All kośas › Nāmamālikā
नाममालिका Nāmamālikā
314 verses · 2,274 words tagged · 502 marked doubtful (dashed)
भूम्यादिनामधेयप्रकरणम् (1/3)
इति नाममालिकायामहिराजेनैव संगृहीतायां गगनादिनामधेयप्रकरणमिदमखिलसुकविमतम् ॥
भूम्यादिनामधेयप्रकरणम् ।
वसुन्धरा रत्नगर्भा धारुणी धरणी धरा ।धारिणी भूतधात्री च विश्वधात्री क्षमा सहा ॥ १ ॥
3.1 · p. 8
अनुष्टुप्
वर्तुलं वलयं वृत्तं मण्डलं चक्रवालकम् ।विन्ध्योत्तरपदे तु स्यादुत्तरापथसंज्ञिकः ॥ २ ॥
3.2 · p. 8
अनुष्टुप्
चोलस्तु दक्षिणे देशे काञ्चीदेशस्तु पल्लवः ।समुद्रे तु नदीनाथः शैवलाकरनीरधी ॥ ३ ॥
3.3 · p. 8
अनुष्टुप्
कान्ताधरसखा कल्यः कश्याब्धौ तु सुरालयः ।उन्मादको दुराधर्षः सर्पिरब्धौ तु सार्पिषः ॥ ६ ॥
3.6 · p. 9
अनुष्टुप्
तेजोनिधिर्मदकरो दधिवार्धिस्तु दौब्धिकः ।कलपुः प्रातराहारः कमलावल्लभप्रियः ॥ ७ ॥
3.7 · p. 9
अनुष्टुप्
क्षीरोदे कलशाब्धिः स्यान्मधुरो माधवालयः ।लक्ष्मीगुरुर्वदान्यश्च हरिश्वशुर इष्यते ॥ ८ ॥
3.8 · p. 9
अनुष्टुप्
सुधाजनयिता साधुः सुराहारप्रदोऽनघः ।शुद्धोदे निर्मलः शुद्धो मेघोन्मादकरोऽनघः ॥ ९ ॥
3.9 · p. 9
अनुष्टुप्
जम्बूद्वीपे महाद्वीपः कुमारः पर्वतालयः ।षट्पञ्चाशद्देशग्रहः समस्तद्वीपनायकः ॥ १० ॥
3.10 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
सुवर्णनिलयो रत्नी प्लक्षद्वीपे शिलामयः ।सुवर्णवालुकाधारः सुस्थिरः सूर्यवल्लभः ॥ ११ ॥
3.11 · p. 9
अनुष्टुप्
कुशद्वीपे कुलीनः स्यात्कुसारनिधिरिष्यते ।कौशिकः कङ्कटीकः स्यात्कणादवसतिः स्मृतः ॥ १२ ॥
3.12 · p. 9
अनुष्टुप्
क्रौञ्चद्वीपे महाभोगः पञ्चास्यजननालयः ।काञ्चनाद्रिः करीणः स्याच्चञ्चलानिलयः स्मृतः ॥ १३ ॥
3.13 · p. 9
अनुष्टुप्
शाल्मलः शाल्मलीद्वीपे शाक्यः कौस्तुभसंभवः ।अष्टादशेषु द्वीपेषु पर्यायेण जनाश्रयाः ॥ १४ ॥
3.14 · p. 10
अनुष्टुप्
वस्तुसंभारनिलयाश्चीनसिंहलनामकाः ।जाम्बूनदे तु कुलुकुगाल्वजाल्वातिमोहनम् ॥ १५ ॥
3.15 · p. 10
अनुष्टुप्
हाटकं भद्रकं चन्द्रं कर्णीकुसुमजप्रभम् ।कनकं रसबीजं स्याद्गन्धकोद्भवमभ्रकम् ॥ १६ ॥
3.16 · p. 10
अनुष्टुप्
दशवर्णे सुवर्णे श्रीः पञ्चवर्णे तु रैः स्मृतम् ।तुङ्गं तु द्वादशे वर्णे कुदणं षोडशे स्मृतम् ॥ १७ ॥
3.17 · p. 10
अनुष्टुप्
शतवर्णे शातकुम्भं मेरु साहस्रवर्णके ।रूप्ये तु रजतं शुभ्रं दुर्वर्णं कलधौतकम् ॥ १८ ॥
3.18 · p. 10
अनुष्टुप्
