कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वित्त

vittaक्ली · neut.

In 18 kośas: 34 synonym verses, 6 as a nānārtha head word, 26 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.192 · p. 12
वित्तं रिक्थं स्वापतेयं राः सारं विभवो वसु ॥ १९१ ॥द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् ।हिरण्यार्थौ निधानं तु कुनाभिः शेवधिर्निधिः ॥ १९२ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1475 · p. 56
परिक्षिप्ते वलयितं निवृत्तं परिवेष्टितम् ॥ १४७४ ॥परिस्कृतं परीतं च त्यक्तं तूत्सृष्टमुज्झितम् ।धूतं हीनं विधूतं च विन्नं वित्तं विचारिते ॥ १४७५ ॥
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.152 · p. 56
ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुताः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.90
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ।हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.9
प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.99
वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते ॥ ९९ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.80 · p. 10
द्युम्नं द्रव्यं द्रविणं राः सारं स्वापतेयमर्थः स्वम् ।ऋक्थं पृक्थं वित्तं धनं हिरण्यं च वसु विभवः ॥ ८० ॥
metre not recognised
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.65 · p. 13
सीसं वङ्गं च योगेष्टं लघुतारं भुजङ्गकम् ।सर्पं कुम्भीनसं वित्तं मृद्भवं सर्वतोमुखम् ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.534 · p. 192
गैरिकं वसु कल्याणं रजतं भर्म कर्वुरम् ।चामीकरं जातरूपं चाम्पेयं वित्तमर्जुनम् ॥ ५३४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.17 · p. 216
प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ।गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ ॥ १७ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.164 · p. 232
सितस्त्ववसिते दग्धे प्रुष्टः प्लुष्टस्तथोषितः ।वेधितश्छेदितो विद्धे विन्नो वित्तो विचारितः ॥ १६४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 294
द्रव्यं द्युम्नं वित्तं रमृक्थं मघं रिक्थम् ।स्तः स्वापतेय-वसुनी द्रविणं न स्त्री न राः क्लीबे ॥ २१ ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.34 · p. 4
विस्रब्धः स्याद्विश्वसितोऽथोत्ताल-त्वरितौ समौ ।आसक्तः प्रवणः प्रह्वः प्रसितश्च परायणः ।तत्परोऽप्यथ विख्यात-विज्ञातौ वित्त-विश्रुतौ ॥ ३४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.51 · p. 27
विन्नं विचारितं स्याद्विभावितं[176a] तत्र वित्तं च ।क्लिशितं क्लिष्टं न्यर्णं समर्णके प्रोषितं प्रुष्टम् ॥ ५१ ॥
metre not recognised
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 95 · p. 47
वित्तं वस्तु वसु द्रव्यं स्वार्थं रा द्रविणं धनम् ।कस्वरं तत्पतिं प्राहुः कुवेरं चैकपिङ्गलम् ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.74 · p. 14
