कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

बाण

bāṇaपुं · masc.

In 24 kośas: 37 synonym verses, 8 as a nānārtha head word, 61 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.778 · p. 32
बाणे पृषत्कविशिखौ खगगार्ध्रपक्षौ काण्डाशुगप्रदरसायकपत्त्रवाहाः ।पत्त्रीष्वजिह्मगशिलीमुखकङ्कपत्त्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ७७८ ॥
वसन्ततिलका
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.61 · p. 6
वेध्यं निमित्तं बाणे तु लक्ष्यहा मर्मभेदनः ॥ १४१ ॥वीरश्च वीरशङ्कुश्च कदम्बोऽप्यस्त्रकण्टकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.146
पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.466 · p. 53
कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
स्वागता
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.23 · p. 2
शरमार्गणबाणेषुसायकानिलमारुतः ।समीरणाक्षपवनाः पंचवातास्तथाशुगाः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.141 · p. 84
गुणाढ्योप्यथ बाणः स्याद्वक्रगद्यनिबन्धकृत् ।भारविः शत्रुलुम्पः स्याद्भवभूतिस्तु विश्रुतः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.267 · p. 118
सायकोऽजिह्मगो बाणः पृषत्कोपि शिलीमुखः ।कलम्बो मार्गणो रोपः पत्री स्यात्खग आशुगः ॥ २६७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.338 · p. 286
शरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः ।इक्षुरिक्षुरिकापत्रो विशिखोऽथ महाशरः ॥ ३३८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.17 · p. 363
वैरोचनिश्च दीर्घायुर्दाता बाणस्तु तत्सुतः ।शैवोऽथ वृषपर्वा तु वृषपर्वोऽथ शम्बरः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.90 · p. 159
राजसैरेयकः केशरञ्जकः शाणकस्तथा ।झिण्टी दासी द्वयोर्बाणा भवेदोदनपा[39b]क्यपि ।सैर्यको युग्भवन कुरण्टकभेदाः सहचरः । (corrupt)******** सैरेयश्च सहाचरः ॥ ९० ॥
अनुष्टुप्metre not read in every lineLatin letters: corrupt
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.22 · p. 265
कङ्कपत्रः पत्रवाहः पृषत्कः सायकश्च सः ।कलम्बः प्रदरोऽस्त्रीकौ बाण-काण्डाविषुस्त्रिषु ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.44 · p. 112
genderपुंक्लीm. n.
निघादयःशब्दाः पुंसि भवन्ति । अयं निघः पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि ।पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च ।नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥
metre not recognised
genderपुंmasc.
पणादयः शब्दाः पुंसि भवन्ति । अयं पणो विंशतिगण्डकः । अयं गुणः सङ्ख्याख्यः शुक्लादिः[दि] पाटलादिश्च । अयं गणः सङ्घातः । अयं कणः परमाणुः । शोणो नदः । किणो निकषः । फणो भुजङ्गः । घुणः कीटविशेषः । शाणः पाषाणविकारः । बाणः शरः असुरः घृष्टिका च । अयं चूर्णः शकलः खण्ड इत्यर्थः । अयं पन्था मार्गः । अयं बाष्पोऽश्रु । अयमूष्मा घर्मः । अयमध्वा मार्गः । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।नपुंसके श्वभ्रतृणरणार्णानि ।वीणातूणाघोणाघृणास्तु नियतं स्त्रियां विद्यात् ॥ २७ ॥
metre not recognised
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.247 · p. 135
नील आर्त्तगलो दासी बाण ओदनपाक्यपि ।किङ्किराते किङ्किराटः पीतभद्रः प्रलोभ्यपि ॥ २४७ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 78 · p. 39
शिलीमुखः शरो बाणो मार्गणो रोपणः कणः ।इषुः काण्डं क्षुरप्रं च नाराचं तोमरं खगः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.8 · p. 212
वर्षश्वेतप्लवाः शोणः पङ्कमन्थजलाशयाः ।मुरजात्मासिमासाद्रिबाणध्वानाध्वराग्नयः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.104 · p. 224
आकरार्थे तथा गञ्जो भूरुहे बाणपिप्पलौ ।वृन्दे गोले च पिण्डोऽपि वराटो रज्जुशस्त्रयोः ॥ १०४ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.137 · p. 228
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.224 · p. 16
कोदण्डमध्यं तलकः छुरिका खड्गधेनुका ।बाणः कलम्बो विशिखः शरः पत्री शिलीमुखः ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.28 · p. 37
निषङ्गस्तूणतूणीरावुपासङ्गस्तथेषुधिः ।इषुर्बाणः शरः पत्री काण्डो विशिख आशुगः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.300 · p. 40
राहुः साल्बश्च चाणूरो बाणो वध्योऽस्य मन्यते ।वाहनं वैनतेयस्तु शङ्खोऽस्य पाञ्चजन्यकः ॥ ३०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1271 · p. 200
बाणः काण्डः कलम्बश्च कादम्बश्चोऽस्त्रकण्टकः ॥ १२७१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.523 · p. 68
