कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विडाल

viḍālaपुं · masc.

In 6 kośas: 6 synonym verses, 2 as a nānārtha head word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.236 · p. 29
ओतुर्विडालो मार्जारो वृषदंशश्च कथ्यते ।जाहको गात्रसङ्कोची मण्डली च बुधैः स्मृतः ॥ २३६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.569 · p. 195
विडालोऽस्त्री चित्रगन्धो हरितालोऽपि तालकः ।चित्राङ्गं पिञ्जरं क्लीबे गौरं च नटमण्डनम् ॥ ५६९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.19 · p. 319
जाहकः कुन्दमो ह्रीकुर्विडालो वृषदंशकः ।मार्जार ओतुस्तद्भेदा देशभेदादथापरः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2350 · p. 380
मार्जारश्च बिडालः स्याद् विडालो वृषदंशकः ॥ २३५० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.14 · p. 82
उल्कामुखी दीप्तजिह्वा किखिर्लोमालिकापि च ।विडाल-ओतुर्मार्जारो दीप्ताक्षो वृषदंशकः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सिंहादिवर्गः Trikāṇḍaśeṣa 2.5.8 · p. 44
लोपाशिका दीप्तजिह्वा किखिरुल्कामुखी च सा ।विडालः कुन्दमो नक्तचारी दीप्ताक्षजाहकौ ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास लपादः Dharaṇikośa 27.1.10 · p. 189
कुद्दालो युगपत्रेऽपि लाङ्गुलं मेहनेऽपि च ।विडालो नेत्रपिण्डेऽपि चूडाला चोच्चटापि च ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.93 · p. 283
विडालोऽस्त्री नेत्रपिण्डे पुंसि मार्जारकेऽपि च ।विशाला त्विन्द्रवारुण्यामुज्जयिन्यामपि स्त्रियाम् ॥
अनुष्टुप्