वाणिज
vāṇijaपुं · masc.In 16 kośas: 14 synonym verses, 6 as a meaning of another word.
सत्यानृतं तु वाणिज्यं वणिज्या वाणिजो वणिक् ।क्रयविक्रयिकपण्याजीवापणिकनैगमाः ॥ ८६७ ॥वैदेहः सार्थवाहश्च क्रायकः क्रयिकः क्रयी ।क्रेयदे तु विपूर्वास्ते मूल्ये वस्नार्घवक्रयाः ॥ ८६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderपुंmasc.
वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ।पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
छा(छ?)गलश्छागलश्छागस्तथा छगलको भवेत् ।वैदेहकः स्याद्वैदेहो वाणिजो वणिगुच्यते ॥ २४२ ॥
अनुष्टुप्
genderपुंmasc.
वणिक् तुला वाणिजश्च वृश्चिकोऽलिसरीसृपः ।चापो धनुश्च धनुषो कोदण्डकार्मुकोऽपि च ॥ ३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ण्ड (wrong syllable)
genderपुंmasc.
स्यान्नागरो नैगमोऽपि वाणिजोऽपि वणिक् पणिः ।नीवी परिपणं चापि भाण्डं नीविरपि स्त्रियाम् ॥ ४७९ ॥
अनुष्टुप्
genderपुंmasc.
सर्जूः स्त्री वाणिजवणिक्तुलाधारश्च नीवरः ।क्रयिको नैगमः सार्थवाहो विक्रयिकश्च सः ॥पण्याजीवो ह्यापणिकः क्रयविक्रयिकोऽपि सः ।वैदेहिको वस्निकश्च क्रायिकः क्रयिकः क्रयी ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
पण्याजीवश्चापणिको नैगमो वाणिजोऽपि च ।क्रयविक्रयिकः कर्ता चाथ विक्रयकारिणि ॥ ५१२ ॥
अनुष्टुप्
genderपुंmasc.
वैदेहिकश्चापणिको नैगमो वाणिजो वणिक् ।पण्याजीवः सार्थवाहः क्रयविक्रयिकः क्रयी ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
वाणिजः सार्थवाहश्च वणिक् क्रयविक्रयिकः ।पण्याजीव आपणिको वैदेहश्च प्रापणिकः ॥ १४४९ ॥
metre not recognised
genderपुंmasc.
ग्राम्याश्चः शङ्कुकर्णः स्याद् बालेयो वनरूषितः (?) ।वणिग्वैदेहकः सार्थवाह-नैगमवाणिजाः ।वाणिजको वाणिजिको वाणिज्यकार इत्यपि ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वणिज्या वणिज्यं क्रयविक्रयिके तु वाणिजः ।वणिक् प्रापणिकः प्रोक्त आङ्पराः पणिकस्तथा ॥ ३१७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पण्याजीवः सार्थवाहो वैदेहो वाणिजो वणिक् ।नैगमश्च प्रापणिकः क्रयविक्रयिकोऽपि सः ॥ १५०४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 प्रा (wrong syllable)
genderपुंmasc.
वडवाग्निस्तु सलिलेन्धनः स्याद्वडवामुखम् ।काकध्वजो वाणिजश्च स्कन्धाग्निः स्थूलकाष्ठधृक् ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
पण्याजीवः सार्थवाहो नैगमो वाणिजो वणिक् ।वैदेहकः प्रापणिकः क्रयविक्रयिकोऽपि च ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
वाणिज as a meaning in nānārtha verses
- धरणिकोश विनीतविनीतमुपनीतं स्यादपनीते जितेन्द्रिये । वाणिजे निभृते चैव विनीतः सुवहे हये ॥ Dharaṇikośa 15.3.25
- कोषकल्पतरु सर्जूमन्थे प्रहस्ते च खजाऽथ पिञ्जो वधे **ण्यां च गुणैः प्रदिष्टः । खर्जूः स्त्री खर्जूरे कण्ड्वां कीटेऽथ मर्जूः स्त्री । रजके शुद्धौ सर्जू रुद्रे स्वर्गे च वाणिजे तडिति ॥ ३० ॥ Koṣakalpataru 6.7.30
- कोषकल्पतरु नैगमयमे प्रतिज्ञासु च यन्त्रणायां वेदे पुरे स्यान्निगमः कटे च । वणिक्पथे वाणिजके तथोक्तो- ऽथो[33b]नैगमो वाणिजनागरार्थः ॥ ८५ ॥ Koṣakalpataru 6.25.85
- कोषकल्पतरु नीवरपुंसि वास्तव्यके वाणिजे नीवरो गह्वरं कन्दरे कैतवे संकटे । भक्तसिक्थे यमे यक्ष्मके केसरे कौत्सिताम्बे दृढे( ? )पार्परो भस्मनि ॥ ३४ ॥ Koṣakalpataru 6.27.34
- नानार्थार्णवसंक्षेप जित्वरीअग्नौ च जित्वरे तु त्रिर्जित्वा त्विन्द्रेऽपि योद्धरि । ना स्त्री तु जित्वरी नद्यां वाराणस्यां च वाणिजाः ॥ ४८१ ॥ Nānārthārṇavasaṃkṣepa 2.5.481
- शब्दरत्नावली निगमनिगमो वाणिजे वेदे कटे पूर्यां वणिक्पथे । नियमश्च प्रतिज्ञायां मन्त्रणानिश्चयव्रते ॥ Śabdaratnāvalī 7.25.37