नलकूबरः स्मृतः [9] पुंसि धनदस्य सुतोऽत्र तु ।धनं वित्तं पृक्थमृक्णं स्वं द्रव्यं द्रविणं वसु ॥ ७४ ॥
metre not recognisednearly अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.356 · p. 96
उत्सृष्टविधुते हीनं विन्नवित्ते विचारितम् ।[53] संरुद्धसंवृते छन्नं संवीते रुद्धमित्यपि ॥ ३५६ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.370 · p. 98
प्रथिते विश्रुतः ख्यातः प्रज्ञाते वित्त इत्यपि ।तप्तधूपायितौ दूनो धूपितस्तापितः स[54]मः ॥ ३७० ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.534 · p. 94
द्रव्ये वित्तं स्वापतेयं ऋक्षं(क्थं?) रिक्षं(क्थं?) हिरण्यकम् ।धनं वसु हिरण्यं च द्युम्नं रा विभवो धनम् (मघम्?) ॥ ५३४ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.638 · p. 109
तत्परे प्रसितासक्तौ सुकलो दातृभोक्तरि ।धनिके त्वाढ्य इभ्यश्च विश्रुते वित्त इष्यते ॥ ६३८ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.714 · p. 120
विचारिते विन्नवित्तौ छिद्रिते विद्धवेधितौ ।सिद्धे निर्वृत्तनीवारौ विवृते दृतमीलितौ ॥ ७१४ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.176 · p. 19
द्रव्यं स्वं द्रविणं वित्तं द्युम्नं रा विभवो धनम् ।अर्थो लक्ष्मीः स्वापतेयं रिक्थमृक्थ तथा वसु ॥ १७६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.224 · p. 30
धनं वित्तं तथा द्रव्यं द्रविणं विभवो वसु ॥ २२४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.254 · p. 433
वित्तं विचारितं विन्नं नामत्रयं निगद्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्र (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2715 · p. 440
प्रतीतः प्रथितः ख्यातः वित्तश्च विश्रुतः पुनः ॥ २७१५ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.175 · p. 149
वित्तं द्युम्नं हिरण्यस्वद्रव्यानि द्रविणं वसु ।रिक्थमृक्थं स्वापतेयमर्थो रैर्विभवो धनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.11 · p. 159
ख्यातप्रथितविज्ञातप्रतीतवित्तविश्रूताः ।गुणैः ख्यातेऽपि च कृतलक्षणाहितलक्षणौ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.68 · p. 168
विचारिते विन्नवित्तौ विगतारोकमप्रभे ।द्रवीभूतघृतादौ तु विलीनं विद्रुतं द्रुतम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.67 · p. 255
वित्तं च, पिहिते छन्नं छादितं संवृताऽवृते ।अपवारित-संवीते पिधाने व्यवधानवत् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.139 · p. 18
निक्षेप उपनिधिः स्यादर्थो राः सारमस्त्रियां द्रविणम् ।स्वं स्वापतेयमृक्थं रिक्थं वित्तं धनं वसु द्रव्यम् ॥ १३९ ॥
गीतिः
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1589 · p. 192
विश्रुतविदितख्यातप्रथितव्यपदिष्टवित्तविज्ञाताः ।सुरभिप्रतीतकीर्तितवर्णितसुकलप्रसिद्धसुगृहीताः ॥ १५८९ ॥
गीतिः
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1605 · p. 193
अवसितमनितप्रेक्षितभावितवित्तप्रतीतमुपलब्धम् ।संश्रुतविदितसमाहितसंगीर्णानि प्रतिश्रुतोपगते ॥ १६०५ ॥
गीतिः
