All kośas › Trikāṇḍaśeṣa
त्रिकाण्डशेष Trikāṇḍaśeṣa
1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)
द्वितीयः काण्डः · सिंहादिवर्गः
इति वनौषधिवर्गः ॥ ४ ॥
सिंहः कण्ठीरवो भीमविक्रान्तः करिमाचलः ।पञ्चशिखश्च शैलाटः पारीन्द्रः श्वेतपिङ्गलः ॥ १ ॥
2.5.1 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable)
मरुत्प्लवश्च नादोऽस्य चुक्कारः क्ष्वेडितं च तत् ।उत्पादकस्तु शरभः शार्दूलोऽष्टापदश्च सः ॥ २ ॥
2.5.2 · p. 43
अनुष्टुप्
अथ हिंस्रपशुर्व्याडः श्वापदः शिबिरित्यपि ।बाघ्नीणसस्त्वेकचरो गणोत्साहश्च गण्डकः ॥ ३ ॥
2.5.3 · p. 43
अनुष्टुप्
हिंसारुः श्वापदो व्याघ्रे महिषस्तु रजस्वलः ।दंशभीरुर्जरन्तश्च लालिको यमवाहनः ॥ ४ ॥
2.5.4 · p. 43
अनुष्टुप्
अथ शूकरे वनाहिरदन्तायुधवक्रवज्रदीर्घरदाः ।सूचीरोमा बहुसूराखनिकः स्थूलनासिको भूक्षित् ॥ ५ ॥
2.5.5 · p. 44
गीतिः
एणः कुरङ्गमो रिश्यः स्यादृश्यश्चारुलोचनः ।गोलाङ्गूले कपित्थास्यदधिशोणनगाटनाः ॥ ६ ॥
2.5.6 · p. 44
अनुष्टुप्
लोपाशिका दीप्तजिह्वा किखिरुल्कामुखी च सा ।विडालः कुन्दमो नक्तचारी दीप्ताक्षजाहकौ ॥ ८ ॥
2.5.8 · p. 44
अनुष्टुप्
शशकस्तु वनाखुः स्यात्खट्टाशी पूतिशालिका ।गवयस्तु गवानूक एडकः शिशुवाह्यकः ॥ ९ ॥
2.5.9 · p. 44
अनुष्टुप्
वनच्छागोऽथ गन्धौतुः खट्टाशो वनवासनः ।उन्दुरुस्तुटुमो रन्ध्रबभ्रुर्दीना तु मूषिका ॥ १० ॥
2.5.10 · p. 44
अनुष्टुप्
स्याच्चिको वेश्मनकुलः पुंवृषो गन्धमूषिकः ।स्याद्वेदारः क्रकचपात्कृकलाशस्तृणाञ्जनः ॥ ११ ॥
2.5.11 · p. 45
अनुष्टुप्
प्रतिसूर्योऽप्याञ्जनस्तु चित्रकोलो हलाहलः ।कारस्कराटिका कर्णजलौका स्यादथो वटिः ॥ १२ ॥
2.5.12 · p. 45
अनुष्टुप्
उत्पादिको देहिका स्यादष्टपादस्तु किन्तनुः ।प्रासादकुक्कुटो झिल्लीकण्ठो गृहकपोतकः ॥ १३ ॥
2.5.13 · p. 45
अनुष्टुप्
पारावतोऽथ शक्राख्यो दिवान्धो वक्रनासिकः ।हरिनेत्रो दिवाभीतो नखाशी पीयुघर्घरौ ॥ १४ ॥
2.5.14 · p. 45
अनुष्टुप्
काकभीरुर्नक्तचारो कणाटीनस्तु खञ्जनः ।काकच्छदः खञ्जखेलस्तातलो मुनिपुत्रकः ॥ १५ ॥
2.5.15 · p. 45
अनुष्टुप्
भद्रनामा रतनिधिः काष्ठकुट्टः शतच्छदे ।दीर्घपात्रस्तु कङ्कः स्याद्गलगण्डस्तु मर्कटः ॥ १६ ॥
2.5.16 · p. 45
अनुष्टुप्
चातके बभ्रुवापीहघनतालत्रिशङ्कवः ।वर्षप्रियोऽथ मेघावी चिरिः कीरः पलाशनः ॥ १७ ॥
2.5.17 · p. 45
अनुष्टुप्
कुक्कुटस्तु विवृताक्षो रात्रिवेदी कलाविकः ।उषाकलोऽथ ताम्राक्षः काकपुष्टः कुहूमुखः ॥ १८ ॥
2.5.18 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वृ (wrong syllable)
मधुकण्ठो घोषयित्नुः कामतालः सुतार्दनः ।काको रतज्वरः सूत्री श्रावको गूढमैथुनः ॥ १९ ॥
