चूत
cūtaपुं · masc.In 19 kośas: 19 synonym verses, 1 as a nānārtha head word, 11 as a meaning of another word.
आम्रश्चूतः सहकारः सप्तपर्णस्त्वयुक्छदः ॥ ११३३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
रम्भा कदली मोचा तृणराजः कथ्यते तलस्तालः ।कङ्केलिरशोकः स्यादाम्रश्चूतश्च सहकारः ॥ १९२ ॥
आर्या
genderपुंmasc.
चूते वसन्ततिलकः कामाङ्कः कोकिलप्रियः ।पल्लवे तस्य सुरभिः पुण्डरीकन्तु तत्फले ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबे च पाटला ।आम्रश्चूतो महाकालो माकन्दः षट्पदातिथिः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
अरविन्दमशोकाख्यं चूतं च नवमल्लिका ।नीलोत्पलं तथा चान्ये प्राहुरुन्मादनः पुनः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
वसन्तदूतश्चूतश्च श्यामतैलोऽङ्गनाप्रियः ।मदिरास[ख]श्च सुफलो हेमपिङ्गः सुमृष्टकः ॥ ५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
आम्रे रसालो माकन्दः कामाङ्गः पिकबान्धवः ।वनपुष्पोत्सवश्चूतः परपुष्टमदोत्सवः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
कानने वृक्षकं वार्क्ष्यं जटिलो बहुपाद्वटे ।कामाङ्कः स्त्रीप्रियश्चूतः कपिचूतः कपिप्रियः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
वटश्चाथोम्बरो जन्तुफलश्चाम्रे रसालकः ।चूतातिसौ [32] रमौ तुल्यौ कामाङ्गः कोकिलप्रियः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
चूतोऽतिसौरभः सीधुरसो माधवपादपः ।शाल्मलिः कीरनिलयः पिच्छिलो रक्तपुष्पकः ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
बन्धुको यूथिका कुन्द इत्याद्याः पुष्पजातयः ।आम्रो रसालो माकन्दः सहकारश्चूतनूतवत् (?) ॥ १४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 सह (syllable split)
genderपुंmasc.
आम्रश्चूतश्च माकन्दः सहकारोऽपि कथ्यते ॥ १९९१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आम्रो वसन्तदूतः स्यान्माकन्दः षट्पदातिथिः ।मधुदूतो वसन्तद्रुवल्व(?)चूतपिकप्रियाः ॥
अनुष्टुप्
genderपुंmasc.
चुतश्चूतश्चूतिश्चूतो गुद्द्वारं श्चुलिश्चूली ।वस्तिः स्त्रीपुंसयोर्नाभेरधोभागे निगद्यते ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
दधित्थमन्मथदधिफलपुष्पफला अपि ।आम्रे माकन्दकामाङ्गचूतास्तस्मिन् ससौरमै ॥ ४५८ ॥
अनुष्टुप्
genderपुंmasc.
कपिचूतोऽम्रातकोऽस्य फले पशुहरीतकी ।पिकबन्धुस्तु चूतः स्यात्स्त्रीप्रियः षट्पदातिथिः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
आम्रे कामाङ्गमाकन्दौ चूतो वेलोंऽङ्गनाप्रियः ।करको वलयश्चाथ श्रेष्ठेऽत्र सहकारकः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
चूत as a meaning in nānārtha verses
- धरणिकोश वसन्तदूतआच्छुरितं स्मृतं हास्ये स्वशब्दनखवादने । वसन्तदूतशब्दाः स्युश्चूतातिमुक्तपाटलाः ॥ Dharaṇikośa 15.2.85
- कोषकल्पतरु वसन्तदूतमूर्धाभिषिक्तः पृथिवीपतौ स्या- त्क्षत्रे प्रधानेऽथ वसन्तदूतः । चूते पिके पञ्चम[2a]रागके च स्त्री पाटलायामतिमुक्तके च ॥ ९० ॥ Koṣakalpataru 6.17.90
- कोषकल्पतरु चामरपुष्पचामरपुष्पश्चूते का[27b]शतृणे केतके तद्वत् । Koṣakalpataru 6.22.19
- नानार्थार्णवसंक्षेप वेलध्यानिन्यप्यथ वेलो ना चूते क्ली तत्फलेऽथ सा । वेला कूले समुद्रस्य तदम्बुविकृतावपि ॥ १२९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1294
- नानार्थार्णवसंक्षेप कामृगप्रक्षालनेऽथ कामाङ्गं चूतवृक्षे पुमानयम् । कामस्य पुनरङ्गे क्ली काश्यपस्तु पुमानयम् ॥ ४४९ ॥ Nānārthārṇavasaṃkṣepa 4.449
- नानार्थार्णवसंक्षेप रसालरसालस्तु पुमानिक्षौ चूते च वरुणद्रुमे । सम्मिश्ररसभेदे च कटुतिक्तकषायके ॥ १४८९ ॥ Nānārthārṇavasaṃkṣepa 4.1489
- नानार्थार्णवसंक्षेप अलिप्रियत्रि तु प्रियजलेऽथालिप्रियो ना चूतनीपयोः । काकजम्बूसमाख्ये च जम्बूभेदे स्त्रियां त्वयम् ॥ ३१ ॥ Nānārthārṇavasaṃkṣepa 6.31
- शिवकोष वासन्तवासन्ती प्रहसन्यां माधव्यां बालपुष्पायाम् । कुम्भ्यामथ वासन्तः श्रीमदशोकाक्षमुद्गचूतेषु ॥ १९६ ॥ Śivakoṣa 12.2.196
- शिवकोष वसन्तदूतअपराजिता तु कटभीशणपर्णीसूक्ष्मपत्रासु । कथिता वसन्तदूतश्चूते स्त्री माधवीकुम्भ्योः ॥ २१२ ॥ Śivakoṣa 12.4.212
- शिवकोष रसालरसाला तु रसादूर्वाविदारीगोस्तनीषु च । रसालं सिल्हके वोले रसालः पौण्ड्रचूतयोः ॥ ४७१ ॥ Śivakoṣa 23.2.471
- त्रिकाण्डशेष रसालबिम्बे देशे ना च शुनि रसालत्विक्षुचूतयोः । जिह्वाकमलयोर्लाला शाला स्याद्गृहशाखयोः ॥ ४०७ ॥ Trikāṇḍaśeṣa 3.3.407