः ।अवन्तिसोमरक्षोघ्नशुक्ताभिषुतकाञ्चिकम् ॥ १४३८ ॥
3.4.1438 · p. 174
अनुष्टुप्
आरनालकसौवीरगोलकुल्माषकुण्डकम् ।मधुसंधानधान्याम्लधान्याकसदनोकम् ॥ १४३९ ॥
3.4.1439 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विदंशस्तूपदंशः स्याद्भुक्तिजग्धी तु भोजनम् ।जेमनवल्भनगिलनप्रत्यवसानानि लेप आहारः ॥ १४४० ॥
3.4.1440 · p. 174
अनुष्टुप्metre not read in every line
अभ्यवहारो विघसो न्यादस्तृष्णा पिपासा तृट् ।उदन्या तर्षणं चाथ फेला भुक्तिसमुज्झितम् ॥ १४४१ ॥
3.4.1441 · p. 174
अनुष्टुप्metre not read in every line
चर्वणं भक्षणं प्सानं खादनं चादनं समम् ।क्षुद्बुभुक्षाशनाया च जिघत्सा च क्षुधा च सा ॥ १४४२ ॥
3.4.1442 · p. 174
अनुष्टुप्
अथाधिश्रयिणी चुल्ली रन्धिकानलधारिका ।अपक्वतक्रं सव्योषचातुर्जातगुडार्द्रकम् ॥ १४४३ ॥
3.4.1443 · p. 174
अनुष्टुप्
सजीरकं रसाला सा मार्जिता शिखरिण्यपि ॥ १४४४ ॥
3.4.1444 · p. 175
अर्धाढकं सुचिरपर्युषितस्य दध्नःखण्डस्य षोडश पलानि शशिप्रभस्य ।सर्पिष्पलं मधुपलं मरिचद्विकर्षंशुण्ठ्याः पलार्धमपि वार्धपलं चतुर्णाम् ॥ १४४५ ॥
3.4.1445 · p. 175
वसन्ततिलका
श्लक्ष्णे पटे ललनया मृदुपाणियुक्त(घृष्टा?)कर्पूरधूलिसुरभीकृतभाण्डसंस्था ।एषा वृकोदरकृता सुरसा रसालायासा(स्वा?)दिता भगवता मधुसूदनेन ॥ १४४६ ॥
3.4.1446 · p. 175
वसन्ततिलका
साजाजीडाडिमव्योषं पटे घट्टं (घृष्टं?) च सट्टकम् ।शाकोऽस्त्रियां हरितकं शिग्रुः पुंस्यस्य नालिका ॥ १४४७ ॥
3.4.1447 · p. 175
अनुष्टुप्
कडम्बश्च कलम्बश्च वेशवार उपस्करः ।ऋजीषं पिष्टपचनं निष्ठानं तेमनं समे ॥ १४४८ ॥
3.4.1448 · p. 175
अनुष्टुप्
रसको मांसनिष्क्वाथः पिष्टमांसकृतो रसः ।सौरावोऽसौ निर्लवणः शुष्कस्तु लवणोत्तरः ॥ १४४९ ॥
3.4.1449 · p. 175
अनुष्टुप्
स स्याल्लवणखण्डोऽथ निष्पक्वक्वथिते समे ।शृतमांसे पिचण्डस्तु निष्कृत्तावयवः पशोः ॥ १४५० ॥
3.4.1450 · p. 175
अनुष्टुप्
वृक्षाम्लं तिन्त्रिणीकं च चुक्रं चैतत् समं त्रयम् ।रामठं हिङ्गु रक्षोघ्नं जरणं भूतनाशनम् ॥ १४५१ ॥
3.4.1451 · p. 175
अनुष्टुप्
सहस्रवेधि जतुकं बाह्लीकं शूकधूपनम् ।बाष्पिका कबरी पृथ्वी तत्पत्री कारवी पृथुः ॥ १४५२ ॥
3.4.1452 · p. 176
अनुष्टुप्
कोलकं मरिचं कृष्णं धनं पत्तनमूषणम् ।शुण्ठिर्महौषधं विश्वं नागरं विश्वभेषजम् ॥ १४५३ ॥
3.4.1453 · p. 176
अनुष्टुप्
माणिमन्थं शीतशिवं नादेयं सैन्धवोऽस्त्रियाम् ।कृतके तु बिडं पाक्यं रौमकं वसुकं समे ॥ १४५४ ॥
3.4.1454 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शी (wrong syllable)
