चैत्र
caitraपुं · masc.In 15 kośas: 16 synonym verses, 6 as a nānārtha head word, 7 as a meaning of another word.
चैत्रो मधुश्चैत्रिकश्च वैशाखे राधमाधवौ ॥ १५३ ॥
metre not recognised
genderपुंmasc.
पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने ।स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 फा (wrong syllable)
genderपुंmasc.
स्यात् फाल्गुनः फाल्गुनिकश्चैत्रे चित्रिकाचित्रको ।श्रावणः स्यात् श्रावणिको ज्यैष्ठे ज्येष्ठोऽपि वर्तते ॥ ३४ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 का (wrong syllable); pāda 3, syllable 5 श्रा (wrong syllable)
genderपुंmasc.
चैत्रश्च चैत्रिकोऽथ द्वौ वैशाखे राधमाधवौ ।उत्सरः स्यादथ ज्येष्ठे ज्यैष्ठश्च खरकोमलः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
रविदेवो द्वयोर्हस्तस्तज्जे हस्तोऽथ नृस्त्रियोः ।चित्रा त्वाष्ट्र्यथ तज्जा स्त्री चित्रा चैत्रो परो द्वयोः ॥ ९० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
[31b]फाल्गुनाडश्च(श्चि)त्रिकस्तु चैत्रः पुष्पाकरो मधुः ।राधमाधववैशाखा ज्येष्ठामूलीयकः पुनः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
हिमवान्हेमकूटश्च निषधो मेरुरेव च ।चैत्रः शृङ्गी च कर्णी च सप्तैते वर्षपर्वताः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
संवत्सरपुंहायनपुंअब्दपुंगिरिपुंपर्वतपुंधरपुंशैलपुंमासपुंचैत्रपुंवैशाखपुंज्येष्ठपुंआषाधपुंअर्णवपुंसमुद्रपुंसागरपुंपारावारपुंसरित्पतिपुंऋतुपुंवसन्तपुंग्रीष्मपुंदेवपुंसुरपुंअसुरपुंदैत्यपुंशरपुंकाण्डपुंअसिपुंखड्गपुंमण्डलाग्रपुंपङ्कपुंकर्दमपुंजम्बालपुंअरिपुंशत्रुपुंवैरिन्पुंरिपुपुंविपक्षपुंभास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीईषिकास्त्रीविद्युत्स्त्रीदिश्स्त्रीभूमिस्त्रीवल्लीस्त्रीसरित्स्त्री
genderपुंmasc.
तपा माघस्त्वथ फाल्गुनिकः फाल्गुन इत्यपि ।तपस्योऽथ मधुश्चैत्रचैत्रिकौऽप्यथ माधवः ॥ १४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable)
genderपुंmasc.
चैत्रस्तु चैत्रिकश्चैव मधुश्च फाल्गुनानुजः ।कामसखस्तथा मोहनिकराधस्तु माधवः ॥ १४८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable); pāda 3, syllable 3 स (wrong syllable)
genderपुंmasc.
हिमवान् हेमकूटश्च निषधो मेरुरेव च ।चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः ॥
अनुष्टुप्
genderपुंmasc.
फल्गुनश्च फाल्गुनिको मधौ चैत्रः सचैत्रिकः ।शुक्रे तु ज्येष्ठा-मूलयोर्ज्येष्ठ-ज्येष्ठौ त्रयोप्यऽमी ॥ ४४ ॥
metre not recognised
genderपुंmasc.
मठस्त्रिष्वावसथ्यश्चावसथः स्तूप-तूपकौ ।आयतनविशेषेऽथो मृतचैत्ये तु चैत्रवत् ॥ ३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
genderक्लीneut.
मासश्चैत्रो यथैवं स्युर्वैशाखप्रमुखाः परे ।चैत्रे मधुश्चैत्रिकोऽथ वैशाखे राधमाधवौ ॥ २४९ ॥
अनुष्टुप्
genderपुंmasc.
वज्रकीटोऽथ मैत्रेयो युवराज्ञोऽजितश्च सः ।चीवरी श्रमणो भिक्षुर्बल्यश्चैत्रोऽथ चेलुकः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
तपस्ये फल्गुनालश्च चैत्रे मौहनिको मधुः ।चैत्रिको मन्मथसखो वैशाखो राध उच्छुनः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
मासेऽद्रिभेदे च पुमानथ स्याद्वृत्रो रिपौ दानवशक्रयोश्च ।ध्वान्ते घने पर्वतवाचकोऽथसत्रं वने वाससि कैतवे च ॥ ३० ॥
इन्द्रवज्रा
doubtful
पुल्कसादपरे क्ली तु चेलं वस्त्रेऽधमे त्रिषु ।चैत्रः पुंसि वसन्तस्य प्रथमे मास्यथ स्त्रियाम् ॥ ४३५ ॥
अनुष्टुप्
meaningsमास
चीरी स्त्रियां झिल्लिकायां चीरिर्नेत्रांशुकेऽपि च ।चुक्रं वृक्षाम्लके स्त्री तु चाङ्गेर्य्यां ना तु वेतसे ॥चैत्रे मासे गिरौ पुंसि चैत्रं देवकुले मृते ।छत्रं क्लीबमातपत्रे छत्रामिशिशिलीन्द्रयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable)
चैत्र as a meaning in nānārtha verses
- धरणिकोश मधुमधु मद्ये च क्षौद्रे [च मधु] पुष्परसे जले । मधुश्चैत्रे मधूके तु मधुर्दैत्यवसन्तयोः ॥ Dharaṇikośa 18.3.1
- कोषकल्पतरु मधुमधुर्वसन्ते दनुजे च चैत्रे मधूकवृक्षे च पुमानशोके । स्त्रियां न नीरे मदिरासु दुग्धे क्षौद्रे तथा पुष्परसे प्रदिष्टः ॥ ६६ ॥ Koṣakalpataru 6.20.66
- नानार्थार्णवसंक्षेप सुगन्द्धित्रि तु तद्वति चारौ च श्रेष्ठे च स्यात् स्त्रियां पुनः । + + + + + वह्नौ स्यात् तथा चैत्रवसन्तयोः ॥ १९९० ॥ Nānārthārṇavasaṃkṣepa 4.1990
- शब्दरत्नाकर मधुमधुस्तु यादवे चैत्रे वसन्ते दानवान्तरे । वा पुंसि मद्ये क्लीबे तु स्यात् क्षौद्रमकरन्दयोः ॥ १९७७ ॥ Śabdaratnākara 4.1.1977
- त्रिकाण्डशेष मधुदैत्येचैत्रवसन्तेषु द्रुमभेदे च ना मधुः । मिद्धं चिन्तातिसंक्षेये निद्रायां चाऽथ मागधी ॥ २२० ॥ Trikāṇḍaśeṣa 3.3.220
- वैजयन्ती मधुक्षौद्रादौ तद्रसेऽप्यस्त्री ना वसन्ते रसेऽसुरे । चैत्रे मधूके क्ली त्वप्सु मद्ये पुष्परसे मधु ॥ ६१ ॥ Vaijayantī 6.5.61
- वैजयन्ती सुरभिसुरभिर्वाच्यवत् सौम्ये सुगन्धौ स्त्री त्वसौ गवि । पुमांश्चैत्रे वसन्ते च सेवकौ स्यूतभाजकौ ॥ ९३ ॥ Vaijayantī 7.5.93