मिथुन
mithunaक्ली · neut.In 19 kośas: 24 synonym verses, 9 as a nānārtha head word, 16 as a meaning of another word.
राका तु सरजाः कन्या स्त्रीधर्मः पुष्पमार्तवम् ।रजस्तत्कालस्तु ऋतुः सुरतं मोहनं रतम् ॥ ५३६ ॥संवेशनं संप्रयोगः संभोगश्च रहो रतिः ।ग्राम्यधर्मो निधुवनं कामकेलिः पशुक्रिया ॥ ५३७ ॥व्यवायो मैथुनं स्त्रीपुंसोर्द्वंद्वं मिथुनं च तत् ।
अनुष्टुप्
genderक्लीneut.
स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम् ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
युग्मं युगं च युगलं द्वन्द्वं द्वितयं यमं यमलम् ।स्त्रीपुंसयोस्तु युग्मं मिथुनं परिकथ्यते सद्भिः ॥ ७०० ॥
उपगीतिः
genderक्लीneut.
खञ्जनः खञ्जरीटः स्यान्मिथुनो वसुदृग्विधुः ।श्रीमान्त्रिकेतुर्मेधावी शुकस्त्वलिफलाशनः ॥ २९८ ॥
अनुष्टुप्
genderपुंmasc.
अजक्रियो मेषसंज्ञा प्रोक्ता बुधैश्च गोवृषम् ।मिथुनो वैणिको युग्मो प्रोक्तो कर्कश्व कीटकः ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 बु (wrong syllable)
genderपुंmasc.
तुलामिथुनसंज्ञाश्च कोदण्डाद्यं दलं नराः ।नक्रस्यान्त्यदलं मीनो घटश्चजलराशयः ॥ ११४ ॥
अनुष्टुप्
genderक्लीneut.
वृषाजचापिमिथुननक्रकर्कानिशावला ।तथापि मिथुनाजश्च पृष्ठोदयाश्च राशयः ॥ ११६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
genderक्लीneut.
स्त्री द्वयी द्वितयं द्वन्द्वे युगलं यमलं युगम् ।स्त्रीपुंसौ मिथुनं युग्मं द्वैतं च युतकं मिथु ॥ २०६ ॥
अनुष्टुप्
genderक्लीneut.
ग्रहावर्त्तद्वादशोंशो राशिः पुंस्यथ ते क्रमात् ।मेषो वृषश्च मिथुनं क्लीबे कन्यातुले स्त्रियौ ॥ २२५ ॥
अनुष्टुप्
genderक्लीneut.
मेषः क्रियोऽथ वृषभस्तावुरिनामाथ जितुमकं मिथुनम् ।कर्क-कुलीरौ लेयः सिंहः कन्या तु पार्थो[थो]नः ॥ १०७ ॥
आर्या
genderक्लीneut.
स्त्रीपुंसौ मिथुनं द्वंद्वेऽपत्ययुग्मं च युग्युगम् ।युगलं यमलं द्वंद्वं यमं संघाटिका द्वयम् ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
एते स्त्रियां भवन्ति । इयं मेधा धारणाशक्तिः । रसना शक्तिर्मेखला च ।निद्रा सुप्तिः । तन्द्रा आलस्यम् । तन्त्री वाद्यविशेषः । मञ्जिष्ठा रागद्रव्यम् । स्यातां भवेतामित्यर्थः । इयं मदिरा सुरा । मन्दुरा वाजिशाला । कृशरा तिलयवागूः । अक्षैर्दीव्यते अक्षग्रहणं वादित्रसम्बन्धनिवृत्त्यर्थम् । वाद्यं दुन्दुभिरित्यर्थः ।धान्यद्विदलांशुकवितानवलयरत्नमिथुनश्मशानानि ।बिसतिमिराण्यपि विद्यान्नपुंसकेऽग्रखे चैव ॥ ६४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 वे (syllables merged)
genderक्लीneut.
संभोगो ग्राम्यधर्मश्च मैथुनं कामकेल्यपि ।पशुक्रियानिधुवने व्यवायो मिथुनं च तत् ॥ २०१ ॥
अनुष्टुप्
genderक्लीneut.
यमलं मिथुनं द्वैतं त्रयं च त्रितयं त्रयी ।समूहो निवहो व्यूहो वृन्दं चक्रं कदम्बकम् ॥ ८४ ॥
अनुष्टुप्
genderक्लीneut.
राशीनामुदयो लग्नं स च मेषो वृषस्तथा ।मिथुनः कर्कटः सिंहः कन्या तुला च वृश्चिकः ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderपुंmasc.
genderक्लीneut.
