कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नील

nīlaपुं · masc.

In 20 kośas: 53 synonym verses, 5 as a nānārtha head word, 10 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.193 · p. 12
महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1397 · p. 53
अरुणो बालसंध्याभः पीतरक्तस्तु पिञ्जरः ।कपिलः पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः ॥ १३९६ ॥बभ्रुः कद्रुः कडारश्च पिङ्गे कृष्णस्तु मेचकः ।स्याद्रामः श्यामलः श्यामः कालो नीलोऽसितः शितिः ॥ १३९७ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.71
निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः ॥महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह धीवर्गः Amarakośa 1.5.21
कृष्णे नीलासितश्यामकालश्यामलमेचकः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.734 · p. 84
असितं शिति कृष्णं च कालं नीलं च मेचकम् ।श्यामं तु श्यामलं रामं पालाशं हरितं हरित् ॥ ७३४ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.165 · p. 38
वीतनौ कृकपार्श्वस्थौ धमनी ग्रीवयोः पुरः ।नीलः पुमांस्तयोः पश्चात् स्त्रियां मन्या कदम्बिका ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.181 · p. 152
रुच्यं स्यादथ नीलं षण् काचकौचोद्भवं पुनः ।गालक्यजं हृद्यगन्धं कुरुविन्दमथो विडम् ॥ १८१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.370 · p. 173
तालं नीलाम्बरं नीलं तुङ्गा तु वंशरोचना ।क्षीरी वांशी च शुभ्रापि वनेन्दुर्वंशशर्करा ॥ ३७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.582 · p. 197
लोहिताङ्गो रेचनः स्याद्रञ्जनो रक्तचूर्णकः ।तुत्थं नीलाञ्जनं नीलं साम्लगर्तामृतोद्भवम् ॥ ५८२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.603 · p. 199
पुमान्नीलं सौरिरत्नं नीलाश्मा नीलरत्नकः ।स्वर्भानवस्तु गोमेदः सचोत्तममणिः पुनः ॥ ६०३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.609 · p. 200
पद्मरागः शौक्तिकेयं विद्रुमो गरुडोद्भवः ।पुष्परागो वज्रमभि नीलो गोमेदको वृषः ॥ ६०९ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.610 · p. 200
विदूरजोऽपि रव्यादि ग्रहाणां मणयः क्रमात् ।अथ लोहितको वज्रस्तथा नीलमहोपलः ॥ ६१० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.102 · p. 259
महाच्छायः स्कन्धरुहः क्षीरी रक्तफलः पुनः ।कौबेरो बहुपान्नीलः शिफारुट् च वनस्पतिः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.507 · p. 306
पितृप्रियो भृङ्गराजोऽङ्गारकः केशवर्द्धनः ।अन्यो नीलो नीलपुष्पः श्यामलश्चाथ लोमशः ॥ ५०७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.49 · p. 323
सर्वतः कृष्णवर्णोऽपि पिशङ्गो नीलकर्वुरौ ।गुदस्थलं कपीनां यत्तत्कप्यासमितीरितम् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.45 · p. 374
मुकुन्दकुन्दनीलाश्च खर्वः सिद्धास्त्वतः पुरः ।सर्वानुभूतिर्गणिमान्मणिभद्रश्च नन्दनः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.209 · p. 403
नीलो मन्दः शनिः शौरिः शौरी सौरोऽव्ययं शनैः ।सौरिः क्रोडो रेवतीजो राहुस्तु सिंहिकासुतः ॥ २०९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.162 · p. 435
हरिणः पाण्डुरः पाण्डुः पाण्डरश्चाथ धूसरः ।ईषत्पाण्डुः श्यामलस्तु कृष्णो नीलोऽसितोऽपि च ॥ १६२ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.71 · p. 469
नीलो मणौ रवौ मित्रस्तलस्तालचपेटयोः ।कोणेऽश्रिश्चषकोऽशोको नाभिः क्षत्रियवेधसोः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.175 · p. 25
महापद्मश्च पद्मश्च शङ्खो मकर-कच्छपौ ।मुकुन्द-कुन्द-नीलाश्च खर्व्वश्च निधयो नव ॥ १७५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.30 · p. 56
पालाशो हरित-हरित्-पलाश-पीत-नीलाः स्युः स च हरितालसंनिभोऽपि ।श्या[36b]म-श्यामल-शिति-काल-कृष्ण-रामाःनीलोऽस्त्री त्वसित इहास्ति मेचकोऽपि ॥ ३० ॥
प्रहर्षिणीmetre not read in every linenearly प्रहर्षिणी
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.55 · p. 139