सौवर्चलं तु रुचकं दुर्गलं शूलनाशकम् ।तत्रैवाक्षं च तार्क्ष्यं च तिलकं तत्र मेचके ॥ १४५५ ॥
3.4.1455 · p. 176
अनुष्टुप्
त्रिकूटं त्रिकुटं खण्डं कटं च लवणेऽब्धिजे ।अक्षीबं वशिरस्तस्मिन् कनिष्ठं क्षेत्रमूषजम् ॥ १४५६ ॥
3.4.1456 · p. 176
अनुष्टुप्
औद्भिदं पांसुलवणं रूप्यं पानीयसंभवम् ।शूलिका तु महाराजी लोष्टावारं महाबिडम् ॥ १४५७ ॥
3.4.1457 · p. 176
अनुष्टुप्
लवणत्रयमेतत् स्यात् सैन्धवं रुचकं बिडम् ।सामुद्रं रौमकं सिन्धुसंभवं रुचकं बिडम् ॥ १४५९ ॥
3.4.1459 · p. 176
अनुष्टुप्
पांसुजं चेति लवणषट्कं सौवर्चलं बिडम् ।सैन्धवौद्भिदसामुद्राण्येतल्लवणपञ्चकम् ॥ १४६० ॥
3.4.1460 · p. 176
अनुष्टुप्
वरं सौवर्चलं कृष्णं बिडं सामुद्रमौद्भिदम् ।रौमकं पांसुजं चेति यदेतल्लवणाष्टकम् ॥ १४६१ ॥
3.4.1461 · p. 177
अनुष्टुप्
त्रिकटु त्र्यूषणं व्योषं कणामरिचनागरैः ।त्रिफलामलकी पथ्या विभीतकमिति त्रयम् ॥ १४६२ ॥
3.4.1462 · p. 177
अनुष्टुप्
नागरातिविषामुस्तात्रयमेतत् त्रिकर्षकम् ।तदेव हि चतुर्भद्रं गुडूचीपरिमिश्रितम् ॥ १४६३ ॥
3.4.1463 · p. 177
अनुष्टुप्
त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धं त्रिजातकम् ।तदेव चातुर्जातं स्यान्नागकेसरसंयुतम् ॥ १४६४ ॥
3.4.1464 · p. 177
अनुष्टुप्
चित्रको नागरं चव्यं पिप्पल्यस्याश्च मूलकम् ।पञ्चकोलकमित्येतदथ स्यात् पञ्चवल्कलम् ॥ १४६५ ॥
3.4.1465 · p. 177
अनुष्टुप्
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलम् ।तालपर्णी पृश्निपर्णी बृहती कण्टकारिका ॥ १४६६ ॥
3.4.1466 · p. 177
अनुष्टुप्
गोक्षुरः पञ्चकं चैतद्ध्रस्वपञ्चकनामकम् ।बिल्वकाश्मर्यतर्कारीपाटलाडुण्डुकैर्महत् ॥ १४६७ ॥
3.4.1467 · p. 177
अनुष्टुप्
पञ्चमूलकमित्येतत् पञ्चमूलं तु मध्यमम् ।बलापुनर्नवैरण्डैः सूक्ष्मपर्णीद्वयेन च ॥ १४६८ ॥
3.4.1468 · p. 177
अनुष्टुप्
तृणाद्यं मूलकं दर्भकाशेक्षुशरशालिभिः ।जीरकद्वितयं हिङ्गु साजमोदं ससैन्धवम् ॥ १४६९ ॥
3.4.1469 · p. 177
अनुष्टुप्
कटुत्रयं चाष्टचूर्णमथ स्यात् पञ्चचूर्णकम् ।चूर्णीपथ्याकुबेराक्षीकैडर्यैर्दीप्यकेन च ॥ १४७० ॥
3.4.1470 · p. 178
अनुष्टुप्
घृतं मधु गुडं चेति यदेतन्मधुरत्रयम् ।नागरेण च पिप्पल्या गुडेन च समत्रिकम् ॥ १४७१ ॥
3.4.1471 · p. 178
अनुष्टुप्
हरिद्राकुष्ठमांसीभिर्मुराशैलेयचम्पकैः ।त्वचाकर्पूरमुस्ताभिः सर्वौषधिकमित्यदः ॥ १४७२ ॥
3.4.1472 · p. 178
अनुष्टुप्
सर्वौषधिकसंयुक्ता संशुष्कामलकीत्वचा ।एतत् सुगन्धामलकमथ स्यात् फलपञ्चकम् ॥ १४७३ ॥
3.4.1473 · p. 178
अनुष्टुप्
बीजपूरकजम्बीरनारङ्गं चाम्लवेतसम् ।तिन्त्रिणीफलमित्येतदथ मूत्राष्टकं गवाम् ॥ १४७४ ॥
3.4.1474 · p. 178