मेषो वृषश्च मिथुनं कर्कटः सिंह एव च ।कन्या तुला वृश्चिकश्च धनुर्मकर इत्यपि ॥
अनुष्टुप्
genderक्लीneut.
स्त्रीपुंसौ मिथुनं द्वन्द्वं द्वन्दमित्यपि कुत्रचित् ।द्वन्द्वञ्च यमलं युग्मं स्याद्युगं युगलञ्च युक् ॥
अनुष्टुप्
genderक्लीneut.
वत्, पक्षान्तरे चेत्, चाऽवधृतौ वा वैव मेव च ।द्वौ द्वावित्यर्थे मिथुनं मिथो मिथुश्च सान्तिमे ॥ १०९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable); pāda 4, syllable 3 मि (wrong syllable)
genderअindecl.
प्रडीनोड्डीनसंडीनान्येताः पक्षिगतिक्रियाः ।अण्डं कोशः स्त्रियां पेशी मिथुनं द्वन्द्वमित्युभे ॥ ८२५ ॥
अनुष्टुप्
genderक्लीneut.
द्वन्द्वं द्वन्दं युगलं युग्मं युगं मिथुनं मिथः ॥ ३४ ॥
genderक्लीneut.
मधु सर्पिश्च मिथुनं यूषोऽस्त्री यूः पुमान्रसे ।परिवेषणं वर्धनं च प्रतीच्छा पततो ग्रहः ॥ १०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
मिथुनं द्वितयं द्वैतं द्वयं द्वंद्वं युगं यमम् ।यमलं युगलं युग्मं युतकं च द्वयोर्गणे ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
त्रयं त्रयाणां त्रितयं मिथुनं तद्वति त्रिषु ।स्त्रीपुंसयोस्तु मिथुनं कशिपुः स्त्र्यन्नवस्त्रयोः ॥ १६ ॥
अनुष्टुप्
genderविadj.
स्पृक्कार्थकं स्त्री शकुनस्तु पुंसिखगान्तरे पक्षिणि षण्ढके तु ।शुभाशुभाशंसिनिमित्तवाचीस्त्रीपुंसयुग्मे मिथुनं च राशौ ॥ २६ ॥
उपजातिः
खस्याभ्रके ब्रह्मणि च मीनमेषविषाणिनाम् ।मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनाम् ॥ ९ ॥
अनुष्टुप्
meanings
मिहिरस्तु पुमान् सूर्यवायुमेधेषु नब्जले ।मिथुनं तु क्लीबलिङ्गं स्त्रीपुंसयुगले तथा ॥ १४२३ ॥
अनुष्टुप्
meaningsस्त्रीपुंसयुगल
मधुर्सर्पिर्द्वये राशौ तृतीये स्याद्द्वयोर्गणे ।युग्माख्ये तद्वति पुनस्त्रिषु स्यान्मिथुनं पुनः ॥ १४२४ ॥
अनुष्टुप्
दम्पत्योः पुंसि नब्लिङ्गं पुनः स्याच्च घृताञ्जने ।मिश्रकं यजमानस्य त्रि तु मिश्रयितर्यसौ ॥ १४२५ ॥
अनुष्टुप्
doubtful
संख्याभेदेऽपि शंखस्य मीनमेषविषाणिनाम् ।मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनाम् ॥ १४ ॥
अनुष्टुप्
meanings
मिथुन as a meaning in nānārtha verses
- धरणिकोश द्वन्द्वपक्वं विनाशाभिमुखं पक्वं परिणतार्थकम् । द्वन्द्वं रहसि चार्थे च वैरे मिथुनयुग्मयोः ॥ Dharaṇikośa 28.2.7
- कोषकल्पतरु शङ्कुभेकस्त्ववानपि(?)वधूकरणे तु शौकं नाकुर्मुनौ कृमिगिरौ [च गिरौ] तथोक्तः । शङ्कुः पुमान्सलिलजन्तुविभेदकील- शंभ्वस्त्रकेषु मिथुने तु चतुर्दशेऽङ्के ॥ २२ ॥ Koṣakalpataru 6.1.22