पादभूषार्हकं तारं वैढिकं विमलं स्मृतम् ।आरकूटे तु रीतिः स्त्री सुवर्णवलिनं स्मृतम् ॥ १९ ॥
3.19 · p. 10
अनुष्टुप्
नीचं द्राविडभूषार्हं पैत्तलं पित्तहेतुकम् ।राजरीत्यां ब्रह्मरीतिः स्वर्णरीतिर्महेश्वरी ॥ २० ॥
3.20 · p. 10
अनुष्टुप्
वङ्गं सीसं च योगेष्टं त्रपु स्यान्मुखभूषणम् ।अयः कृष्णायसं लोहं तीक्ष्णं कालायसं मतम् ॥ २१ ॥
3.21 · p. 10
अनुष्टुप्
मन्दप्रियं च कठिनमयस्कान्ते त्वयोमणिः ।रत्नं तु रत्नसामान्ये मणिर्माणिक्यमेव च ॥ २२ ॥
3.22 · p. 10
अनुष्टुप्
मण्यं मणिकं शबलमनर्घं जीवरत्नकम् ।दाक्षायणं रत्नवरं तत्तु जम्बूनदीभवम् ॥ २३ ॥
3.23 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 णि (wrong syllable)
पद्मरागे रविमणिः कुरुविन्दं तु कोरकम् ।पक्वदाडिमबीजाभं माणिक्यं शिखरं मतम् ॥ २४ ॥
3.24 · p. 11
अनुष्टुप्
इन्द्रनीले मसारं स्यान्महानीलं महोपलम् ।तद्भेदे तु तृणग्राही तत्पारावतमुच्यते ॥ २५ ॥
3.25 · p. 11
अनुष्टुप्
विडूरजे विडुरजं प्रावृड्जं वालवायजम् ।श्यामं मरकतं पक्ष्यं स्निग्धं मसृणमुच्यते ॥ २६ ॥
3.26 · p. 11
अनुष्टुप्
गोमेधिकं मेधिकं स्याद्भुर्जरं घसृणं स्मृतम् ।मुक्तामणिः शौक्तिकेयं श्वेतद्वीपभवं वसुः ॥ २७ ॥
3.27 · p. 11
अनुष्टुप्
माणिक्यं पौष्यकं शङ्खः पुलको विमलादयः ।शैलोऽगः पर्वतः क्ष्माभृत्सानुमान्दुर्गमो गिरिः ॥ २८ ॥
3.28 · p. 11
अनुष्टुप्
कुध्रः कुत्कीलबन्धाकी फलिगस्तु शिलोच्चयः ।चित्रकूटः सुवेले स्यात्त्रिकूटस्त्रिककुत्समः ॥ २९ ॥
3.29 · p. 11
अनुष्टुप्
परापरश्चक्रवालो लोकान्तो लोकवीक्षणः ।मलयस्त्रिकलाषाढौ विन्ध्यस्तु जलवालकः ॥ ३० ॥
3.30 · p. 11
अनुष्टुप्
हिरण्यनाभो मैनाकः सुदारुः पारियात्रिकः ।माल्यवांस्तु प्रस्रवणो हिमवांस्तु हिमालयः ॥ ३१ ॥
3.31 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
रजताद्रिश्च कैलासो हराद्रिर्महिषश्च सः ।वेङ्कटो वृषभः सिंहः केसरः केशवप्रियः ॥ ३२ ॥
3.32 · p. 12
अनुष्टुप्
उदयः प्रातरद्रिः स्यात्पराद्रिः पश्चिमाचलः ।गैरिकं पीतधातुः स्यात्कुनटी तु मनःशिला ॥ ३३ ॥
3.33 · p. 12
अनुष्टुप्
रोचनी रञ्जनी हृद्या रसनेत्रा महारसा ।करवीरकरा विद्युन्नागजिह्वा मनोऽभिधा ॥ ३४ ॥
3.34 · p. 12
अनुष्टुप्
कानने वृक्षकं वार्क्ष्यं जटिलो बहुपाद्वटे ।कामाङ्कः स्त्रीप्रियश्चूतः कपिचूतः कपिप्रियः ॥ ३५ ॥
3.35 · p. 12
अनुष्टुप्