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1665 · p. 200
विन्नं निर्लोडितं वित्तं भाबितं च विचारिते ।पतितं क्षरितं पन्नं स्यन्नं स्कन्नं स्रुतं स्नुतम् ॥ १६६५ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.73 · p. 129
विटपोऽर्थः स्वापतेयं रिक्थं पृक्थं धनं वसु ।वित्तं च द्रविणं द्युम्नं हेमरूप्यात्मकं तु तत् ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.5 · p. 67
वित्तं विचारिते द्रव्ये व्याख्या[36]ते वित्तमिष्यते ।श्वेतं रूप्ये सिते श्वेतं श्वेतश्च पर्वतान्तरम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.29 · p. 208
क्षेमेऽन्तिमे शस्तमथ प्रशस्तेत्रयेऽथ वित्तं धनवाचि षण्ढे ।ज्ञाने प्रतीते तु विचारिते चत्रयेऽथ वृत्तौ चरितेऽपि वृत्तम् ॥ २९ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1253 · p. 150
वित्तं धने त्रिषु पुनः प्रथितेऽपि विचारिते ।विष्टिस्तु कर्मणि हठात् कारिते नाथ तत्कृति ॥ १२५३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.53 · p. 217
वित्तिर्लाभे विचारे च सम्भवे स्यादपि स्त्रियाम् ।वित्तं धने क्लीबलिङ्गं त्रिषु ख्याते विचारिते ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.185 · p. 154
अभ्युद्गते विकसिते चेष्टिते च विजृम्भितम् ।विकृतौ रोगिबीभत्सौ वित्तं ख्याते धनेऽपि च ॥ १८५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.74 · p. 236
व्यालो दुष्टगजे सर्पे श्वापदे च पुमांस्त्रिषु ।शठेऽथ वित्तमर्थे क्ली त्रिषु ख्याते विचारिते ॥ ७४ ॥
अनुष्टुप्

वित्त as a meaning in nānārtha verses

  • धरणिकोश भोगभोः सुखे च वित्ते च सर्पस्य फणकाययोः । पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम् ॥ Dharaṇikośa 3.3.7
  • धरणिकोश द्रविणकुर्वाणः कारके भृत्ये धर्मणोऽहिद्रुभेदयोः । संकीर्णौ निचिताशुद्धौ द्रविणे वित्तविक्रमौ ॥ Dharaṇikośa 14.1.7
  • धरणिकोश धनद्युम्नं पराक्रमं द्रव्यं वनं कानननीरयोः । वस्ने वेतनदानीये धनं गोधनवित्तयोः ॥ Dharaṇikośa 19.1.1
  • कोषकल्पतरु शम्बट्शम्बट् वित्तेऽथ सुष्ठु स्यात्पूजात्यर्थप्रशंसने । अपष्ठु निन्द्येऽभव्ये च दुष्ठु निन्दित-निन्दयोः ॥ ८६ ॥ Koṣakalpataru 5.1.86
  • कोषकल्पतरु नामसासूयमङ्गीकरणेऽप्यलीके संभावनायां *** प्रसिद्धौ । स्यान्नाम वित्तेऽप्यथ तद्दिनं स्या- न्मध्ये दिनस्य प्रतिवासरे च ॥ ८ ॥ Koṣakalpataru 5.1.8
  • कोषकल्पतरु भोगरागोऽनुरागे नृप-भैरवादौ मात्सर्यदुःखादिषु चारुणिम्नि । भोगस्तु सर्पस्य फणाङ्गयोः स्या- त्सुखेऽशने रक्षणवित्तयोश्च ॥ ९६ ॥ Koṣakalpataru 6.3.96
  • कोषकल्पतरु पणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
  • कोषकल्पतरु सुवर्णइभ्यां स्त्री नरि कर्णिकारकरिणोः केचिद्धरेणुः पुन- र्वा स्त्री खण्डिकरेणुकाकुलवधूषूक्तोऽथ हेम्नि क्रतोः । भेदे विस्तकवित्तयोरपि सुवर्णालौ सुवर्णोऽस्त्रियां संपाके गरुडे च काञ्चनशिखे प्रोक्तः सुपर्णो बुधैः ॥ ३६ ॥ Koṣakalpataru 6.15.36
  • कोषकल्पतरु धनइनो नृपे भर्तरि भास्करे स्या- द्धनोऽस्त्रियां गोधनवित्तयोश्च । जिनस्तु बुद्धे नरि जित्वरार्ह- वृद्धेषु तु स्यान्निजभेद्य लिङ्गः ॥ ८२ ॥ Koṣakalpataru 6.21.82