- कोषकल्पतरु अरणिसंकीर्णं प्रमथान्तरेऽश्वतरके नागे मृगेऽनामिका- ङ्गुष्ठोन्मानगतश्च पुंसि गदितो गोकर्ण एवं बुधैः । मूर्वायां वनितारणिस्तु मिथुने निर्मथ्यकाष्ठे पुमां- स्तर्क्वायांशरणिः स्त्रियां च सरणिः पङ्क्तौ तथा वर्त्मनि ॥ ३८ ॥ Koṣakalpataru 6.15.38
- कोषकल्पतरु गर्मुत्गर्मुत्स्वर्णलतार्थकोऽपि मिथुने भूभृन्नृपेऽद्रौ मतः । पित्सन्पक्षिणि नान्यवत्तु पतनेच्छौ कुत्सिते त्वन्यवत् । कुर्वत्कर्मकरेऽथ पुंसि तिल[296a]के श्रीमान्मनोज्ञेऽन्यव- ल्लक्ष्मीवत्यपि चार्वती तु हयिकायां कुम्भदास्यामपि ॥ २५ ॥ Koṣakalpataru 6.16.25
- कोषकल्पतरु पृश्निवह्निर्हुताशे नरि चित्रके च भल्लातके वह्निसमोऽपि चाग्निः । पृश्निर्मयूखे मिथुने जनन्यां विष्णोः स्त्रियामल्पतनौ तु भेद्ये ॥ ६ ॥ Koṣakalpataru 6.21.6
- कोषकल्पतरु कुम्भजम्भस्तु दैत्ये नरि भक्षणे च जृम्भे रदे दन्तशठे तु न स्त्री । कुम्भो घटे स्यान्मिथुने च कुम्भ- कर्णस्य पुत्रे गणिकापतौ च ॥ ४० ॥ Koṣakalpataru 6.24.40
- कोषकल्पतरु पुष्यस्त्री त्वामलक्यां [38b] मिथुने तु पुष्यो भे त्वामलक्यां गदितः स्त्रियां च । दूष्यं तु वस्त्रेऽपि च वस्त्रगेहे स्याद्दूषणीये परवत्स्त्रियां तु ॥ ४६ ॥ Koṣakalpataru 6.26.46
- कोषकल्पतरु द्वंद्वपक्वं विनाशोन्मुखपाकभाजो- र्द्वंद्वं रहस्ये मिथुने च युग्मे । भवेद्द्वयांतं कलहे समास- भेदे तु पुंसीति वदन्ति सन्तः ॥ ६ ॥ Koṣakalpataru 6.29.6
- कोषकल्पतरु गण्डूषअह्नो मुखेऽथाननपूरणे स्या- द्गण्डूष उक्तो मिथुने तथैव । हस्ताङ्गुलौ च द्विरदस्य तद्वत् बुधैः प्रदिष्टः प्रसृतोन्मिते च ॥ ५४ ॥ Koṣakalpataru 6.30.54
- कोषकल्पतरु वाहईहा द्वयोरुद्यमवाञ्छ[92b]योः स्या- त्स्कन्दे गुहो योषिति सिंहपुच्छ्याम् । दर्यां च वाहो मिथुने भुजायां ना मानबाह्वश्ववृषेषु दिष्टा ॥ ४३ ॥ Koṣakalpataru 6.32.43
- नानार्थार्णवसंक्षेप द्वन्द्वन स्त्री भागेऽथ ना द्वन्द्वः समासे चार्थचोदिते । नृशण्डस्तु युधि क्ली तु रहस्ये मिथुनेऽपि च ॥ ५७७ ॥ Nānārthārṇavasaṃkṣepa 2.5.577
- नानार्थार्णवसंक्षेप समीकस्यमीकस्त्वपि वल्मीके नृपगोत्रे च कुत्रचित् । वृक्षेऽप्यथ समीकः स्यादर्णवे मिथुनेऽपि च ॥ २३२ ॥ Nānārthārṇavasaṃkṣepa 3.2.232
- शब्दरत्नावली द्वंद्वद्वंद्वं रहस्ये कलहे तथा मिथुनयुग्मयोः ॥ Śabdaratnāvalī 7.29.9
- शब्दरत्नाकर द्वन्द्वद्वन्द्वं वसन्तग्रीष्मादिमिथुने कलहे युगे । दृष्टिर्दर्शनधीदृक्षु दाम प्रग्रहमाल्ययोः ॥ १९४१ ॥ Śabdaratnākara 4.1.1941
- वैजयन्ती द्वन्द्वद्वंद्वं युग्मं हिमोष्णादि मिथुनं कलहो रहः । धाम जन्मप्रभावान्नभाः सु खे भोजने गृहे ॥ १६ ॥ Vaijayantī 6.3.16
- वैजयन्ती समीकमन्त्री सहायः सचिवः सहुरी वृषभास्करौ । स्यमीकौ वृक्षवल्मीकौ समीकौ मिथुनार्णवौ ॥ ७५ ॥ Vaijayantī 7.1.75