श्रीवृक्षः श्यामलोऽश्वत्थः प्लक्षश्चलदलोऽङ्गुलः ।उदुम्बरः प्राणिफलो मशकी हेमदुग्धकः ॥ ३६ ॥
3.36 · p. 12
अनुष्टुप्
पलाशो किंशुकः पर्णो वातपोतस्त्रिपर्णकः ।बिल्वे मालूरमाङ्गल्यौ नारङ्गे तक्रवासनः ॥ ३७ ॥
3.37 · p. 12
अनुष्टुप्
बीजपूरे मातुलुङ्गो लुङ्गः सुफलपूरकौ ।अथात्यम्ला मातुलुङ्गी पूतिपुष्पी वृकाम्लिका ॥ ३८ ॥
3.38 · p. 12
अनुष्टुप्
छन्ने तु करको वृक्षो मल्लिकाकुसुमप्रियः ।स्त्रीप्रियो वञ्चुलोऽशोकः कङ्केलिः कर्णपूरकः ॥ ३९ ॥
3.39 · p. 12
अनुष्टुप्
हेमपुष्पोऽप्यथोऽङ्कोलः सिद्धौषधफलोदयः ।द्रोहग्राहे तु कतको द्रावणः स्रवरःसराः ॥ ४० ॥
3.40 · p. 13
अनुष्टुप्
उल्लेखनीयो लक्ष्मीवांस्तेरस्तोयप्रसूदनः ।गुग्गुलौ कालनिर्यासो देवधूपो महेश्वरः ॥ ४१ ॥
3.41 · p. 13
अनुष्टुप्
कामः पुरो जटायुश्च कुम्भोलूखलकं वरम् ।शोभाञ्जने तीक्ष्णगन्धः शिग्रुकाक्षिबमोचकाः ॥ ४२ ॥
3.42 · p. 13
अनुष्टुप्
कृष्णे मरुङ्गी रक्तेऽस्मिन्मधुशिग्रुः सुभञ्जनः ।वासन्ते स्यात्कुरवको मदनो धूर्तनामकः ॥ ४३ ॥
3.43 · p. 13
अनुष्टुप्
बालपत्रे तिक्तसारः खदिरो दन्तधावनः ।तिलके पुलकः श्रीमान्सुगन्धो मुखमण्डनः ॥ ४४ ॥
3.44 · p. 13
अनुष्टुप्
निम्बे पार्वतकैडर्यद्वेषिच्छर्दनमाथिकाः ।हलिः पृथुच्छदः शाकः पुत्रजीव्यक्षकः फलः ॥ ४५ ॥
3.45 · p. 13
अनुष्टुप्
महामुनिः स्याद्रुद्राक्षे द्विमुखे तु पराङ्मुखः ।एकास्ये त्वत्र महिमोऽमुख्यमक्षकमीर्यते ॥ ४६ ॥
3.46 · p. 13
अनुष्टुप्
चम्पके कमनीयः स्याद्गन्धफल्यस्य मञ्जरिः ।कपिला पिच्छिला भस्मगर्भा मण्डलपत्रिका ॥ ४७ ॥
3.47 · p. 13
अनुष्टुप्
जम्ब्वां त्रिसारा विरुजा महाजम्ब्वां महाफला ।भल्लातक्यां त्रिलिङ्गोऽयमग्निमुख्यप्यरुष्करः ॥ ४८ ॥
3.48 · p. 13
अनुष्टुप्
कोकिलाक्षे तु काण्डेक्षुरिक्षुरः क्षुरकः क्षुरः ।सोमवल्लिः पूतिफलिः सोमराजिरवल्गुजा ॥ ४९ ॥
3.49 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पू (wrong syllable)
मल्लिकायां विचकिलो मङ्गलं तस्य सौरभः ।माङ्गल्यं तु वरारोहा कथ्यते नवमल्लिका ॥ ५० ॥
3.50 · p. 14
अनुष्टुप्
मालती राजपुत्री स्यात्सुगन्धा नवमालिका ।भारती तुलसी सेव्या द्रोणो वैकुण्ठ ईश्वरी ॥ ५१ ॥
3.51 · p. 14
अनुष्टुप्
अल्पमाले तु वैकुण्ठो बिल्वगन्धो वचाच्छदः ।कालपर्ण्यां तु सुरभिः करालः कालमालिका ॥ ५२ ॥
3.52 · p. 14
अनुष्टुप्
ऋषिणी द्रोणिका छत्रा चक्षुष्या द्रोणिपुष्पिका ।नागवल्ली तु ताम्बूली तथा ताम्बूलमल्लिका ॥ ५३ ॥