  • कोषकल्पतरु साधनस्यात्साधनं कारणवित्तयोश्च लोकापवादे तु रणे पशूनाम् । शुनामहीनां च पतत्रिणां च कौलीनमाम्नातमथो अकार्ये ॥ ७० ॥ Koṣakalpataru 6.21.70
  • कोषकल्पतरु शम्बरस्याच्छम्ब[52a]रो दैत्यमृगाद्रिमत्स्य- लोकान्तरेष्वम्भसि तु द्वयोनः । वित्ते च बौद्धव्रतभेदके स्त्री तथौषधौ स्यात्प्रखरस्तु पुंसि ॥ ९० ॥ Koṣakalpataru 6.27.90
  • कोषकल्पतरु सत्त्ववित्तेऽपि सान्त्वं त्विह दक्षिणत्वे स्यात्साम्न्यथेशे नरि सर्व उक्तः । समस्तवाची परवत्प्रदिष्टः [77a]कर्वस्तु कामे नरि मूषके च ॥ ५०० ॥ Koṣakalpataru 6.29.500
  • नानार्थार्णवसंक्षेप पात्रआढके पण्डिते वित्ते नद्याः कूलद्वयान्तरे । प्रधानाङ्गे च सुगुणे पारस्तु नरि पारणे ॥ ७४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.747
  • परमानन्दीयनाममाला पुद्गलपरुषं कर्कशे रूक्षे पुद्गलः कायवित्तयोः । प्रधानं प्रकृतौ पूज्ये महामात्रात्मनोरपि ॥ ३०८ ॥ Paramānandīyanāmamālā 5.19.308
  • शब्दरत्नावली पणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
  • शब्दरत्नावली द्रविणद्रविणं काञ्चने वित्ते पराक्रमे च न द्वयोः । द्रुघणो द्रुहिणेऽपि स्याद् मुद्गरे च परश्वधे ॥ Śabdaratnāvalī 7.15.39
  • शब्दरत्नावली द्युम्नदानु विक्रान्तदात्रोश्च दीना मूषिकयोषिति । वाच्यवद्दुर्गते भीते द्युम्नञ्च बलवित्तयोः ॥ Śabdaratnāvalī 7.20.11
  • शब्दरत्नावली धनधनुर्ना राशिभेदे स्यात्पियालद्रुमचापयोः । धनं वित्ते गोधने च स्नेहपात्रेऽपि न द्वयोः ॥ Śabdaratnāvalī 7.20.12
  • शब्दरत्नावली द्रव्यजया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥ जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥ वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥ तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥ तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ Śabdaratnāvalī 7.26.17
  • शब्दरत्नावली मात्रामन्त्रो वेदगुह्यवाददेवादिसाधनेषु च । मात्रा विचे परिच्छेदे माने कर्णविभूषणे ॥ Śabdaratnāvalī 7.27.28
  • शब्दरत्नाकर पात्रपलाशे वाहनं पत्रं छुरिकायां गरुत्यपि । पात्रं योग्ये भाजने च वित्ते कूलद्वयान्तरे ॥ १९५९ ॥ Śabdaratnākara 4.1.1959
  • शब्दरत्नाकर द्रविणदुरितं व्यसने पापे द्रविणं बलवित्तयोः । उपनीतो व्रती यज्वा नियमस्थश्च दीक्षितः ॥ २१०५ ॥ Śabdaratnākara 4.1.2105
  • वैजयन्ती दायद्वारपाले यमे दण्डी दन्तोऽद्रिकटके रदे । दायो दाने यौतकादिधने वित्ते च पौतृके ॥ २६ ॥ Vaijayantī 6.1.26
  • वैजयन्ती द्रव्यनवनीतेऽनले धर्मे दानं हस्तिमदेऽपि च । द्रव्यं गुणानामाधारे भेषजे योगवित्तयोः ॥ १५ ॥ Vaijayantī 6.3.15
  • वैजयन्ती पात्रपात्रं तु भाजने योग्ये वित्ते कूलद्वयान्तरे । पाथींषि स्वर्गचंद्रार्काः पिच्छं बर्हे खगच्छदे ॥ २१ ॥ Vaijayantī 6.3.21
  • वैजयन्ती हिरण्यहिरण्यं काञ्चने वित्ते मानभेदेऽप्यकुप्यके । हरणं करणे नृत्ते चापेनान्यास्त्रवारणे ॥ ३९ ॥ Vaijayantī 7.3.39