कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

कान्ताः · कत्रिः

अशोको वञ्जुले मानद्रुमेऽशोकं तु पारदे ॥ १३ ॥
1.3.13 · p. 2
अशोका कटुरोहिण्यां अम्लको नाम्लवेतसे ।स्त्री तु चिञ्चाम्लिकाकन्दचाङ्गेरीतिन्तिडीषु च ॥ १४ ॥
1.3.14 · p. 2
अनुष्टुप्
आढकी तु स्मृता शिम्बिधान्यभेदे च मृद्भिदि ।आर्द्रकं शृङ्गवेरे स्यादार्द्रिका तु वितुन्नके ॥ १५ ॥
1.3.15 · p. 2
अनुष्टुप्
इक्ष्वाकुः कटुतुम्ब्यां स्त्री मुञ्जे राजादने पुमान् ।कनकश्चम्पके धूर्ते कालीये नागकेसरे ॥ १६ ॥
1.3.16 · p. 2
अनुष्टुप्
किंशुके काञ्चनारे च क्रमुको ब्रह्मदारुणि ।ताम्बूलमुस्तगूवाकरोध्रभिद्वयनीफले ॥ १७ ॥
1.3.17 · p. 2
अनुष्टुप्
कटुका राजिका तुम्बी करञ्जी रोहिणीषु च ।क्लीबं कङ्कोलकव्योषत्रपुषे सर्षपे पुमान् ॥ १८ ॥
1.3.18 · p. 2
अनुष्टुप्
कण्टकः कोरके वेणौ पद्मबीजे तु कण्टकम् ।स्त्री शाल्मलीकछुरयोः करकः सारलट्वयोः ॥ १९ ॥
1.3.19 · p. 2
अनुष्टुप्
कणिकाऽरणौ च कणिकश्चूर्णे सुमनस्य कर्णिकस्ताले ।योषिति तु कोकिलाक्षे तरणीमल्ल्योश्च पद्मगर्भे च ॥ २० ॥
1.3.20 · p. 2
गीतिः
कामुको रम्यकेऽशोके चातिमुक्तेऽपि चम्पके ।किम्पाकस्तु परिव्याधे किम्पाकं वारुणीफले ॥ २१ ॥
1.3.21 · p. 3
अनुष्टुप्
अथ किंशुकः पलाशे नन्दीवृक्षे च पीततैलायाम् ।योषिति कुशिकस्त्वक्षे रक्ते सर्जे च दीर्घपत्रे च ॥ २२ ॥
1.3.22 · p. 3
गीतिः
कुलकं तु पटोले स्यात्कुलकः काकतिन्दुके ।क्षुरकः क्षवकेऽध्यण्डे गोक्षुरे तिलकेशरे ॥ २३ ॥
1.3.23 · p. 3
अनुष्टुप्
कृतकं खण्डलवणे कङ्कोले च विङङ्गके ।कोरकोऽस्त्रीङ्गुदे कोले मृणाले कौशिकः पुरे ॥ २४ ॥
1.3.24 · p. 3
अनुष्टुप्
वत्सके चाथ गणिका यूथिका वह्निमन्थयोः ।ग्रन्थिकं मागधे गूढच्छदनग्रन्थिपर्णयोः ॥ २५ ॥
1.3.25 · p. 3
अनुष्टुप्
गुग्गुलौ गैरिकं धातौ रुक्मे रक्ते च हल्लके ।चित्रकः पावकेऽमण्डे चित्रकं मुखमण्डने ॥ २६ ॥
1.3.26 · p. 3
अनुष्टुप्
चीनाकः कृतकर्पूरे तृणधान्ये च चीनके ।छद्मिका कन्दरोहिण्यां रक्तायां जतुकोऽस्त्रियाम् ॥ २७ ॥
1.3.27 · p. 3
अनुष्टुप्
लाक्षागुग्गुलुपालाशपर्पटेष्वपि हिङ्गुनि ।जीविका जीवनीयायां जीवकः प्रियसर्जयोः ॥ २८ ॥
1.3.28 · p. 3
अनुष्टुप्
तनुका स्फूर्जलतयोस्तनुकं तु गुडत्वचि ।तिन्दुकी स्याद्द्वयोः कालस्कन्धे क्लीबं तु तिण्डिशे ॥ २९ ॥
1.3.29 · p. 3
अनुष्टुप्
तिलकं मेचके ना तु पटोलश्रीमतोस्तिले ।दीपको यवसाह्वायां जीरके लोचमस्तके ॥ ३० ॥
1.3.30 · p. 3
अनुष्टुप्
दीप्यको वस्तमोदायां यवानीबर्हिचूडयोः ।नर्तकी शून्यमध्यायां नलनीवारयोर्नरि ॥ ३१ ॥
1.3.31 · p. 3
अनुष्टुप्
नलिका नाडिका शाके निर्मध्यायां च नीलिका ।जलनीली युग्मफलाशेफालीनीलिनीषु च ॥ ३२ ॥
1.3.32 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यु (wrong syllable)