3.53 · p. 14
अनुष्टुप्
ब्राह्म्यां सत्यवती ब्रह्मी मत्स्याक्षी सोमवल्लरी ।मारिषो जीवमारिषः काण्डमारीष ओलकः ॥ ५४ ॥
3.54 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 रि (wrong syllable)
जलजोऽसौ सञ्जटको भूस्फोटं भूमिकन्दकम् ।हरिपर्णे मूलकोऽस्त्री सैरिमं नीलकण्ठिका ॥ ५५ ॥
3.55 · p. 14
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
ज्योत्स्ना स्वल्पफला ग्राम्या मृदङ्गः कृतवेधनः ।अथ श्रृङ्ग्यां दीर्घफला मागधी मनलोत्तमा ॥ ५६ ॥
3.56 · p. 14
अनुष्टुप्
तुम्ब्यलाभूः पिण्डफला गोतुम्बी तु नृपात्मजा ।शारद्यां लाङ्गली तोयपिप्पली शकुलादनिः ॥ ५७ ॥
3.57 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
गोलोम्यां जटिलोग्रोग्रगन्धा तीक्ष्णा जया वचा ।वारं तु पिङ्गली वज्रं ह्रिबेरं दीर्घरोमकम् ॥ ५८ ॥
3.58 · p. 15
अनुष्टुप्
चामरश्चामरं ज्येष्ठं बर्हिष्ठं जटिलं जटी ।शैलमूलं तु कच्चोरं पलाशो हिमजा शटिः ॥ ५९ ॥
3.59 · p. 15
अनुष्टुप्
अर्शोघ्नी मुसली ताली तालमूली खलिन्यपि ।खञ्जोऽरिष्टो ग्रहोच्छिष्टो रसोनो गृञ्जनः कटुः ॥ ६० ॥
3.60 · p. 15
अनुष्टुप्
लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधः ।वेणौ तु वंशकर्मारौ मृत्युपुष्पस्तृणध्वजः ॥ ६१ ॥
3.61 · p. 15
अनुष्टुप्
तृणराजे तलस्तालो महापत्रः फलेरुहः ।क्रमुको वाटिको घण्टो गुवाङ्गुः क्रूर आसवः ॥ ६२ ॥
3.62 · p. 15
अनुष्टुप्
कषायो नागवाक्पूगः फले तस्य तु पर्कटम् ।तच्छुष्के खरमित्युक्तं चिक्कणं चक्कणं मतम् ॥ ६३ ॥
3.63 · p. 15
अनुष्टुप्
दीर्घवृन्ते रामपूगो लतापूगे तु योजनः ।भूपूगे तु लघूकः स्यात्क्षुद्रो भोधः कटुः खिलः ॥ ६४ ॥
3.64 · p. 15
अनुष्टुप्
हिन्तालस्तृणराजश्च नारिकेले तु लाङ्गली ।दाक्षिणात्योऽफले बालः सुतङ्गः कृच्छ्रकेसरः ॥ ६५ ॥
3.65 · p. 16
अनुष्टुप्
खर्जूरे तु मधुक्षीरस्तस्मिन्खर्जूरिकाल्पके ।केतक्यां गुप्तरागः स्याद्रजःपुष्पौ वलीनकः ॥ ६६ ॥
3.66 · p. 16
अनुष्टुप्
ताल्यां दृढदला ताली पत्रताली वराङ्गना ।इक्षुः पुष्यो मधुतृणः खड्गपत्रो महारसः ॥ ६७ ॥
3.67 · p. 16
अनुष्टुप्
मुञ्जस्तु मुञ्जको मेध्ये मृदुत्वग्ब्रह्ममेखलः ।[ उल्लूकस्तूलपो ] दर्भमूर्ध्वमूलं खरच्छदः ॥ ६८ ॥
3.68 · p. 16
अनुष्टुप्
दूर्वा सहस्रवीर्या तु शतवीर्या तु सा सिता ।शष्पं बालतृणं शादः सर्वं तु तृणमर्जुनम् ॥ ६९ ॥
3.69 · p. 16
अनुष्टुप्
