धव
dhavaपुं · masc.In 18 kośas: 20 synonym verses, 12 as a nānārtha head word, 18 as a meaning of another word.
प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता पतिर्वरः ॥ ५१६ ॥विवोढा रमणो भोक्ता रुच्यो वरयिता धवः ।
metre not recognised
genderपुंmasc.
genderपुंmasc.
कान्तः स्यात्कमिता पतिर्वरयिता भर्ता च भोक्ता धवो,रुच्याभीकवराभिकाश्च रमणः प्राणाधिनाथोऽनुगः ।सूनुः सन्ततिरात्मजश्च तनुजः पुत्रः प्रसूतिः सुतः,तुक् तोकं तनयश्च नन्दन इति प्राज्ञैरपत्यं स्मृतम् ॥ ४९७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
रमोभरुश्च यामाता जामाता रमणो धवः ।कान्तः सुखोत्सवश्चापि हृदयेशोऽथ जारके ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
सुशोणः कलनश्चाथ धवस्तु मधुरत्वचः ।शुकवृक्षो दृढतरुः कषायो गौर इत्यथ ॥ २०५ ॥
अनुष्टुप्
genderपुंmasc.
गोधनः कट्फलोऽथ स्यादारीः खदिरवल्लरी ।धवो दृढः स्थिरो गौरः शाकटाक्षो भरोद्वहः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
पतिर्धवो जीवितेशो वल्लभो दयितोऽपि च ।कामलः सरसी कान्तः सुविदश्च हृदीश्वरः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
बीजस्नेहो वातपोथो यज्ञियो ब्रह्मपादपः ।धवे भारोद्वहो गौरः शकटाख्यो धुरन्धरः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।ना पुमान् पुरुषो गोधा धवः स्यात्तत्पतिर्नृपः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
वि[68]वोढा च धवो भोक्ता रुच्यप्राणप्रियौ समौ ।उद्वाहोऽथ विवाहश्चोपयामः पाणिपीडनम् ॥ १८४ ॥
अनुष्टुप्
genderपुंmasc.
कनिष्ठोऽग्रजनु? ज्येष्ठो देवरः पतिसोदरः ।धवः प्रियः पतिर्भर्त्ता वल्लभो दयितोऽसुपः? ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
भर्ता विवोढा रमणो भोक्ता नाथः पतिर्धवः ।वरो वरयिता कान्तो वल्लभो दयितः प्रियः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
प्रेष्ठः पाणिग्रही कान्तः पाणिग्राहश्च वल्लभः ।उपयान्ता परिणेता भर्ता भोक्ता तथा धवः ॥ ८१० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
genderपुंmasc.
पतिः कान्तः प्राणनाथो भरुर्भर्त्ता धवः प्रियः ।हृदयेशो जीवितेशो जामाता च सुखोत्सवः ॥
अनुष्टुप्
genderपुंmasc.
श्वेतस्कन्धमहासारसोमवल्कघुणौकसः ।धवस्तु शरभाक्षः स्याद्गौराक्षो मधुरच्छदः ॥ ४६८ ॥
अनुष्टुप्
genderपुंmasc.
नाथः कामयिता पतिर्वरयिता कभ्रो धवः कामनोभर्ता प्राणसमः प्रियः सहचरः कान्तोऽभिकः कामुकः ।प्राणेशः कमितानुगो रतिगुरुर्नेता वरो वल्लभोनिर्वेष्टा परिणायकश्च कमनोऽभीकश्च सध्य्रङ् सुहृत् ॥ १०४९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
स्याद्वर्मणः पिच्छिलत्वग्धवस्तु मधुरत्वचः ।पिशाचः पीतफलः शाकोटः कर्कशच्छदः ॥ १३ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
कोमलं पेलवं पापे त्वधमापसदौ धवः ।रोमाञ्चितो हृष्टरोमा अजानेयस्तु निर्भयः ॥ २१ ॥
अनुष्टुप्
genderविadj.
