कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रतीत

pratītaवि · adj.

In 12 kośas: 10 synonym verses, 7 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1462 · p. 55
स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ।भूतरूपोपमाः काशः संनीप्रप्रतीतः परः ॥ १४६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ती (wrong syllable)
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.152 · p. 56
ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुताः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.9
प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.35 · p. 4
तथा प्रतीतस्तादृक्तु गुणैराहतलक्षणः ।ईशस्तु ***** पतिरीश्वर ईशिता ॥ ३५ ॥
अनुष्टुप्metre not read in every line
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 108 · p. 54
प्रतीतं संस्तुतं लब्धं दृष्टं परिचितं स्मृतम् ।संस्थितं दशमीस्थं च परासुं च मृतं विदुः ॥ १०८ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.73 · p. 41
विख्यातः प्रथितो ज्ञातः प्रतीतो विश्रुतोऽपि च ।दातोदारो वदान्यश्च त्राता गोप्ता च रक्षकः ॥ ७३ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2715 · p. 440
प्रतीतः प्रथितः ख्यातः वित्तश्च विश्रुतः पुनः ॥ २७१५ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.11 · p. 159
ख्यातप्रथितविज्ञातप्रतीतवित्तविश्रूताः ।गुणैः ख्यातेऽपि च कृतलक्षणाहितलक्षणौ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1589 · p. 192
विश्रुतविदितख्यातप्रथितव्यपदिष्टवित्तविज्ञाताः ।सुरभिप्रतीतकीर्तितवर्णितसुकलप्रसिद्धसुगृहीताः ॥ १५८९ ॥
गीतिः
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1605 · p. 193
अवसितमनितप्रेक्षितभावितवित्तप्रतीतमुपलब्धम् ।संश्रुतविदितसमाहितसंगीर्णानि प्रतिश्रुतोपगते ॥ १६०५ ॥
गीतिः
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.159
ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.32 · p. 71
पर्याप्तं च यथेष्टं स्याच्छक्ते तृप्तौ निवारणे ।प्रतीतं ज्ञातविख्यातहृष्टेषु त्रिषु विश्रुतम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.98 · p. 218
ज्ञातेऽथादरयुक्तप्रज्ञातज्ञातहृष्टेषु ।परवत्प्रतीत उक्तो निर्मुक्तस्त्य[293b]क्तसङ्गे स्यात् ॥ ९८ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.4.32 · p. 44
प्रतीतो हर्षिते ख्याते ज्ञाते प्रत्ययिते बुधे ।सादरे प्रतियातेऽथ प्रणीतः स्यात् प्रवेशिते ॥ ३२ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2129 · p. 258
प्रतीतस्त्रिषु विख्याते प्रीते प्रत्ययिते बुधे ।प्रतिपत्तिथिबुद्ध्योः स्यात् प्रकृतिर्मूलकारणे ॥ २१२९ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.169 · p. 149
खातादौ पूरिते पूर्तं पातो भ्रंशे च रक्षिते ।प्रेषिते च प्रतिक्षिप्तं प्रतीतः सादरेऽपि च ॥ १६९ ॥
अनुष्टुप्
meaningsसादर
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 7.4.16 · p. 255
प्रतीतो भूषिते ख्याते ज्ञाते प्रत्ययिते बुधे ।प्रार्थितं त्वभियुक्ते स्यान्निहिते याचितेऽपि च ॥ १६ ॥
अनुष्टुप्

प्रतीत as a meaning in nānārtha verses

  • धरणिकोश प्रत्ययप्रत्ययश्च प्रतीते स्यात्प्रकृतेश्च परस्तथा । ज्ञाने च शपथे छिद्रे विश्वासाधीनहेतुषु ॥ Dharaṇikośa 25.3.22
  • कोषकल्पतरु वित्तक्षेमेऽन्तिमे शस्तमथ प्रशस्ते त्रयेऽथ वित्तं धनवाचि षण्ढे । ज्ञाने प्रतीते तु विचारिते च त्रयेऽथ वृत्तौ चरितेऽपि वृत्तम् ॥ २९ ॥ Koṣakalpataru 6.16.29