कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पार्थ

pārthaपुं · masc.

In 13 kośas: 10 synonym verses, 4 as a nānārtha head word, 15 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.481 · p. 30
अर्जुनः फाल्गुनः पार्थः सव्यसाची धनंजयः ॥ ७०८ ॥राधावेधी किरिट्यैन्द्रिर्जिष्णुः श्वेतहयो नरः ।बृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः ॥ ७०९ ॥बीभत्सः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.60 · p. 3
वालौ सुग्रीवाग्रजोऽपि पार्थे बीभत्सुरित्यपि ॥ ६० ॥
metre not recognised
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.41 · p. 93
अर्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जयः ।राधावेधी किरीट्यैन्द्रिः श्वेताश्वः फाल्गुनो नरः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.15 · p. 246
बकारिर्मागधारिश्च गणकृत्कीचकान्तकः ।किर्मीरारिश्चाथ पार्थः सव्यसाची धनंजयः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.338 · p. 143
अर्जुनो नरपार्थौ तु गुडाकेशधनंजयौ ।फाल्गुनः सव्यसाची च राधावेधी बृहन्नटः ॥ ३३८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.42 · p. 38
धनंजयोऽर्जुनः पार्थ इन्द्रपुत्रः कपिध्वजः ।श्वेताश्वः फाल्गुनो जिष्णुः सव्यसाची च कर्णजित् ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1151 · p. 179
अर्जुनः कर्णजित् पार्थः राधावेधी धनञ्जयः ।सव्यसाची सुभद्रेशः किरीटी च कपिध्वजः ॥ ११५१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.128 · p. 120
राजन्यो नरपतिः पार्थः पार्थिवो नृपतिर्नृपः ।भूपो महीक्षिद्भूपाली भूभृत्क्ष्मभुक् महीपतिः ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त्क्ष्म (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.154 · p. 122
पार्थः किरीटी वीभत्सुः श्वेतवाजी कपिध्वजः ।राधाभेदी सुभद्रेशो गुडाकेशो बृहन्नलः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.16 · p. 63
पार्थः किरीटी गाण्डीवी गुडाकेशो बृहन्नलः ।अर्जुनः फाल्गुनो जिष्णुर्विजयश्च धनञ्जयः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास थपादः Dharaṇikośa 16.1.2 · p. 89
ग्रन्थः शास्त्रे धने चैव पार्थौ ककुभपाण्डवौ ।यूथौ जातकुरुण्टौ च गाथा वाग्भेदवृत्तयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ थान्ताः Koṣakalpataru 6.18.98 · p. 231
पार्थोऽर्जुने स्यात्ककुभद्रुमे चगाथा स्त्रियां छन्दसि शेषमात्रे ।स्यात्संस्कृतान्योक्तिषु चाथ कन्थावस्त्रान्तरे मृन्मयभित्तिकायाम् ॥ ९८ ॥
इन्द्रवज्रा
शिवकोष Śivakoṣa · शिवदत्तमिश्र थद्विः Śivakoṣa 13.1.214 · p. 20
तुत्थं स्यादमृतासङ्गे नीलीबालैलयोः स्त्रियाम् ।पार्था मार्तण्डभक्तायां पार्थस्त्वर्जुनपादपे ॥ २१४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश थान्ताः Śabdaratnāvalī 7.17.5 · p. 227
पार्थः स्यात्पृथिवीपाले पृथापुत्रेऽर्जुनेऽपि च ॥

पार्थ as a meaning in nānārtha verses