आर्तगल
ārtagalaपुं · masc.In 6 kośas: 7 synonym verses, 1 as a meaning of another word.
genderपुंmasc.
भीषणः स्यादार्तगलो बहुकण्ठो रुजाकरः ।जालीवृक्षो दुःप्रधर्षः [26a] स्वादुतिक्तफलोऽर्गटः ॥ १०४ ॥
metre not recognised
genderपुंmasc.
पीतभद्रो हेमगौरो विप्रलोभ्यलितोषदः ।कुरण्टकः कुरण्ठश्च नीलस्त्वार्तगलश्च सः ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
नीलझिण्टी द्वयोर्वाणा दासी चार्तगलोऽपि च ।सैरेयकश्च सैरेयः झिण्टी साधारणे द्वयम् ॥
अनुष्टुप्
genderपुंmasc.
किंकिरातः किंकिराटो झिण्टी सैरेयकः पुमान् ।पुंसि त्वार्तगलो बाणो बाणा दासी सहा च सा ॥ ५२३ ॥
अनुष्टुप्
genderपुंmasc.
रुजाकरस्त्वार्तगलो भीषणो बहुकण्टकः ।स्वादुतिक्तफलो जालवृक्षो दुर्धर्षकर्कशौ ॥ ५२४ ॥
अनुष्टुप्
genderपुंmasc.
सैरेयके तु झिण्टी स्त्री तस्मिन् कुरवकोऽरुणे ।दासी सहाऽप्यार्तगलः कुरण्डश्च सनीलकः ॥ १९० ॥
अनुष्टुप्
genderपुंmasc.
आर्तगल as a meaning in nānārtha verses
- शिवकोष नीलपुष्पानीलपुष्पा काञ्चनारनिर्गुण्ड्यार्त्तगलेषु च । नीलपुष्पी क्षुमानीलीकटभीवृद्धदारके ॥ २९६ ॥ Śivakoṣa 17.3.296