कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सम्प्रयोग

samprayogaपुं · masc.

In 5 kośas: 4 synonym verses, 1 as a nānārtha head word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.569 · p. 64
संवेशनं निधुवनं सम्प्रयोगो रहो रतिः ।सुरतं मोहनं प्रोक्तं मणितं रतकूजितम् ॥ ५६९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.857 · p. 127
सम्प्रयोगः रहो ग्राम्यधर्मः संवेशनं तथा ।पशुधर्मः पशुक्रिया कामकेलिस्तथा रतिः ॥ ८५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 क्रि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.124 · p. 119
अब्रह्मचर्यकं ग्राम्यधर्मञ्च सुरतं रतं ।सम्प्रयोगो निधुवनं रमणं मैथुनं रतिः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव ब्रह्मवर्गः Trikāṇḍaśeṣa 2.7.31 · p. 61
नान्दीको तोरणस्तम्भो सुरतं त्वभिमानितम् ।घर्षितं सम्प्रयोगं ना रतं चाब्रह्मचार्यकम् ।उपसृष्टं त्रिभद्रं च क्रीडारत्नं महासुखम् ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.120 · p. 17
सम्प्रयोगस्तु सुरतेऽप्यन्वयेऽप्यभिधीयते ।संस्तुवानस्तु सोमे स्यान्महर्षौ चापि होतरि ॥ १२० ॥
अनुष्टुप्