सिंहः सुगन्धिः पारीन्द्रः शार्दूलः श्वेतपिङ्गलः ।कण्ठीरवो महानादो हरिः शार्दूलविक्रमः ॥ ७० ॥
3.70 · p. 16
अनुष्टुप्
शार्दूलो हिंसरुश्चन्द्रश्चन्द्रकी दृङ्मृगादनः ।पिण्डारकस्तु चित्राङ्गो महादंष्ट्रो वरोटकः ॥ ७१ ॥
3.71 · p. 16
अनुष्टुप्
घोणी जलप्रियो वज्रदंष्ट्रो वाराहको हरिः ।कामरूपी स्तब्धरोमा पीनस्कन्धस्तलेक्षणः ॥ ७२ ॥
3.72 · p. 17
अनुष्टुप्
दीर्घरोमा च भल्लूको विकरालोऽच्छभल्लुकः ।माहिषः सैरिभोऽश्वारिर्जरन्तो गद्गदस्वनः ॥ ७३ ॥
3.73 · p. 17
अनुष्टुप्
हेरम्बः कृष्णशृङ्गश्च तुलायः कासरो गुरुः ।कृष्णः स्यात्कृष्णसारे तु निरञ्जननिरञ्जकौ ॥ ७४ ॥
3.74 · p. 17
अनुष्टुप्
यज्ञार्हः शम्बरः स्वल्पे पृषदस्तु स बिन्दुमान् ।महो रुरुः कृष्णसार एणको विपुलोन्नतः ॥ ७५ ॥
3.75 · p. 17
अनुष्टुप्
पोटरूपो गदाभासो रोहिषो बृहतिर्महान् ।वातप्रमी गोजवी स्याद्वातायुः शिवविग्रहः ॥ ७६ ॥
3.76 · p. 17
अनुष्टुप्
मृदूच्चकरोमयुक्तः प्रियरो मसृणः स्मृतः ।श्वेतचन्द्रः श्वेतरेखो नीलः स श्वेतनीलकः ॥ ७७ ॥
3.77 · p. 17
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
बिलेशयः कदलिको मृदू रुक्षश्च कर्बुरः ।श्यामला श्यामिका श्वेतबिन्दुः स्यात्षोडशायता ॥ ७८ ॥
3.78 · p. 17
अनुष्टुप्
चतुरा चन्द्रका श्यामा स्निग्धरोमा वनप्रिया ।कृष्णाथवा गोधूमाभा स्निग्धोच्चमृगरोहिका ॥ ७९ ॥
3.79 · p. 18
अनुष्टुप्
मृगाद्याः कृष्णसाराद्यास्त एव पशवः स्मृताः ।अष्टपादो गजारातिः शरभस्तूत्पदो रविः ॥ ८० ॥
3.80 · p. 18
अनुष्टुप्
गोवाही स्याद्वनगवो गवयो वाहवारणः ।शिबेबः स्याद्गन्धमृगः कस्तूरी मृगवालका ॥ ८१ ॥
3.81 · p. 18
अनुष्टुप्
अण्डस्तु तस्याः कस्तूरी राजार्हं शितिचन्दनम् ।मदनी वेधमुख्या तु मार्जारी गन्धवेलिका ॥ ८२ ॥
3.82 · p. 18
अनुष्टुप्
श्वभीरुः सृगालो भेरुः क्रोष्टा च मृगमत्तकः ।मर्कटः स्यान्महावेगः कुरङ्गो भल्लुकः पृथुः ॥ ८३ ॥
3.83 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गा (wrong syllable)
सौरभेयी शृङ्गिणी गौरर्घ्या महिरुषा शुभा ।तम्पा तम्बा निलिम्पा चोस्रानड्वाहीनिलिम्पिकाः ॥ ८४ ॥
3.84 · p. 18
अनुष्टुप्
रजःपूता रक्तवर्णा रोहिणी वायुसंभवा ।शबली प्रक्षराङ्गी च सुमना व्योमसंभवा ॥ ८५ ॥
3.85 · p. 18
अनुष्टुप्
वराङ्गा तु चतुर्वर्षा द्विवर्षा तु द्विहायनी ।एकवर्षा तु सा धन्या बहुक्षीरा तु वञ्चुला ॥ ८६ ॥
3.86 · p. 19
अनुष्टुप्
