कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अपस्कर

apaskaraपुं · masc.

In 9 kośas: 8 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.548 · p. 31
रथगुप्तिस्तु वरूथो रथाङ्गानि त्वपस्कराः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.55
धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.448 · p. 51
अपस्करो रथाङ्गः स्यादणिरक्षाग्रकीलिका ।नियन्ता प्राजिता क्षत्ता दक्षिणस्थश्च सारथिः ॥ ४४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.82 · p. 261
अपस्करो रथाङ्गं स्यान्नभ्योऽक्षो नाभये हितः ।सर्वं स्याद्वाहनं बाह्यं वह्यं पत्रं च धोरणम् ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.313 · p. 64
यानस्थानेऽव(प?)स्करस्तु रथावयव इष्यते ।चक्रान्ते लोहवलये सर्वतो निहिते प्रधिः ॥ ३१३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1236 · p. 194
वरूथो रथगुप्तिः स्याद् लोहावृत्तं रथोपरि ।अपस्करा रथाङ्गानि नामानि विदितानि वै ॥ १२३६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1317 · p. 160
अपस्करो रथाङ्गं स्यात्तद्भेदे गण्डकोऽस्त्रियाम् ।प्रवाहिर्ना वृत्तमध्ये रथे कूबरवर्जिते ॥ १३१७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.135 · p. 115
स्त्री नेमिर्ना प्रधिश्चक्रप्रान्ते तुंबा तु नाभिका ।अरास्तयोः स्थिता मध्ये रथांगानि त्वपस्कराः ॥ १३५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रपादः Dharaṇikośa 26.1.22 · p. 165
अवस्करौ गुह्यगूथौ अपस्करं रथाङ्गकम् ।सहचरः सखा झिञ्टी दण्डधारो यमे नृपे ।मधुकरौ कामिभृङ्गौ विभाकरोऽग्निसूर्ययोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्क (wrong syllable); pāda 3, syllable 3 च (wrong syllable)