जाहक
jāhakaपुं · masc.In 12 kośas: 12 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.
जाहको गात्रसंकोची मण्डली नकुलः पुनः ।पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः ॥ १३०२ ॥भोगी भुजंगभुजगावुरगो द्विजिह्वव्यालौ भुजंगमसरीसृपदीर्घजिह्वाः ।काकोदरो विषधरः फणभृत्पृदाकुर्दृक्कर्णकुण्डलिबिलेशयदन्दशूकाः ॥ १३०३ ॥दर्वीकरः कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ ।कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद्राजसर्पस्तु भुजंगभोजी ॥ १३०४ ॥
अनुष्टुप्
जाहकपुंगात्रसंकोचिन्पुंमण्डलिन्पुंनकुलपुंपिङ्गलपुंसर्पहन्पुंबभ्रुपुंसर्पपुंअहिपुंपवनाशनपुंभोगिन्पुंभुजंगपुंभुजगपुंउरगपुंद्विजिह्वपुंव्यालपुंभुजंगमपुंसरीसृपपुंदीर्घजिह्वपुंकाकोदरपुंविषधरपुंफणभृत्पुंपृदाकुपुंदृक्कर्णपुंकुण्डलिन्पुंबिलेशयपुंदन्दशूकपुंदर्वीकरपुंकञ्चुकिन्पुंचक्रिन्पुंगूढपाद्पुंपन्नगपुंजिह्मगपुंलेलिहानपुंकुम्भीनसपुंआशीविषपुंदीर्घपृष्ठपुंराजसर्पपुंभुजंगभोजिन्पुं
genderपुंmasc.
ओतुर्विडालो मार्जारो वृषदंशश्च कथ्यते ।जाहको गात्रसङ्कोची मण्डली च बुधैः स्मृतः ॥ २३६ ॥
अनुष्टुप्
genderपुंmasc.
जाहकः कुन्दमो ह्रीकुर्विडालो वृषदंशकः ।मार्जार ओतुस्तद्भेदा देशभेदादथापरः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
हालिनी तत्र स्थूलायां ब्राह्मणी रक्तपुच्छिका ।जाहको गात्रसंकोची सर्पारिः कामरूप्यपि ॥ ६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्र (wrong syllable)
genderपुंmasc.
जाहको गात्रसंकोची मण्डली शल्यकः पुमान् ।सूचीधृक् सूचकी श्वाविच्छ*लः शललं शली ॥ २५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
जाहको गात्रसंकोची मण्डली नखरायुधः ।पशुस्तु मुलको मोकः कुवः शुद्धजडश्चरिः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
बिडालोतू तथा ह्रीकुर्मार्जारो वृषदंशकः ।मण्डली जाहको गात्रसंकोची नकुलः पुनः ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
मण्डली गात्रसङ्कोची जाहकश्चापि ज्ञायताम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable)
genderपुंmasc.
नक्तञ्चरी जाहकः स्यादाखुभुक् च विडारकः ।खटराशी च नाखुः स्यात् शशकः प्रतिशालिजः ॥
अनुष्टुप्
genderपुंmasc.
औरभ्रकमुरभ्राणामजानामाजकं गणः ।मार्जारो जाहको मर्को बिडालो वृषदंशकः ॥ ७७९ ॥
अनुष्टुप्
genderपुंmasc.
लोपाशिका दीप्तजिह्वा किखिरुल्कामुखी च सा ।विडालः कुन्दमो नक्तचारी दीप्ताक्षजाहकौ ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
जाहको गात्रसंकोची मण्डली नखरायुधः ।पशुस्तु मलुको मोकः कपः शुद्धजडश्चरिः ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
अथात्र रभसेनोक्तं जाहको द्वे बिडालके ।ना तु कारुण्डिकायां च घोङ्घे चेति महाधिया ॥ ७९० ॥
अनुष्टुप्
जाहक as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप गात्रसङ्कोचिन्द्वयोस्तु गात्रसङ्कोची जाहकाख्येषु जन्तुषु । गात्रं सङ्कोचयेद्यश्च तच्छीलस्तत्र स त्रिषु ॥ ४९ ॥ Nānārthārṇavasaṃkṣepa 7.49