नैचकी गौर्गृहश्रेष्ठा भद्रा गौर्गोमतल्लिका ।काल्योपसर्या प्रजनी पलिक्नी बालगर्भिणी ॥ ८७ ॥
3.87 · p. 19
अनुष्टुप्
चिरसूता बष्कयणी वशा वन्ध्या वृषस्वसा ।दुःखदोह्या तु वरटा सुखदोह्या तु सुव्रता ॥ ८८ ॥
3.88 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
धेनुर्नवप्रसूतिर्गौर्बहुसूतिः परेष्टुका ।अभिवन्यान्यवत्सा गौर्वृषाक्रान्ता तु सन्धिनी ॥ ८९ ॥
3.89 · p. 19
अनुष्टुप्
आपीनमूधो वृन्तस्तु स्तनो वत्सस्तु तर्णकः ।उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वशी ॥ ९० ॥
3.90 · p. 19
अनुष्टुप्
शाक्वरो बाडबेयश्च वर्षभेयश्च वर्धकः ।ककुदी गोवृषो घोषः ककुद्मान्वृषभो वृषः ॥ ९१ ॥
3.91 · p. 19
अनुष्टुप्
षण्डस्तु गोपतिः श्रीमान् स कर्मचर ईश्वरः ।कण्ठः कण्ठविहीनः स्यात्षण्डस्तु छिन्नपुच्छकः ॥ ९२ ॥
3.92 · p. 19
अनुष्टुप्
गोमान्गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् ।नैचकी गोशिरोदेशः सास्ना तु गलकम्बलः ॥ ९३ ॥
3.93 · p. 20
अनुष्टुप्
गोशकृद्गोमयोऽप्यस्त्री गोग्रन्थिः शुष्कगोमयः ।करिषं दोहलं हव्यं नकुलं गोधनं समे ॥ ९४ ॥
3.94 · p. 20
अनुष्टुप्
गोमहिष्यादिकं जीवधनं स्यात्पादबन्धनम् ।आरङ्गे लम्बकर्णश्च तच्छगस्तबकः पशुः ॥ ९५ ॥
3.95 · p. 20
अनुष्टुप्
छगी मञ्जी सर्वभक्षा चुलुम्बा च गलस्तनी ।जटिलस्तु वनच्छागो बालविन्द्यो निरादनः ॥ ९६ ॥
3.96 · p. 20
अनुष्टुप्
ईषस्वरो धूम्रकण्ठो नैकभारसहः शलः ।चिरमेषी गर्दनकः कोलिण्टो बडबापतिः ॥ ९८ ॥
3.98 · p. 20
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ग (wrong syllable)
करभश्च मयस्तूष्ट्रो महाग्रीवस्तु वर्तकः ।भषकः सारमेयः स्याच्छ्वा शुनो मृगदंशकः ॥ ९९ ॥
3.99 · p. 20
अनुष्टुप्
रतिकीलो गृहमृगः कुक्कुरः क्रोधनः शुनिः ।यक्ष इन्द्रमृगः श्वालः कपिलो मण्डलः सुनः ॥ १०० ॥
3.100 · p. 21
अनुष्टुप्
जिह्वापानः पुरोगामी कृतज्ञो रात्रिजागरः ।शुनी तु सरमा श्वाली विचरो ग्रामसूकरः ॥ १०१ ॥
3.101 · p. 21
अनुष्टुप्
जाहको गात्रसंकोची मण्डली नखरायुधः ।पशुस्तु मुलको मोकः कुवः शुद्धजडश्चरिः ॥ १०२ ॥
3.102 · p. 21
अनुष्टुप्
हिंस्रो व्याघ्रादिको व्यालः श्वापदो मरुलः शिरिः ।मनुष्या मानवा मर्त्या मनुजा मानुषा नराः ॥ १०३ ॥
3.103 · p. 21
अनुष्टुप्
द्विपादो नहुषो गोधा व्राताः पञ्चजना नरः ।ब्रह्मक्षत्रियविट्शूद्रा इति वर्णचतुष्टये ॥ १०४ ॥
3.104 · p. 21
अनुष्टुप्