निकुञ्जकश्च विदुलो नदीकूलप्रियोऽपि सः ।स्रोतोजो मेघद्यु(पु?)ष्पश्च नीले त्विज्जल-हिज्जलौ ॥ ५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घ (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.89 · p. 159
पीतभद्रो हेमगौरो विप्रलोभ्यलितोषदः ।कुरण्टकः कुरण्ठश्च नीलस्त्वार्तगलश्च सः ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.11 · p. 94
केदारे हि बर्हिरुक्तो हुताशेबर्होऽपर्णपिच्छयोः कोणके निः ।मित्रः सूर्ये रत्नभेदे च नीलोमस्तुः सक्तुर्निर्मलग्राब्णि चाच्छः ॥ ११ ॥
शालिनीmetre not read in every linenearly शालिनी: pāda 1, syllable 4 हि (wrong syllable); pāda 2, syllable 4 र्ण (wrong syllable)
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.247 · p. 135
नील आर्त्तगलो दासी बाण ओदनपाक्यपि ।किङ्किराते किङ्किराटः पीतभद्रः प्रलोभ्यपि ॥ २४७ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 148 · p. 72
कृष्णं नीलासितं कालं धूमं धूम्रमलिप्रभः ।तमोऽन्धकारं तिमिरं ध्वान्तं संतमसं तमम् ॥ १४८ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.76 · p. 15
महापद्मः पद्मनामा शङ्खो मकरकच्छपौ ।मुकुन्दो नीलकुन्दौ च चर्चाश्च नवमो मतः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.288 · p. 88
कापोतस्तु कपोताभः कालः कृष्णोऽसितः शितिः ।श्याममेचकरामास्तु नीलः श्यामलकः समौ ॥ २८८ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.12 · p. 212
इने मित्रो नरे नीलो मणौ भेकेश्वरे पुमान् ।अस्रः कोणे पुमान् कोशश्चषकार्थे नरो मतः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.159 · p. 230
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शैलमरीचिः Pañcatattvaprakāśa 1.2.125 · p. 9
रत्नं मणिर्ललामाख्यो हीरको वज्रनामकः ।नीलं गारुत्मतं पद्मरागं शोणललामकम् ॥ १२५ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.326 · p. 23
नीलः श्यामः शितः कृष्णः पीतो गौरोऽतिपिङ्गलः ।अरुणो लोहितो रक्तः कृष्णलोहितधूम्रकौ ॥ ३२६ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.95 · p. 11
अनुवादी रक्ततुण्डः शुकः कीरः फलादनः ।खञ्जनः खञ्जरीटश्च नीलश्चाषः किकीदिविः ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.175 · p. 19
रत्नं वसु मणिस्तस्य भेदा मरकतादयः ।वैडूर्यवज्रमाणिक्यनीलमौक्तिकविद्रुमाः ॥ १७५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.178 · p. 19
महापद्मस्तथा पद्मः शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दौ नीलश्च खर्वश्च निधयो नव ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.83 · p. 42
नीलो रामोऽञ्जनाभश्च कर्बुराद्यास्तु मिश्रिताः ।युग्मं द्वयं युगं द्वंद्वमुभयं युगलं द्वयी ॥ ८३ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.179 · p. 30
मुकुन्दः कुन्दनीलौ च चर्चाश्च निधयो नव ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2537 · p. 411
कृष्णः कालस्तथा नीलः श्यामश्च श्यामलोऽसितः ।शितिश्च मेचको रामो नव नामानि सन्ति वै ॥ २५३७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.167 · p. 12
नीलो मुकुन्द-नन्दौ च निधिभेदा अमी नव ।अन्तरीक्षमन्तरिक्षमभ्रं गगणमम्बरम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.339 · p. 24
य ईषद्धवलो वर्णः कीर्तितः स च धूसरः ।कृष्णो नीलः शितिः कालः श्यामल-श्याम-मेचकाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.138 · p. 18
मुकुन्दकुन्दनीलाश्च नव भेदा निधेरमी ।वसुधारा वसुमती वल्लभे शङ्खपद्मयोः ॥ १३८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.682 · p. 87
ऋश्यस्त्रिशृङ्गो नीलः स्याद्रोहिदृश्यस्य योषिति ।सारङ्गो रोमकल्माषः कर्णयोर्यो गवाकृतिः ॥ ६८२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.888 · p. 111
कालश्यामश्यामलकृष्णासितनीलमेचकास्तु समाः ।रक्तो रोहितलोहितताम्रारुणशोणपाटलाश्च समाः ॥ ८८८ ॥
गीतिः
genderविadj.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 22 · p. 532
पद्मोऽस्त्रियां महापद्मः शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.34 · p. 38
वामोरुर्मीन(र्मूल)निलय आषाढी कामिको हरिः ।तीव्रश्च तरलो नीलस्त-कारः कीर्त्तितो बुधैः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
