कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

रान्ताः · रपादः

॥ इति यान्तवर्गः ॥

॥ रपादः ॥

रशब्दः पावके तीक्ष्णे रैशब्दः कनके धने ।धूश्चिन्ता धूश्च भारोऽग्रे चाश्विशेकदेशयोः ? ॥
26.1.1 · p. 161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नरः स्यादर्जुने मर्त्ये भरो निर्भरभारयोः ।ताम्नं शुल्बे वर्णभेदे चरुर्हव्यार्थभाण्डयोः ॥
26.1.2 · p. 161
अनुष्टुप्
मरू पर्वतधन्वानौ शारौ शबलमारु[77]तौ ।खरः स्याद्गर्दभे तीक्ष्णे चौरश्चोरसुगन्धयोः ॥
26.1.3 · p. 162
अनुष्टुप्
अद्रयो द्रुमशैलार्का गृध्रोऽतिलुब्धपक्षिणोः ।शक्रं स्यात्कुटजे नस्त्री व्यग्रो व्यासक्त आकुलः ॥
26.1.4 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable)
स्वरुर्यूपपार्धके वज्रे स्वरः स्वच्छन्दमन्दयोः ।मित्रो रविः सुहृन्मित्रं राष्ट्रमुत्पातदेशयोः ॥
26.1.5 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दारु काष्ठे देवदारौ कारुः शिल्पिनि कारके ।क्षरं जलं क्षरो मेघो द्वारं तु द्वारि चागतौ ॥
26.1.6 · p. 162
अनुष्टुप्
उस्रो रश्मिस्तु गौरुस्रा तन्द्री निद्राप्रमीलयोः ।सुरो देवे सुरा मद्ये वध्रं त्रिपुवरत्रयोः ॥
26.1.7 · p. 162
अनुष्टुप्
आर्द्रा ऋक्षे क्लिन्नमार्द्रमस्त्रमायुधलोहयोः ।अभ्रं व्योम…शुभ्रं शुक्रप्रदीप्तयोः ॥
26.1.8 · p. 162
metre not recognised
शास्त्रं ग्रन्थे निदेशे च शस्त्रमायुधलोहयोः ।क्षीरं दुग्धे च नीरे च भूरि प्राज्यसुवर्णयोः ॥
26.1.9 · p. 163
अनुष्टुप्
कृच्छ्रं दुःखं प्रायश्चित्तं सरः स्थाणुः सरो गतिः ।ऐन्द्रिः काके जयन्ते च पुरुर्भूरिपरागयोः ॥
26.1.10 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
सिप्रः स्वेदो नदी सिप्रा इरा भूवाक्सुराप्सु च ।हिंस्त्रा काकादनी चापि व्याघ्री निदिग्धिकापि च ॥
26.1.11 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
प्रस्तरौ मणिपाषाणौ संस्तरौ प्रस्तराध्वरौ ।अण्डीरौ शक्तपुरुषौ प्रवीरौ सुभटोत्तमौ ॥
26.1.12 · p. 163
अनुष्टुप्
विस्तारौ विततस्तम्बौ तुषारौ हिमशीकरौ ।भास्करौ वह्निमार्तण्डौ विकारौ रोगवैकृतौ ॥
26.1.13 · p. 163
अनुष्टुप्
पिठरौ दन्तिकाग्रन्थौ जठरौ कठिनोदरौ ।प्रकारौ भेदसादृश्यौ आकाराविङ्गिताकृती ॥
26.1.14 · p. 163
अनुष्टुप्
प्रसरः प्रणये वेगे द्वापरः संशये युगे ।भ्रमरः कामुके भृङ्गे इतरः पामरान्ययोः ॥
26.1.15 · p. 164
अनुष्टुप्
मन्दरो बहले मन्दे चाङ्गारोऽलातभौमयोः ।कर्बुरः कनके शट्यां कुबेरः श्री[74]दमन्दयोः ॥
26.1.16 · p. 164
अनुष्टुप्
कूर्परौ जानुकफणी तित्तिरौ मुनिपक्षिणौ ।जम्बीरौ जन्तुपर्णासौ महेन्द्राविन्द्रपर्वतौ ॥
26.1.17 · p. 164
अनुष्टुप्
वासरो नागभेदेऽपि चागुरुः शिंशपापि च ।भद्रश्रीश्चन्दनेऽपि स्यादासुरी राजिकापि च ॥
26.1.18 · p. 164
अनुष्टुप्
सुन्दरी वृक्षभेदेऽपि मञ्जरी तिलकेऽपि च ।पवित्रं स्यात्कुशे पूते कलत्रं श्रोणिभार्ययोः ॥
26.1.19 · p. 164
अनुष्टुप्
भ्रामरं मधुनि गाव्णि मन्दिरं नगरे गृहे ।तिमिरं ध्वान्ताक्षिरुजोरुद्धार उद्धृतावृणे ॥
26.1.20 · p. 164
metre not recognised
प्रवरं संततौ श्रेष्ठे चाक्षरं ब्रह्मवर्णयोः ।प्रतीहारो द्वारि द्वाःस्थे संप्रहारः सृते हतौ ॥
26.1.21 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
अवस्करौ गुह्यगूथौ अपस्करं रथाङ्गकम् ।सहचरः सखा झिञ्टी दण्डधारो यमे नृपे ।मधुकरौ कामिभृङ्गौ विभाकरोऽग्निसूर्ययोः ॥
26.1.22 · p. 165
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्क (wrong syllable); pāda 3, syllable 3 च (wrong syllable)