कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सिंहसंहनन

siṃhasaṃhananaवि · adj.

In 9 kośas: 9 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.355 · p. 18
सिंहसंहननः स्वङ्गः स्वतन्त्रो निरवग्रहः ।यथाकामी स्वरुचिश्च स्वच्छन्दः स्वैर्यपावृतः ॥ ३५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.12
वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ १२ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.21 · p. 216
पुंस्युपाधिः सुन्दराङ्गः सिंहसंहननो हि सः ।निर्वार्यः कार्यकर्ता यः सम्पन्नः सत्त्वसम्पदा ॥ २१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.41 · p. 5
आपन्नजीविकः प्राप्तजीविकश्च समावुभौ ।वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ ४१ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.640 · p. 109
स्यादभ्यागारिकोपाधिः कुटुम्बव्यापृते पुमान् ।श्रेष्ठावयवरूपो यः सिंहसंहननो हि सः ॥ ६४० ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.525 · p. 66
अथ स्वङ्गस्तथा सिंहसंहननोऽपि मन्यते ।स्यात् स्वतन्त्रः स्वछन्दश्च स्वैरी वै स्वरुचिस्तथा ॥ ५२५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 3, syllable 5 स्व (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.15 · p. 159
स्यात् सिंहसंहननो वराङ्गरूपसंयुते ।निर्वार्यः कार्यकर्ता यः सत्त्वसम्पत्तिसङ्गतः ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1655 · p. 198
अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ।सिंहसंहननः श्रेष्ठरूपवान् प्रशमी प्रशान् ॥ १६५५ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.6 · p. 201
पीनस्तु पीवरः पीवा प्रबलो मांसलोंऽसलः ।सिंहसंहननः स्वंगस्तुण्डिरुन्नतनाभिकः ॥ ६ ॥
अनुष्टुप्
genderविadj.