पालङ्कः शल्लकी शाकभेदयोरथ पावकः ।भल्लातके विडङ्गे च वह्निमन्थे च चित्रके ॥ ३३ ॥
1.3.33 · p. 4
अनुष्टुप्
प्राणको जीवके वोले प्रियकोऽसननीपयोः ।कुङ्कुमे महिलाह्वायां पिण्याकः पुत्रपुंसकः ॥ ३४ ॥
1.3.34 · p. 4
अनुष्टुप्
तिलकल्के च बाल्हीके सूपधूपनसिल्हयोः ।पीतकं गृञ्जने ताले चम्पके कुङ्कुमेऽभ्रके ॥ ३५ ॥
1.3.35 · p. 4
अनुष्टुप्
कुसुम्भे जीरके चाथ स्त्रियां कोशातकीभिदि ।निशाकूष्माण्डयूथीषु किङ्किराते तु पीतकः ॥ ३६ ॥
1.3.36 · p. 4
अनुष्टुप्
पुलको गन्धके ताले पुलकं कालवालुके ।पृथ्वीका पृथुलापार्थाकारवीबहुलासु च ॥ ३७ ॥
1.3.37 · p. 4
अनुष्टुप्
पृथुकश्चिपिटे चारुपत्रिकायां तु योषिति ।बन्धूकोऽस्त्री बन्धुजीवे बन्धुकः पीतसालके ॥ ३८ ॥
1.3.38 · p. 4
अनुष्टुप्
वालुकं न द्वयोर्मूत्रफले च हरिवालुके ।भूतीकं दीप्यकर्पूरसिल्हकस्तृणकत्तृणे ॥ ३९ ॥
1.3.39 · p. 4
अनुष्टुप्
भूनिम्बे वस्तमोदायां चिरबिल्वे च कट्फले ।मधुकं क्लीतके कृष्णकङ्गुकाश्मर्ययोः स्त्रियाम् ॥ ४० ॥
1.3.40 · p. 4
अनुष्टुप्
मधूकं क्षौद्रसाह्वायां मधूकस्तु मधुद्रुमे ।मण्डूका सूर्यभक्तायां मण्डूकस्तु कुटन्नटे ॥ ४१ ॥
1.3.41 · p. 4
अनुष्टुप्
माक्षिकं सिक्थके क्षौद्रे माक्षिको धातुमाक्षिके ।मार्षको रक्तवास्तूके जीवशाके च मूषिका ॥ ४२ ॥
1.3.42 · p. 5
अनुष्टुप्
देवदाल्यां द्रवन्त्यां च मोचकः शिग्रुपिच्छयोः ।रम्भायां यवको ह्रस्वयवशालिप्रभेदयोः ॥ ४३ ॥
1.3.43 · p. 5
अनुष्टुप्
याज्ञिकः कुशपालाशखदिरे यावको निशि ।अलक्तके सिल्हके च यूथिकाऽम्लानबालयोः ॥ ४४ ॥
1.3.44 · p. 5
अनुष्टुप्
रक्तकं शुल्वबाल्हीकप्राचीनामललोहिते ।रक्तको रागिजपयोर्गुञ्जाराजिकयोः स्त्रियाम् ॥ ४५ ॥
1.3.45 · p. 5
अनुष्टुप्
रम्यकस्तु पटोलस्य मूले च विषमुष्टिके ।रुचकं स्वर्जिकाक्षारे रोचना हृद्यगन्धयोः ॥ ४६ ॥
1.3.46 · p. 5
अनुष्टुप्
रुवौ लुङ्गे च रुचको रेणुकः शीतवल्लभे ।कौन्त्यां स्त्री रेचकं काकवालुके च मुकूलके ॥ ४७ ॥
1.3.47 · p. 5
अनुष्टुप्
लोणीका लोणिकाशाकचाङ्गेरीशाकयोः स्त्रियाम् ।वसुकः शिवमल्ल्यां स्याद्रौमके तु नपुंसकम् ॥ ४८ ॥
1.3.48 · p. 5
अनुष्टुप्
बाल्हीका बाल्हिकाधान्ये क्लीबे हिङ्गुनि कुङ्कुमे ।वार्ताकं त्रिषु वार्ताकौ बृहतीक्षुद्रयोः स्त्रियाम् ॥ ४९ ॥
1.3.49 · p. 5
अनुष्टुप्
वार्षिकं त्रायमाणायां वार्षिकी मल्लिकाभिदि ।बाष्पिका कारवीहिङ्गुपत्र्योः स्यादथ बीजकः ॥ ५० ॥
1.3.50 · p. 5
अनुष्टुप्
बीजपूरे पीतसारे वृक्षकः कुटजे धवे ।स्त्रियां तु कन्दरोहिण्यां वृषकस्त्वटरूषके ॥ ५१ ॥
1.3.51 · p. 5
अनुष्टुप्
ऊषरे च दृषद्भेदे शालूकः खदिरेऽरलौ ।पिण्डीतकेऽपि शालूकं फलपद्मादिकन्दयोः ॥ ५२ ॥
1.3.52 · p. 5
अनुष्टुप्
सर्जिका स्वर्जिका क्षारे सर्जकोऽसनशालयोः ।अजकर्णे सिंहिका तु चन्द्रपुष्पाटरूषयोः ॥ ५३ ॥
1.3.53 · p. 6
अनुष्टुप्