संस्कृत
saṃskṛtaवि · adj.In 11 kośas: 13 synonym verses, 7 as a nānārtha head word, 9 as a meaning of another word.
उच्यते प्रवणः प्रह्वस्तत्परश्च परायणः ।व्युत्पन्नः प्रहतः क्षुण्णः संस्कृतश्च निगद्यते ॥ ३५२ ॥
अनुष्टुप्
genderविadj.
स्मृतमास्थितमाक्रान्तं प्रतीष्टं पतदाहृतम् ।प्रच्छादितं स्यात्संवीतं प्रशस्तं संस्कृतं स्मृतम् ॥ ७८१ ॥
अनुष्टुप्
genderविadj.
व्युत्पन्नः संस्कृतः क्षुण्णः प्रहतोऽथ स्थिरोऽपि च ।नीलीरागो विश्रथः स्यात् स्थिरसौहृद इत्यपि ॥ ४२ ॥
अनुष्टुप्
genderविadj.
ईहामृगोऽङ्क इत्येते भेदा नाटकजा दश ।स्याद्वेददेवयोर्वाणी संस्कृतं प्रकृतिः स्त्रियाम् ॥ ५४ ॥
अनुष्टुप्
genderक्लीneut.
समावृत्तः स्नातकस्तु यो भवेदाप्लुतो व्रती ।गर्भाधानादिसंस्कारैर्युक्तोऽसौ संस्कृतस्त्रिषु ।अभावात्स्त्रीपरित्यागस्तुरगब्रह्मचर्यकम् ॥ २७ ॥
अनुष्टुप्metre not read in every line
genderविadj.
पटीयांश्च पटिष्ठश्च पटोः स्यादतिशायने ।पटिमा पुंसि भावेऽस्य पटुता पाटवं तथा ॥कुशलस्य तु भावे स्यात्कौ[158b]शल्यं कौशलं नपुम् ।नदीष्णस्तु नदीस्नानकुशलः परिकीर्तितः ॥व्युत्पन्नः संस्कृतः क्षुण्णः प्रहतश्च समार्थकाःवदो वदावदो वक्ता वग्नुश्च गदयित्नुवत् ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
संगीर्ण-विदित-समाहित-संस्कृतवाच्यव्ययं त्वाम्स्यात् ।दृष्टं वीक्षितमालोकित-रूपित-निभालिता[नि] स्युः ॥ ५७ ॥
metre not recognised
genderविadj.
मर्षः परिकरः-स्त्रीर्या गतिरिङ्खा सृतिर्गतिः ।भवेदुपसमाधानं समाहारः समुच्चयः ।परिष्कृतं संस्कृतं चोपस्कृतं च समुच्चितम् ॥ ३० ॥
अनुष्टुप्metre not read in every line
genderविadj.
ऋद्धमावसितं धान्यं बहुलीकृतं संस्कृतम् ।खलपूः स्याद्बहुकरश्छादितेयश्छदिस्तृणम् ॥ २१५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तं (wrong syllable)
genderविadj.
संहितं सहितं युक्तं संपृक्तं संभृतं युतम् ।संस्कृतं समवेतं च प्राहुरन्वीतमन्वितम् ॥ १६१ ॥
अनुष्टुप्
genderविadj.
षट् संस्कृतादिकाः भाषाः कथ्यन्ते क्रमशो यथा ।संस्कृतं प्राकृतं शौरसेनी पैशाचमागधी ॥ ४१२ ॥
अनुष्टुप्
genderक्लीneut.
चिद्रूपो हृदयालुश्च सहृदयोऽथ संस्कृतः ।व्युत्पन्नः प्रहतः क्षुण्णः अन्तर्वाणिस्तु शास्त्रवित् ॥ ५१० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
genderविadj.
अपभ्रंशोऽपशब्दस्तु शास्त्रे यः स्यादसंस्कृतः ।संस्कृतः साधुशब्दश्चेत् शास्त्रे शब्द इतीरितः ॥
अनुष्टुप्
genderपुंmasc.
