कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रैवत

raivataपुं · masc.

In 8 kośas: 6 synonym verses, 8 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.82 · p. 257
मधुपीलुर्महावृक्षोऽथ पारेवतमस्त्रियाम् ।आरेवतो रेवतश्च रैवतोऽपि सुधाफलः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.15 · p. 342
सुवेलः स्यात्त्रिमुकुट इन्द्रकीलस्तु मन्दरः ।उज्जयन्तो रैवतः स्यात्सुदारुः पारियात्रकः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.22 · p. 441
रैवतश्चाक्षुषो वैवस्वतः सावर्णिकः परः ।दक्षब्रह्मधर्मरुद्ररुचिभूतिसुताः क्रमात् ॥ २२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह्म (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.101 · p. 143
तूलं तूली चाथ पालेवतं पारेवतं तथा ।महापालेवतं रक्तमाणावं रैवतं च तत् ॥ १०१ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.311 · p. 43
रैवते तूज्जयन्तः स्याद्गुहायां गह्वरं मतम् ।देवखातबिले च स्याद्दरी स्त्री कन्दरोऽस्त्रियाम् ॥ ३११ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.70 · p. 223
क्रौञ्चे क्रुङ् तथा कौञ्जोऽपि, विन्ध्ये मेकल-मेखलौ ।उज्जयन्ते रैवतको रैवतश्चक्रवालवत् ॥ ७० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 था (wrong syllable); pāda 3, syllable 5 रै (wrong syllable)
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.51 · p. 75
रैवतः कथितो रुद्रे दैत्यपर्वतभेदयोः ।निवातो दृढसंनाहे निर्वाते चाश्रयेऽपि च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.11 · p. 219
संघात उक्तोऽथ हरेऽद्रिभेदेस्याद्रैवतोऽथाल्पतनौ किरातः ।स्यान्नार्यति[ति ? ]क्तेऽन्त्यजजातिभेदेमन्दाकिनीकुट्टनिकागतः स्त्री ॥ ११ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1524 · p. 180
कर्मभूते रेचयतेः सम्पृक्ते च वियोजिते ।रैवतस्तु पुमान् वारिवाहभूधरयोः स्मृतः ॥ १५२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1525 · p. 180
आरग्वधे शैलभेदे शङ्करे रभसोऽपठीत् ।रेवतीकालजाते च तथा मेढ्रवति स्मृतः ॥ १५२५ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1526 · p. 180
नपुंसकपदार्थे तु शण्डलिङ्गः स्त्रियां पुनः ।जातार्थे रेवतीत्येव लुप्यते ह्यत्र तद्धितः ॥ १५२६ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1527 · p. 180
सम्बन्धिनि तु रेवत्या भेद्यलिङ्गं हि रैवतम् ।रोचना तु स्त्रियां रक्तकल्हारेऽपि वरस्त्रियाम् ॥ १५२७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.128 · p. 221
रसितं क्लीबलिङ्गं स्याद् रुते जलदगर्जिते ।त्रिषु स्वर्णादिखचिते रसयुक्ते च कुत्रचित् ॥रेवती तारकामातृभिदोश्च रामयोषिति ।रैवतः स्यात्सुवर्णालुवृक्षे शैलान्तरे शिवे ॥रोहितो मीनमृगभिद् रोहितकद्रुमेषु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.181 · p. 153
शैलभेदे सुवर्णालौ शङ्करेऽपि च रैवतः ।स्वर्णाद्यक्तेऽपि रसितं कस्तूरीपृक्कयोर्लता ॥ १८१ ॥
अनुष्टुप्