नो मेषो वामपादश्चानादिर्नीलश्च वामनः ।दन्तुरश्वोर्ध्ववासी च नरदेवो निरञ्जनः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
वामोरुमूलगो बिन्दुराषाढी कामिको हरिः ।तीव्रश्च तरलो नीलो णान्तस्थादिः त-कारकः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.21 · p. 6
स्थिरचक्रो वज्रधरः प्रज्ञाकार्यश्च वादिराट् ।नीलोत्पली महाराजो नीलः शार्दूलवाहनः ॥ २१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.78 · p. 14
अस्त्री पद्मो महापद्मः शंखो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च खर्वाः स्युर्निधयो नव ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.61 · p. 14
मुकुंदकुंदनीलाश्च चर्चश्चेति निधेर्नव ॥ ६०.५ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.17 · p. 66
प्रिंयको रोमभिर्युक्तो मृदूच्चमसृणैर्घनैः ।नीलस्स श्वेतरेखावानथवा श्वेतचन्द्रकः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.125 · p. 183
श्वित्रं श्वेतेऽत्र चक्रं तु दद्रुः स्त्री मुखजः पुनः ।पुंहलोऽपि वरण्डोऽपि व्यंगो नीलं पृषन्मुखे ॥ १२५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.11 · p. 196
काले कृष्णासितश्यामनीलश्यामलमेचकाः ।रोहिते लोहितो रक्तो हारिद्रे पीतपीतले ॥ ११ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.6 · p. 191
नीलः कपीश्वरे शैले कृष्णे नीलं तु पादपे ।कूलं स्थाने प्रदीप्ते च भागे सैन्यस्य पश्चिमे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.67 · p. 340
उञ्छे तु षण्ढेऽप्यसिते तु नीलोऽस्त्रियां परस्मिंस्त्वसितान्विते स्यात् ॥ ६७ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.68 · p. 340
पुमान्महीभृन्निधिरत्नभेद-कपिप्रभेदेष्वथ चिह्नभेदे ।स्त्रियां च[नीली]मधुपर्णिकायांकूलं तडागस्तुपयोः प्रतीपे ॥ ६८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.691 · p. 102
नीली स्त्र्योषधिभेदे स्यात् कालीसंज्ञे पुमांस्तु सः ।कार्ष्ण्ये शौक्ल्ये च गुणयोस्त्रि तु तद्वति तत्र च ॥ ६९१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.22 · p. 278
नीलः पुंसि कयौ श्याम नीली रागद्रुमेऽपि च ।पलन्तु मानके मांसे पल्लं स्थूलकुशूलयोः ॥
अनुष्टुप्

नील as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् रामवणिक्पथः पुरं वेदो निगमो नागरो वणिक् । नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ॥ १४० ॥ Amarakośa 3.3.140
  • धरणिकोश कृष्णकृष्णाः स्युः शस्त्रकव्यासविष्णुनीलधनंजयाः । कृष्णं च [म]रिचे कृष्णां पिप्पलीं द्रौपदीं विदुः ॥ Dharaṇikośa 14.3.8
  • कोषकल्पतरु मेचकसंपाको नृपतरुधृष्टतर्ककेषु पुंलिङ्गः पुनरपि पेचकोऽस्त्युलूके । स्यान्नीले तमसि मले च बर्हिचन्द्रे स्त्रीलिङ्गं न भजति जातु मेचकोऽपि ॥ ६२ ॥ Koṣakalpataru 6.1.62
  • शिवकोष क्षुमाअतसीनीलयोः क्षेमश्चण्डाचोरकयोर्द्वयोः । ध्यामो दमनके गन्धतृणे पद्मः पलङ्कषे ॥ ३२८ ॥ Śivakoṣa 20.1.328
  • शब्दरत्नावली घृतगुप्तन्तु रक्षिते गूढे सङ्गतेऽप्यभिधेयतत् । घातः प्रहारे कान्ते स्यात्तालावस्थान इत्यपि । घृतं नीले क्लीबमाद्ये दीप्तिसेचनयोस्त्रिषु ॥ Śabdaratnāvalī 7.16.12
  • शब्दरत्नावली राजीवअथोत्तरपदस्थोऽपि श्रेष्ठवाची भवेदयम् । फेरवो जम्बुके धूर्ते हिंस्रे च क्षणदाचरे ॥ माधवो यादवे विष्णौ मधुवैशाखयोरपि । माधवी स्यान्मधुरिकावासन्तीशर्करासु च ॥ राजीवं कमले क्लीबं स्यात्पुंसि मृगनीलयोः । राघवो रघुनाथे स्याबृहन्मत्स्यविशेषके ॥ रौरवाश्चञ्चले धूर्ते घोरे च नरकान्तरे । वडवा कुम्भदास्यश्वाब्राह्मणकामिनीषु च ॥ Śabdaratnāvalī 7.29.33
  • शब्दरत्नाकर कृष्णकचः केशे जीवपुत्रे कृष्णो नीलेऽनले हरौ । व्यासेऽर्जुने च कृष्णा तु पिप्पली द्रुपदात्मजा ॥ १९०० ॥ Śabdaratnākara 4.1.1900
  • तन्त्राभिधान नगिरिनायक-नीलौ च शिवोऽनादिर्महामतिः ॥ १२० ॥ Tantrābhidhāna 2.37.120
  • वैजयन्ती शितिविद्धं विदारिते तुल्ये विन्नं लब्धे विचारिते । शितिः श्वेते च नीले च शुभो मंजुप्रशस्तयोः ॥ १७ ॥ Vaijayantī 6.4.17
  • वैजयन्ती कृष्णअयोघनेऽनृते फाले दंभे निश्चलयन्त्रके । कृष्णं सीसाघलोहेषु कृष्णो नीले नले कलौ ॥ १४ ॥ Vaijayantī 6.5.14