अनुष्टुप्
महिष्यजाविकाश्वानां रासभोष्ट्रकदन्तिनाम् ।टङ्कणं स्यात् क्रामणको लोहसंश्लेषणः कटुः ॥ १४७५ ॥
3.4.1475 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्रा (wrong syllable)
ऋद्धिराश्वासना सिद्धिर्जीवनी चेतना लघुः ।प्राणदा बोधना लक्ष्मीः सुवृद्धिस्तु तदर्थकाः(थिका?) ।रोमाह्वया लता रोमा तरुणी बस्तगन्धिका ॥ १४७६ ॥
3.4.1476 · p. 178
अनुष्टुप्
क्षुद्रदन्ती स्वादुफला श्वित्रिणी सर्वनालिका ।समुद्रफेनः फेनः स्याच्छुष्कं शुष्कपयोभवम् ॥ १४७७ ॥
3.4.1477 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वा (wrong syllable)
श्वेता श्वेतनिका तुल्ये शशोर्णं शशलोमनि ।क्लीबे सिक्थं मधूच्छिष्टं क्षौद्रं तु मधु माक्षिकम् ॥ १४७८ ॥
3.4.1478 · p. 178
अनुष्टुप्
प्रपौण्डरीकं श्रीपुष्पं पुण्ड्राख्यं मूलसाधनम् ।शीतपुष्पं पौण्डरीकं पौण्डर्यं पुण्डरीयकम् ॥ १४७९ ॥
3.4.1479 · p. 179
अनुष्टुप्
सिद्धकस्तीक्ष्णवृक्षश्च मौर्वी तु कवची समे ।पेचकाम्लककार्पासी सिराम्ला चाम्लिका च सा ॥ १४८० ॥
3.4.1480 · p. 179
अनुष्टुप्
विष्णुक्रान्ता नीलपुष्पी शुद्धाख्या शुकनासिका ।ईश्वरी नागदमनी कापाली सर्पगन्धिका ॥ १४८१ ॥
3.4.1481 · p. 179
अनुष्टुप्
प्रत्यक्पुष्पी ब्रह्मदण्डी वाराही नवमालिका ।भृङ्गाह्वस्तु महानीलो महारक्तोऽलकश्च सः ॥ १४८२ ॥
3.4.1482 · p. 179
अनुष्टुप्
आरामशीतला देवगन्धा कुक्कुटमर्दकः ।मांसरोहिण्यतिरुहा वृत्ता चर्मकशा कशा ॥ १४८३ ॥
3.4.1483 · p. 179
अनुष्टुप्
तुङ्गा क्षीरी वंशभवा वंशाख्या तृणकेतकी ।शृङ्गवक्त्रा महाघोषा शृङ्गी कर्कटभृङ्गिका ॥ १४८४ ॥
3.4.1484 · p. 179
अनुष्टुप्
क्षीरशृङ्गी सुषिफला कुलिङ्गा कर्कटाह्वया ।विदा तु विषमेदा स्याद्वयःस्था मधुरा बरा ॥ १४८५ ॥
3.4.1485 · p. 179
अनुष्टुप्
शल्यपर्णी मणिच्छिद्रा महापुरुषगन्धिका ।महामेदा देवमणिर्गन्धमांसी तु रोमशा ॥ १४८६ ॥
3.4.1486 · p. 179
अनुष्टुप्
पिशाची पूतना केशी भूतकेशी जटा च सा ।विलङ्गोऽस्त्री कृमिघ्नः स्यादमोघा चित्रतण्डुला ॥ १४८७ ॥
3.4.1487 · p. 179
अनुष्टुप्
तण्डुलोऽपि शिलावज्रं ग्रहं कालानुपूर्वकम् ।शैलधूमं शैलपुष्पं शैलेयं धार्तराष्ट्रकम् ॥ १४८८ ॥
3.4.1488 · p. 180
अनुष्टुप्
कारवी तु खराश्वा स्यान्मयूरो लोचमस्तकः ।कला तु रोचनी श्यामा चित्रकृष्णा त्रिभण्डिका ॥ १४८९ ॥
3.4.1489 · p. 180
अनुष्टुप्
नखं कोलदलं शुक्तिः खुरः शङ्ख समार्थकाः ।गुडः क्षारोऽस्य विकृतौ मत्स्यण्डी खण्डशर्करा ॥ १४९० ॥
3.4.1490 · p. 180
अनुष्टुप्
फाणितं क्षुद्रकं खण्डमस्त्रियां शर्करा सिता ।बर्हिः पुष्पं ग्रन्थिपर्णं स्थौणेयं कुक्करं शुकम् ॥ १४९१ ॥
