कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

डान्ताः · डपादः

॥ इति ठान्तवर्गः ॥

॥ डपादः ॥

अण्डं पेश्यां च मुष्के च खण्डौ काननगोपती ।पण्डः क्लीबे मतिः पण्डा व्याडः पन्नगहिंस्रयोः ॥
12.1.1 · p. 43
अनुष्टुप्
पीडे बाधानुकम्पे च गडो मीनान्तराययोः ।गडुः पृष्ठगुडे कुब्जे षडः पेयान्तरं भिदा ॥
12.1.2 · p. 43
अनुष्टुप्

[॥ डार्धश्लोकः ॥]

पाण्डुः कुन्तीपतौ प्रोक्तः पाण्डुः पाण्डर इष्यते ।शौण्डो मत्ते च विख्यातः शौण्डा च पिप्पली मता ॥
12.1.3 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
रण्डा मृतधवा नारी रण्डा मूषिकपर्ण्यपि ।क्रोडः शनैश्चरः प्रोक्तः क्रोडौ शूकरवक्षसी ॥
12.1.4 · p. 43
अनुष्टुप्
चोडो देशविशेषः स्याच्चोडः प्रावरणान्तरम् ।चूडा बाहुविभूषायां चूडे तु वलभीशिखे ॥
12.1.5 · p. 44
अनुष्टुप्
नीडं स्थाने खगावासे सकारपूर्वकोऽन्तिके ।नाडी व्रणो धमन्यां च नाडी स्यान्[नाल]कालयोः ॥
12.1.6 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
इडा चन्द्रकलाद्यं स्यागवि भूमौ च वाचि च ।जडो मूर्खे हिमग्रस्ते शूकशिम्बी जडा मता ॥
12.1.7 · p. 44
अनुष्टुप्
प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः ।पिचिण्ड उदरे ज्ञेयः पिचिण्डोऽवयवः पशोः ॥
12.1.8 · p. 44
अनुष्टुप्
शिखण्डः कथितः सद्भिश्चूडायां शिखिपुच्छके ।कोदण्डं कार्मुकं प्रोक्तं कोदण्डो भ्रूलतापि च ॥
12.1.9 · p. 44
अनुष्टुप्
निर्गुण्डी सिन्धुवारे स्यात्स्वर्णसेफालिकापि च ।द्राविडाः स्यु[25]र्जनपदा द्राविडो वेधमुख्यकः ।चक्रवाडोऽद्रिभेदे स्याच्चक्रवाडं तु मण्डलम् ॥
12.1.10 · p. 44
अनुष्टुप्