क्षारितः प्राचितः क्षारैरभिशस्तः प्रकीर्तितः ।संस्कृतो भूषिते शस्ते कृत्रिमे लक्षणान्विते ॥
अनुष्टुप्
नीचेऽप्यथ विकृतं स्यादसंस्कृते रोगितेऽश्लीले ।संस्कृतमग्र्ये कृतके लक्षणयुक्तेऽप्यलंकृते पक्वे ॥ ९३ ॥
उद्गीतिः
कारायां सङ्कटेऽन्ये तु सङ्कटे त्रिषु मन्वते ।संस्कृतं त्वाहितोत्कर्षे कृत्रिमे निर्मलीकृते ॥ १८८७ ॥
अनुष्टुप्
त्रिषु स्याल्लक्षणोपेते भाषाभेदे तु पण्डिताः ।नपुंसकं विजानन्ति संसर्पस्तु पुमानयम् ॥ १८८८ ॥
अनुष्टुप्
doubtful
संस्कृतं लक्षणोपेते कृत्रिमे निर्मलीकृते ।मिश्रीकृते च संसृष्टं शुद्धे च वमनादिभिः ॥ २८ ॥
अनुष्टुप्
संस्कृत as a meaning in nānārtha verses
- धरणिकोश अभिनीतपारिजातः कल्पतरौ पारिभद्रतरावपि । अभिनीतः स्मृतो न्याय्ये संस्कृतेऽमर्षवत्यपि ॥ Dharaṇikośa 15.2.72
- कोषकल्पतरु अभिनीतअङ्गारितं दग्धपलाशकल्यु- द्गत्यो रथापावृतमात्मतन्त्रे । छन्नेऽभिनीतस्त्रिषु संस्कृते स्या- न्न्यायेऽपि कोपिन्यथ साहसेऽपि ॥ ४८ ॥ Koṣakalpataru 6.17.48
- कोषकल्पतरु गाथापार्थोऽर्जुने स्यात्ककुभद्रुमे च गाथा स्त्रियां छन्दसि शेषमात्रे । स्यात्संस्कृतान्योक्तिषु चाथ कन्था वस्त्रान्तरे मृन्मयभित्तिकायाम् ॥ ९८ ॥ Koṣakalpataru 6.18.98
- नानार्थार्णवसंक्षेप प्रयतप्रहतः प्रयतस्तु स्यात् संस्कृते पूत एव च । अततं वितते क्षुण्णे प्रदीप्तं त्वपि भासिते ॥ ३६ ॥ Nānārthārṇavasaṃkṣepa 3.4.36
- नानार्थार्णवसंक्षेप अभिनीतअभिजातः कुलीने च न्याय्यपण्डितयोरपि । अभिनीतः संस्कृते च न्याय्ये चामर्षवत्यपि ॥ २ ॥ Nānārthārṇavasaṃkṣepa 6.2
- शब्दरत्नावली प्रेक्षितपृषत्पुमान्मृगे बिन्दौ न द्वयोः पृषतोऽपि च । प्रेक्षितं स्याद्विनिहते सिक्ते च संस्कृते त्रिषु ॥ Śabdaratnāvalī 7.16.120
- शब्दरत्नावली अभिनीतअथावसितमृद्ध स्याज्ज्ञातेऽवसानगे त्रिषु । अर्थपतिर्धनाधीशे भवेन्नरपतौ पुमान् ॥ अवदातो विशुद्धे स्यात्सिते गौरेऽन्यलिङ्गकम् । अवगीतन्तु दृष्टे स्यान्निर्वादे गर्हितेऽपि च ॥ अन्तर्गतं विस्मृते स्यान्मध्यप्राप्तेऽभिधेयवत् । अङ्गारितं स्यात्पलाशकलिकोद्गमदग्धयोः ॥ अपावृतं स्वतन्त्रे स्यात् पिहितेऽप्यभिधेयवत् । अत्याहितं गुरुभये जीवानपेक्षिकर्मसु ॥ अभिनीतः संस्कृते स्यादमर्षिन्याय्ययोस्त्रिषु । अभिजातः पण्डिते स्यात् त्रिषु न्याय्यकुलीनयोः ॥ Śabdaratnāvalī 7.16.153
- वैजयन्ती प्रयतप्रहतौ क्षुण्णव्युत्पन्नौ प्रयतौ पूतसंस्कृतौ । सव्यायत्तौ प्रसव्यौ द्वौ प्रवृद्धौ प्रसृतैधितौ ॥ १८ ॥ Vaijayantī 7.4.18
- वैजयन्ती अभिनीतअभिजातः कुलीने च न्याय्यपण्डितयोरपि । अभिनीतः सुयुक्ते स्यादमर्षवति संस्कृते ॥ १ ॥ Vaijayantī 8.4.1