कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अद्रिभेद

adribheda

In 5 kośas: 0 synonym verses, 10 as a meaning of another word.

अद्रिभेद as a meaning in nānārtha verses

  • धरणिकोश चक्रवाडनिर्गुण्डी सिन्धुवारे स्यात्स्वर्णसेफालिकापि च । द्राविडाः स्यु[25]र्जनपदा द्राविडो वेधमुख्यकः । चक्रवाडोऽद्रिभेदे स्याच्चक्रवाडं तु मण्डलम् ॥ Dharaṇikośa 12.1.10
  • कोषकल्पतरु रैवतसंघात उक्तोऽथ हरेऽद्रिभेदे स्याद्रैवतोऽथाल्पतनौ किरातः । स्यान्नार्यति[ति ? ]क्तेऽन्त्यजजातिभेदे मन्दाकिनीकुट्टनिकागतः स्त्री ॥ ११ ॥ Koṣakalpataru 6.16.11
  • कोषकल्पतरु विन्ध्यव्याधेऽद्रिभेदे गदित[39a]श्च विन्ध्यः स्त्रियां लवल्यामवधौ तु सन्ध्या । चिन्ताप्रतिज्ञाकुसुमान्तरेषु पितृप्रसूसन्धिसरिद्गता च ॥ ५२ ॥ Koṣakalpataru 6.26.52
  • कोषकल्पतरु चैत्रमासेऽद्रिभेदे च पुमानथ स्याद् वृत्रो रिपौ दानवशक्रयोश्च । ध्वान्ते घने पर्वतवाचकोऽथ सत्रं वने वाससि कैतवे च ॥ ३० ॥ Koṣakalpataru 6.27.30
  • कोषकल्पतरु दर्दुरस्याद्दर्द्दरोऽद्रौ त्रिषु चाल्पभग्ने- ऽथो दर्दुरस्तोयदभेकयोश्च । स्याद्वाद्यभाण्डान्तरकेऽद्रिभेदे ग्रामव्रजे स्त्री पुनरम्बिकायाम् ॥ २३ ॥ Koṣakalpataru 6.27.23
  • कोषकल्पतरु ऋक्षऋक्षोऽद्रिभेदे कृतवेधने च तथाच्छभल्ले नरि शोणके च । भे तु स्त्रियामेष न गुह्यके स्यात् यक्षः कुबेरेऽथ मुनिप्रभेदे । दक्षो विधौ नन्दिनि ताम्रचूडे द्रुमेऽनले भेद्यसमः पटौ सः । भुवि स्त्रियां पक्ष इहार्धमासे पार्श्वे ग्रहे साध्यविरोधयो[85a]श्च ॥ ४८ ॥ Koṣakalpataru 6.30.48
  • नानार्थार्णवसंक्षेप परागस्नानीयादौ च रभसस्त्वद्रिभेदोपरागयोः । विख्यातौ चाथ सम्प्रोक्तः पर्यायोऽवसरे क्रमे ॥ १५० ॥ Nānārthārṇavasaṃkṣepa 3.2.150
  • शब्दरत्नाकर क्रौञ्चआह्वाने रोदने क्लेशस्त्वविद्याद्युपतापयोः । खगाद्रिभेदयोः क्रौञ्च ऋषिभेदेऽध्वरे क्रतुः ॥ १८९४ ॥ Śabdaratnākara 4.1.1894
  • त्रिकाण्डशेष क्रौञ्चप्रतिमापूजयोरर्चा क्रौञ्चः पक्ष्यद्रिभेदयोः । कूर्चमस्त्री भ्रुवोर्मध्ये श्मश्रुकैतवयोरपि ॥ ७४ ॥ Trikāṇḍaśeṣa 3.3.74
  • त्रिकाण्डशेष अतक्षिप्राद्रिभेदयोरतः स्याल्लाजेष्वपि चाक्षतम् । कृषावसत्येऽप्यनृतमाकृतिर्जातिरूपयोः ॥ १४७ ॥ Trikāṇḍaśeṣa 3.3.147