कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

लान्ताः · लपादः

॥ इति रान्तवर्गः ॥

॥ लपादः ॥

शुक्लौ योगावदातौ स्तः स्थूलौ निष्प्रज्ञपीवरौ ।भल्लो भाल्लुकबाणौ स्त ओल्ल आर्द्रे च सूरणे ॥
27.1.1 · p. 187
अनुष्टुप्
शीलं स्वभावं सद्वृत्तं चालः स्यात्कम्पनं छदिः ।चलः कम्पश्चला लक्ष्मीश्चेलं गर्हितव[89]स्त्रयोः ॥
27.1.2 · p. 188
अनुष्टुप्
दलं खण्डे दलं पर्णे डुलिः स्यात्कमठी मुनौ ।छलं स्यात्स्खलितं छद्म पलं सम्मानमांसयोः ॥
27.1.3 · p. 188
अनुष्टुप्
लीला विलासक्रिययोर्हेलावज्ञाविलासयोः ।आलिः सेतुः सखी पङ्क्तिः पल्ली ग्रामकुटी तथा ॥
27.1.4 · p. 188
अनुष्टुप्
धूली संख्यान्तरे पांसौ दोला यानं च सीविका ।आभीलं भीषणे कृच्छ्रे कीलालमसृगम्बुनोः ॥
27.1.5 · p. 188
अनुष्टुप्
पेशलं चतुरे चारौ पुद्गलो वपुरात्मनोः ।कल्लोलौ रिपूल्लोलौ सरलौ वृद्धपापकौ ॥
27.1.6 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 क (syllables merged)
कोमलं मृदुले तोये निस्तलं वर्तुले चले ।उज्ज्वलौ दीप्तशृङ्गारौ तमालौ खड्गपादपौ ॥
27.1.7 · p. 189
अनुष्टुप्
जम्बुलौ केतकीजम्बू जम्बालौ पङ्कशैवलौ ।जटिला पिप्पलीमांस्योः पिच्छिलौ विजिलझावुकौ ॥
27.1.8 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शैवलं पद्मकाष्ठे च कमलं चातकेऽपि च ।अञ्जलिः कुडवेऽपि स्याच्छ्रद्धालुर्दोहदिन्यपि ॥
27.1.9 · p. 189
अनुष्टुप्
कुद्दालो युगपत्रेऽपि लाङ्गुलं मेहनेऽपि च ।विडालो नेत्रपिण्डेऽपि चूडाला चोच्चटापि च ॥
27.1.10 · p. 189
अनुष्टुप्
बहुफलस्तु वृक्षेऽपि गोलाङ्गलः कपावपि ।पोटगलाः स्मृताः काशा बृहन्नलौ नलार्जुनौ ॥
27.1.11 · p. 189
metre not recognised