जंबूटनीलजंबूटौ शफर्यां श्लक्ष्णपत्रकः ।शिखीन्द्राश्मन्तकाम्लोटा धवे गौरधुरंधरौ ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
भ्रातृवर्गस्य या भार्या यातरस्ताः परस्परम् ।रुच्यः प्रियः पतिर्भर्ता सेक्ता वरयिता धवः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
आर्या
meanings
धूर्ते नरे स्यादपि वृक्षभेदेजवो रये वेगिनि वाच्यलिङ्गः ।स्त्री त्वोड्रपुष्पेऽथ लवो विलासेलेशे छिदायामपि रामपुत्रे ॥ ९० ॥
उपजातिः
doubtful
धवो ना धवने पत्यौ योषितामजयः पुनः ।प्रभुमात्रेऽब्रवीदेनं तदसन्मूलहानितः ॥ ६३३ ॥
अनुष्टुप्
धुरन्धराख्यद्रौ क्ली तु तत्फले द्वे तु मानवे ।धरो ना भूधरे तूले कार्पास्यां स्त्री पुनर्धरा ॥ ६३४ ॥
अनुष्टुप्
doubtful
मरुर्धन्वा धनुर्धन्व धवः पत्यौ द्रुमान्तरे ।धृतिः सौख्ये धारणे च धाता ब्रह्मणि पोषके ॥ १९४४ ॥
अनुष्टुप्
ध्रुवो वटे स्मरारौ च गीतिस्रुग्भेदयोर्ध्रुवा ।धवो धूर्त्तेऽप्यथ नवो नूतने वासवे स्तुतौ ॥ ४१७ ॥
अनुष्टुप्
meaningsधूर्त
धव as a meaning in nānārtha verses
- धरणिकोश कान्तकान्तौ प्रस्तरलोहकौ प्रियधवौ कान्ते प्रियङ्गुस्त्रियौ केतुश्चिह्नपताकयोश्च करणे केतुश्च शेषग्रहे । अन्तो नाश[स]मीपयोर्निगदितः प्रान्ते स्वरूपेऽप्यसौ द[न्तः] [34] सानुनिकुञ्जयोश्च दशने दन्ती स्मृता चौषधिः ॥ Dharaṇikośa 15.1.12
- धरणिकोश प्रियधान्यं व्रीहिषु धन्याके प्रियं हृद्ये धवे प्रियः । शय्या तल्पे ग्रन्थगुम्फे व्रज्या त्वटनरङ्गयोः ॥ Dharaṇikośa 25.1.9
- कोषकल्पतरु धनिकबहुकः कर्कटकेऽर्के दात्यूहे जलखादके तद्वत् । धनिको धवे धनाढ्ये त्रिषु वध्वां स्त्री नपुंसि धान्याके ॥ ३० ॥ Koṣakalpataru 6.1.30
- कोषकल्पतरु निरृतिरात्रौ वासनिकेतयोश्च वसतिः स्त्री धातृवाय्वोः पुनः श्रौतेष्वग्निषु चाङ्कतिर्निर्गदितो रुक्त्यागयोस्त्र्यंहतिः । अश्रीदिग्धवयोरुपद्रवहृते स्यान्निर्ऋतिः पुंसि तु स्वाहायां तरणौ घृणौ च चतुरैः प्रोक्तो गभस्तिस्तथा ॥ ३० ॥ Koṣakalpataru 6.16.30
- कोषकल्पतरु भरथस्यात्सारमेये रुदथो बुधे तु योगिन्यपि स्याद्विदथो नृलिङ्गः । स्याल्लोकपाले भरथो धवेऽपि विश्वासहेतौ शपथः शयौ च ॥ ४ ॥ Koṣakalpataru 6.18.4