उपवर्णास्तु संकीर्णा विवर्णास्त्वन्त्यजातयः ।एकवर्णाः स्ववर्णाः स्युर्हीनवर्णास्तु जुङ्गिताः ॥ १०५ ॥
3.105 · p. 21
अनुष्टुप्
भूदेवो ब्राह्मणो विप्रो मुखजो वेदसंभवः ।अग्रजन्मा बाडबकः श्रेष्ठवर्णः कराग्निमान् ॥ १०६ ॥
3.106 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बा (wrong syllable)
उपनायस्तूपनय आनायश्च वटूकृतिः ।ब्रह्मचारी व्रती वर्णी नैष्ठिकस्तु स आश्रमी ॥ १०७ ॥
3.107 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
गायत्रस्तूपकुर्वाणो वैदिकोऽधीतवेदकः ।निःस्वाध्यायो निराकृतिर्वैवाही गृहमेधिकः ॥ १०८ ॥
3.108 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 कृ (wrong syllable)
उच्छिष्टभोजनो देवनिवेद्यबलिभोजनः ।जातिमात्रोपजीवस्तु यः स स्याद्ब्राह्मणब्रुवः ॥ १०९ ॥
3.109 · p. 22
अनुष्टुप्
अजपस्त्वसदध्येता देवाजीवस्तु देवलः ।आघायवो वातरता विगीताः ख्यातगर्हणाः ॥ ११० ॥
3.110 · p. 22
अनुष्टुप्
अवगीताश्च हन्ता तु गुरूणां नरकीलकः ।शश्विदानो दुराचारो निषिद्धैकरुचिः खरुः ॥ १११ ॥
3.111 · p. 22
अनुष्टुप्
त्यक्तात्मा त्यक्तसंवासोऽवकीर्णी तु क्षतव्रतः ।शाखारण्डोऽन्यशाखास्थो वर्णिलिङ्ग्यादयस्त्रिषु ॥ ११२ ॥
3.112 · p. 22
अनुष्टुप्
अग्नीन्धनं त्वग्निकार्यं चाग्निध्री चाग्निकारिका ।ग्रासे तु पवनी भिक्षा पुष्कलं तच्चतुष्टयम् ॥ ११३ ॥
3.113 · p. 22
अनुष्टुप्
ते चत्वारो हन्तकारो हन्तकारद्वयं घनम् ।मुष्ट्यष्टकोऽव्ययं किंचित्पुष्कलं तु तदष्टके ॥ ११४ ॥
3.114 · p. 22
अनुष्टुप्
पुष्कलानि तु चत्वारि पूर्णपात्रकमस्त्रियाम् ।भिक्षाचरः कौकिटिकः कटिको [भि]क्षुकः पुमान् ॥ ११५ ॥
3.115 · p. 23
अनुष्टुप्
द्विजायिनी ब्रह्मसूत्रं सूत्रं यज्ञोपवीतिकम् ।पवित्रं चोपवीतं तूपोद्धृते दक्षिणे भुजे ॥ ११६ ॥
3.116 · p. 23
अनुष्टुप्
प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ।कृष्णाजिनं कर्णिकः स्यात्कृत्तिः स्त्री चर्म चाजिनम् ॥ ११७ ॥
3.117 · p. 23
अनुष्टुप्
परमाप्तो गुरुर्ब्रह्म आत्मलाभकरः शिवः ।वरूथः प्रवरो ज्ञानी ब्राह्मणो ज्योतिरात्मवान् ॥ ११८ ॥
3.118 · p. 23
अनुष्टुप्
गृहस्थः स्नातकी चक्री गृहमेधी गृहीति च ।पृथुचित्रः कुण्डधान्यो विघसाशी दिनत्रयी ॥ ११९ ॥
3.119 · p. 23
अनुष्टुप्
यायावरश्चक्रवरः सद्यःप्रक्षालितान्नकः ।उत्सवो मह उद्धर्ष उद्धवो हर्षवेणुकः ॥ १२० ॥
3.120 · p. 23
अनुष्टुप्