स्त्रीप्रिय
strīpriyaपुं · masc.In 11 kośas: 11 synonym verses, 3 as a nānārtha head word.
स्त्रीप्रियो वञ्चुलः शोके कङ्केलिः कर्णपूरकः ।अङ्कोले निचुलोऽपि स्याद्रसाले वरुणो रिपुः ॥ २१२ ॥
अनुष्टुप्
genderपुंmasc.
उदुम्बरे मध्यफलः प्लक्षे तु गिरिमन्मथः ।शुभाङ्गः स्त्रीप्रियश्चूते पुण्डरीकं तु तत्फले ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
कामाङ्गो मधुदूतः स्यात्सहकारोऽति सौरभः ।रसालः स्त्रीप्रियश्चापि साहारपिकवल्लभौ ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
अशोके स्त्रीप्रियः शोकनाशनः स्यन्दनोऽलसः ।वञ्जुलो मदनावासः स्त्रीपादाहतिदोहदः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कानने वृक्षकं वार्क्ष्यं जटिलो बहुपाद्वटे ।कामाङ्कः स्त्रीप्रियश्चूतः कपिचूतः कपिप्रियः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
छन्ने तु करको वृक्षो मल्लिकाकुसुमप्रियः ।स्त्रीप्रियो वञ्चुलोऽशोकः कङ्केलिः कर्णपूरकः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
रसालः स्त्रीप्रियश्चेति गन्धबन्धुर्बलिप्रियः ।सहकारः सहारोऽपि रसाले त्वतिसौरभे ॥
अनुष्टुप्
genderपुंmasc.
कुणवृक्षः पूतिवल्कस्तापसद्रुम इङ्गुदः ।स्त्रीप्रियो वञ्जोलोऽशोकः कङ्केलिः कर्णपूरकः ॥ ४८५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ञ्जो (wrong syllable)
genderपुंmasc.
तारो वराङ्गना ताली राजताल्यथ केतकी ।केतकोऽपि रजःपुष्पः स्त्रीप्रियः सर्पवेष्टितः ॥ ६६२ ॥
अनुष्टुप्
genderपुंmasc.
कपिचूतोऽम्रातकोऽस्य फले पशुहरीतकी ।पिकबन्धुस्तु चूतः स्यात्स्त्रीप्रियः षट्पदातिथिः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
रोहिते रौहिषो रोही रक्तो रौहितकोऽपि च ।स्त्रीप्रिये वञ्जुलोऽशोकः कंकेलिः कर्णपूरकः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
स्त्रीणां प्रिये सीमिकं तु क्ली वल्मीके तथा तरोः ।शाखायां च द्वयोस्त्वेष विज्ञेयः सलिलक्रिमौ ॥ १९६३ ॥
अनुष्टुप्
meanings
doubtful
शैलेयं गिरिमृत्तालपर्णीशैलजसिन्धुजे ।स्त्रीप्रियः सहकारस्य फले शोभाञ्जनद्रुमे ॥ ३६० ॥
अनुष्टुप्