3.4.1491 · p. 180
अनुष्टुप्
अथ स्यात् सर्जिकाक्षारः कपोतः सुखवर्चकः ।स्रुघ्निका स्वर्जिका स्वर्जी योगवाही सुवर्चिका ॥ १४९२ ॥
3.4.1492 · p. 180
अनुष्टुप्
काकाण्डः स्याच्चोदनिका कृष्णशिम्बिर्विचक्षणा ।लाक्षा तु तेजनी राक्षा रङ्गमाता पलंकषा ॥ १४९३ ॥
3.4.1493 · p. 180
अनुष्टुप्
जतु द्रुमामयो यावोऽलक्तो रागश्च दीपकः ।एलवालुकमैलेयं सुगन्धि हरिवालुकम् ॥ १४९४ ॥
3.4.1494 · p. 181
अनुष्टुप्
प्रसरेणुस्तु जालार्कमरीचिस्फुरितं रजः ।तेऽष्टौ लिक्षा स्त्रियां ताभिस्त्रिंशता राजसर्षपः ॥ १४९५ ॥
3.4.1495 · p. 181
अनुष्टुप्
ते तु गौरस्त्रयस्ते तु षड्यवस्तच्चतुष्टयम् ।गुञ्जा ताः पञ्च माषस्ते षोडशोऽक्षः स कर्षकः ॥ १४९६ ॥
3.4.1496 · p. 181
अनुष्टुप्
स सुवर्णो हेमकर्षे पलं कर्षचतुष्टयम् ।समौ विस्तसुवर्णौ द्वौ कुरुविन्द(स्त?)स्तु तत्पले ॥ १४९७ ॥
3.4.1497 · p. 181
अनुष्टुप्
तुला पलशतं ताभिर्विंशत्या भार एव तैः ।आचितः पुंसि दशभिः शाकटो भार आचितः ॥ १४९८ ॥
3.4.1498 · p. 181
अनुष्टुप्
कार्षापणः कार्षिकः स्यात्ताम्रिके कार्षिके पणः ।व्रीहिभिस्त्रिसहस्त्रैर्ना कुडुबस्तच्छतोत्तरैः ॥ १४९९ ॥
3.4.1499 · p. 181
अनुष्टुप्
ते चत्वारोऽस्त्रियां प्रस्थ आढकस्तच्चतुष्टयम् ।तौ द्वौ शिवस्तौ द्रोणस्तौ खारी वाहो निकुञ्चकः ॥ १५०० ॥
3.4.1500 · p. 181
अनुष्टुप्
इत्यतः परिमाणार्था बहवस्ते पृथक् पृथक् ।परिदानं परीवर्तो नैमेयो निमय एकार्थाः ॥ १५०१ ॥
3.4.1501 · p. 181
अनुष्टुप्metre not read in every line
नीवी परिपणमेषां मूलधनेऽथाधिकं फलं लाभः ।स्त्रियां वणिज्या वाणिज्यं व्यवहारो ग्लहः पणः ॥ १५०२ ॥
3.4.1502 · p. 182
अनुष्टुप्metre not read in every line
वस्नोऽर्घोऽवक्रयो मूल्यं विक्रयः प्रक्रयः पणः ।विपणः पणयस्त्वाधिर्बन्धोऽथायो धनागमः ॥ १५०३ ॥
3.4.1503 · p. 182
अनुष्टुप्
पण्याजीवः सार्थवाहो वैदेहो वाणिजो वणिक् ।नैगमश्च प्रापणिकः क्रयविक्रयिकोऽपि सः ॥ १५०४ ॥
3.4.1504 · p. 182
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 प्रा (wrong syllable)
क्रयिकः क्रायिकः क्रेता तद्वद्विक्रयिकादयः ।क्रये प्रसारितं क्रय्यं क्रेतव्ये क्रेयमित्यदः ॥ १५०५ ॥
3.4.1505 · p. 182
अनुष्टुप्
विक्रेयं पणितव्यं स्यात् पण्यं क्रय्यादयस्त्रिषु ।व्यतीहारो विनिमयो विक्रयो भर्म वेतनम् ॥ १५०६ ॥
3.4.1506 · p. 182
अनुष्टुप्
भरण्यं भरणं मूल्यं पणो भृत्या विधा भृतिः ।कर्मण्याप्यथ रोषाणो हेमादिनिकषोपलः ॥ १५०७ ॥
3.4.1507 · p. 182
अनुष्टुप्
सत्यंकारः स्त्रियां सत्याकृतिः सत्यापनं च तत् ॥ १५०८ ॥
3.4.1508 · p. 182