- कोषकल्पतरु प्रियधवे मनोज्ञे त्रिषु वृद्धिवल्ल्यां स्त्रियां स्वभावे तु तनौ च कायः । संघे च लक्ष्ये परवत्कदैवे क्लीबे नृतीर्थेऽप्यथ सायमस्त्री । प्रियो धवे सुन्दरवाचकश्च वृद्ध्यौषधौ मानवतीर्थके तु । देहे च शङ्खे निकरे च कायो लक्ष्येऽपि सायं तु दिनान्तवाचि ॥ ६ ॥ Koṣakalpataru 6.26.6
- कोषकल्पतरु धुर्ंधरधुरन्धरस्तु धूर्वहे धवाभिधे तथा द्रुमे । नभश्चरो घनेऽनिले विहङ्गमे कटप्रुवि ॥ ५ ॥ Koṣakalpataru 6.27.5
- नानार्थार्णवसंक्षेप कान्तक्ली तु दारुणि कान्ता तु प्रियङ्गुतरुयोषितोः । स्त्री पुमांस्तु धवे नान्दीवृक्षे चम्पकपादपे ॥ १८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.187
- नानार्थार्णवसंक्षेप प्रियसूर्ये प्रियस्तु करुणसंज्ञवृक्षे धवे त्रि तु । वल्लभे सुन्दरे स्त्री तु प्रियाभीप्सितयोषिति ॥ ७६७ ॥ Nānārthārṇavasaṃkṣepa 2.5.767
- नानार्थार्णवसंक्षेप सेक्तृसेक्ता पुंसि धवे त्रिस्तु सेचके सैन्यवाक् तु नप् । सेनाया समवेते तु सेनायां त्रिः पुमान् पुनः ॥ १५५९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1559
- नानार्थार्णवसंक्षेप रमणक्रीडायां पुंसि तु धवे स्त्रीभेदे तु स्त्रियामियम् । रमणी रमयत्यर्थे पुनः स्याद्रमणा न ना ॥ १५०१ ॥ Nānārthārṇavasaṃkṣepa 4.1501
- नानार्थार्णवसंक्षेप धुरन्धरतत्प्रसूने तु शण्डः स्यात् पुंसि तु स्याद्धुरन्धरः । धवसंज्ञद्रुमे त्रिस्तु धूर्वहे स्यादथो पुमान् ॥ २९४ ॥ Nānārthārṇavasaṃkṣepa 6.294
- नानार्थार्णवसंक्षेप वरयितृउरणे केशसंस्थानभेदे क्ली त्रि तु कश्चन । ब्रूते वचनकारेऽथ पुमान् वरयिता धवे ॥ ५४७ ॥ Nānārthārṇavasaṃkṣepa 6.547
- नानार्थार्णवसंक्षेप दिधिषूपतिभ्रातुर्मृतस्य जायायां संसक्ते दिधिषूपतिः । पुनर्भ्वश्च धवेऽथ स्याद् वरुणस्य फले तथा ॥ ९ ॥ Nānārthārṇavasaṃkṣepa 7.9
- शिवकोष वृक्षकबीजपूरे पीतसारे वृक्षकः कुटजे धवे । स्त्रियां तु कन्दरोहिण्यां वृषकस्त्वटरूषके ॥ ५१ ॥ Śivakoṣa 1.3.51
- शिवकोष स्थिरस्थिरा कलश्यंशुमत्योः सूर्यपर्णीद्वयेऽपि च । धवे तु पुंसि हिंस्रा तु काकादन्यां चिरायुषि ॥ ३९१ ॥ Śivakoṣa 22.2.391
- शिवकोष मधुस्रवामरुद्भवस्तु कर्पासे खदिरे च यवासके । मधुस्रवा धवश्रेणीजीवाहंसपदीषु च ॥ ५०९ ॥ Śivakoṣa 24.3.509
- शब्दरत्नावली गुहागुहा गर्ते सिंपुच्छी धवगह्वस्केषु च । वाहः स्याद्वन्धने कूटे बर्हं पुच्छे दलेऽस्त्रियाम् ॥ Śabdaratnāvalī 7.33.7