कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वृक्षक

vṛkṣakaपुं · masc.

In 6 kośas: 5 synonym verses, 1 as a nānārtha head word.

बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.219 · p. 86
वन्दारो वृक्षको वन्द्या जीवन्त्यपि च रोहिणी ।वृक्षादनी वृक्षरुहा सेव्यास्मिन् क्षीरवृक्षजे ॥ २१९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.26 · p. 154
काही च गिरि[35a]मल्ली स्त्री कुटजी त्वेष तुच्छकः ।वरतिक्तः शक्रनामा वृक्षकः पाण्डुपादपः ॥ २६ ॥
metre not recognised
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.16 · p. 11
वृक्षको मल्लिकापुष्पः कलिङ्गः पाण्डुरद्रुमः ।इन्द्रवृक्षो यवफलो दीप्तभद्रोडुमल्लिका ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.35 · p. 12
कानने वृक्षकं वार्क्ष्यं जटिलो बहुपाद्वटे ।कामाङ्कः स्त्रीप्रियश्चूतः कपिचूतः कपिप्रियः ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.84 · p. 52
सुषेणो विग्नकोऽप्यल्पफलेऽस्मिन् करमर्दिका ।वन्दाके वृक्षको वन्दा जीवन्त्यपदरोहिणी ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.51 · p. 5
बीजपूरे पीतसारे वृक्षकः कुटजे धवे ।स्त्रियां तु कन्दरोहिण्यां वृषकस्त्वटरूषके ॥ ५१ ॥
अनुष्टुप्