किंकिरातः किंकिराटो झिण्टी सैरेयकः पुमान् ।पुंसि त्वार्तगलो बाणो बाणा दासी सहा च सा ॥ ५२३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1330 · p. 162
पत्रिशरविशिखसायकबाणपृषत्काशुगप्रदराः ।काण्डखगरोपमार्गणनालीकाधोमुखकलम्बाः ॥ १३३० ॥
उपगीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1789 · p. 217
रोहितो रोहिषो रोही रक्तो रोहितकोऽपि च ।बाणोऽर्जुने प्रियाले तु प्रियकश्च मधुस्रवः ॥ १७८९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 123 · p. 538
सरस्तु मुञ्जो बाणाख्यो गुन्द्रस्तेजनकः शरः ॥ १२३ ॥
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.71 · p. 33
सुग्रीवोऽपि यमश्चण्डो नीलाद्यैर्बाण ईरितः ॥द्राम्॥
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.22 · p. 70
हयग्रीवार्चने चैव हयग्रैवीं प्रदर्शयेत् ।रामार्चने धनुर्बाणमुद्रे पर्शुस्तथार्च्चने ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.85 · p. 76
पाशाङ्कुशवराभीतिधनुर्बाणाः समीरिताः ।कनिष्ठाऽनामिके बद्ध्वा स्वाङ्गुष्ठेनैव दक्षतः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.65 · p. 12
शुष्मघासिधसवोऽञ्चतिर्जुहूर्बाण ईषिरतुषग्रहाशिराः ।छागवाहनपृदाकुबर्हिषः स्वर्णसप्तघृतमन्त्रदीधितिः ॥ ६५ ॥
रथोद्धता
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.22 · p. 64
बाणो बिन्ध्याबलिपुतस्त्वाष्ट्रो वृत्रोऽप्यहिश्च सः ।दमघोषसुतश्चैद्यश्चेदिराट् शिशुपालकः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.52 · p. 69
शस्त्राभ्यासश्च खुरली बाणः स्यादत्स्त्रकण्टकः ।स्थूलक्ष्वेडो विपाटश्च चित्रपुङ्खः शरः सरः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
उत्पलिनी Utpalinī · व्याडि Utpalinī 8 · p. 46
महाकालः पुनर्बाणो लूनबाहुर्वृषाणकः ॥ ८ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.39 · p. 48
पीतसाले गौरसर्जप्रियकासनपीवराः ।रक्तपुष्पोऽप्यथो सिन्धुसर्जे बाणः खरोऽर्जुनः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.179 · p. 118
निषंग इषुधिर्न क्ली पत्री तु विशिखः खगः ।पृषत्को रोपणो बाणः कलंबो मर्मभेदनः ॥ १७९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.183 · p. 119
पाददण्डोऽन्वितार्थः स्यात् बाणस्तु गतपत्रणः ।तीरी त्वल्पा वेगवती त्वग्बलाः शरजालकाः ॥ १८३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.45
भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे ॥ ४५ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.3 · p. 193
धान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवेकृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे ।कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक-श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु ।व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो-ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः ।ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौमूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः ।संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणोघ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् ।काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौबाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥
शार्दूलविक्रीडितम्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.4 · p. 194
झिण्ट्यां तु द्वितये द्वयोस्तु निकषे शाणः प्रदिष्टो बुधैःकर्षांशे करपत्रके नरि मतः शाणी तु वस्त्रान्तरे ।त्रायन्त्यामवनेऽन्तिमेऽथ परवत्त्राणं भवेद्रक्षितेप्राणो हृत्पवने शिशौ च कवितासारे बले चानिले ॥ ४ ॥
शार्दूलविक्रीडितम्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.849 · p. 115
ना त्वग्नौ बाणशब्दस्तु बलिपुत्रासुरे पुमान् ।इक्ष्वाकोश्च प्रपौत्रे स्यात् तथैवानोकहान्तरे ॥ ८४९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.850 · p. 115
ककुभाख्ये नृशण्डस्तु शरतद्भेदयोरथ ।वाणा नृस्त्री नीलझिण्ट्यां बालस्तु शिशुमूर्खयोः ॥ ८५० ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास वकारादयः Paramānandīyanāmamālā 5.24.348 · p. 206
वर्णः कीर्तौ द्युतौ गीतक्रमे शुक्लद्विजादिके ।बाणो दैत्ये शरे वृक्षे वाणिर्मेघः सरस्वती ॥ ३४८ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र णद्विः Śivakoṣa 11.1.156 · p. 15
बाणा द्वयोर्नीलटिण्ट्यां बाण इत्कटके पुमान् ।वेणुरिक्षौ च वंशे च शोणः टिण्टो हविर्भुजि ॥ १५६ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1965 · p. 239
प्रतिबिम्बे प्रतिकृतौ बिम्बोऽस्त्री मण्डले समे ।बाणः शरे बलिसुते वृक्षभेदे तु वा स्त्रियाम् ॥ १९६५ ॥
अनुष्टुप्

बाण as a meaning in nānārtha verses