2.5.19 · p. 46
अनुष्टुप्
कारवः परमृत्युश्च लुण्टाको मौकुलिर्द्विकः ।शक्रजः सत्यवाक्काणोऽपकृष्टो नगरीवकः ॥ २० ॥
2.5.20 · p. 46
अनुष्टुप्
ऐन्द्रिश्च नाडीजङ्घोऽथ गृध्रः स्याद्दूरदर्शनः ।शितिकण्ठस्तु दात्यूहः काकमद्गुः कगेटुरः ।चिरम्भणस्तु चिल्लः स्यात्खभ्रान्तिः कण्ठनीडकः ॥ २१ ॥
2.5.21 · p. 46
अनुष्टुप्
सूक्ता मदनशलाका चित्राक्षी शालिकाऽवचण्डा च ।शकुनज्ञा तु ज्येष्ठा गृहोलिकाष्टाट्टनी मूली ॥ २२ ॥
2.5.22 · p. 46
आर्या
दीर्घजङ्घो निशैडः स्याद्वकोटः शुक्लवायसः ।कङ्केरुद्वारबलिभुक्छिखी चन्द्रविहङ्गमः ॥ २३ ॥
2.5.23 · p. 46
अनुष्टुप्
बकेरुका बलाका स्यात्कुररो मत्स्यनाशनः ।द्वन्द्वचारी चक्रवाकः सारसस्तु कलाङ्कुरः ॥ २४ ॥
2.5.24 · p. 47
अनुष्टुप्
गोनर्दश्चित्रपक्षस्तु तित्तिरिः स्यात्कपिञ्जलः ।लघुमांसो मयूरस्तु चन्द्रकी चित्रमेखलः ॥ २५ ॥
2.5.25 · p. 47
अनुष्टुप्
प्रचलाकी सितपार्गंशिखावलगलव्रताः ।मार्जारकण्ठोऽथ तिलमयूरः स्यात्कुरुण्टकः ॥ २६ ॥
2.5.26 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
झम्पाशनो मीनरङ्को नासाच्छिन्ना तु पूर्णिका ।पिपीलिका तु हारी स्याद्यमकीटस्तु घुर्घुरः ॥ २७ ॥
2.5.27 · p. 47
अनुष्टुप्
स्यान्मर्कटस्तु शलक आशाबन्धोऽस्य जालके ।फालखेलागरुद्गोधा भारती व्योमनासिका ॥ २८ ॥
2.5.28 · p. 47
अनुष्टुप्
चञ्चुसूचिस्तु सुगृहः पीततुण्डोऽथ सर्षपी ।हापुत्रिका खञ्जनिका तुलिकास्फोटिके समे ॥ २९ ॥
2.5.29 · p. 47
अनुष्टुप्
करटुर्व्याधनः कर्चूर्नरः कूणिश्च वाग्गुदः ।वर्तिका विष्णुलिङ्गी स्याल्लावको लघुजङ्गलः ॥ ३० ॥
2.5.30 · p. 47
अनुष्टुप्
सरःकाकस्तु हंसः स्याज्जालपात्पुरुदंशकः ।गोभण्डीरः पङ्ककीरः कोयष्टिर्जलकुक्कुभः ॥ ३१ ॥
2.5.31 · p. 48
अनुष्टुप्
जीवञ्जीवो विषमृत्युर्जीवजीवोऽथ मक्षिका ।माचिका भम्भराली च दंशः स्याद्भाम्भरालिकः ॥ ३२ ॥
2.5.32 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable)
भाङ्कारी चर्मचट्यां तु जतुनी गृहमाचिका ।विषसृक्को भृङ्गरोलो वरोलस्तृणषट्पदः ॥ ३३ ॥
2.5.33 · p. 48
अनुष्टुप्
वरटी तु वरोली स्याद्ब्राह्मण्यथ तमोमणिः ।ध्वान्तोन्मेषश्च खद्योतो ज्योतिर्बीजो निमेषरुक् ॥ ३४ ॥
2.5.34 · p. 48
अनुष्टुप्
भ्रमरश्चञ्चरीकः स्याद्रोलम्बो मधुसूदनः ।इन्दिन्दिरः पुष्पकोटो मधुदो मधुकेशटः ॥ ३५ ॥
2.5.35 · p. 48
अनुष्टुप्
रेणुवासोऽथ मशको घोषो रणरणश्चसः ।पक्षी तु नाडीचरणः स्याच्चञ्चभृदनेकजः ॥ ३६ ॥
2.5.36 · p. 48
अनुष्टुप्
स्युः खगोत्पतवारङ्ककण्ठाग्निव्योमचारिणः ।युगलद्वन्द्वयुग्मानि युगं यमलयामले ॥ ३७ ॥
2.5.37 · p. 48
अनुष्टुप्